यशस्वी ध्रुवसन्धेस्तु भरतो नाम नामतः। भरतात् तु महातेजा असितो नाम जायत
यस्यैते प्रतिराजान उदपद्यन्त शत्रवः। हैहयास्तालजङ्घाश्च शूराश्च शशबिन्दवः
तांश्च स प्रतियुध्यन् वै युद्धे राजा प्रवासितः। हिमवन्तमुपागम्य भार्याभ्यां सहितस्तदा
असितोऽल्पबलो राजा कालधर्ममुपेयिवान्। द्वे चास्य भार्ये गर्भिण्यौ बभूवतुरिति श्रुतिः
एका गर्भविनाशार्थं सपत्न्यै सगरं ददौ। ततः शैलवरे रम्ये बभूवाभिरतो मुनिः
भार्गवश्च्यवनो नाम हिमवन्तमुपाश्रितः। तत्र चैका महाभागा भार्गवं देववर्चसम्
ववन्दे पद्मपत्राक्षी कांक्षन्ती सुतमुत्तमम्। तमृषिं साभ्युपागम्य कालिन्दी चाभ्यवादयत्
स तामभ्यवदद् विप्रः पुत्रेप्सुं पुत्रजन्मनि। तव कुक्षौ महाभागे सुपुत्रः सुमहाबलः
महावीर्यो महातेजा अचिरात् संजनिष्यति। गरेण सहितः श्रीमान् मा शुचः कमलेक्षणे
च्यवनं च नमस्कृत्य राजपुत्री पतिव्रता। पत्या विरहिता तस्मात् पुत्रं देवी व्यजायत
सपत्न्या तु गरस्तस्यै दत्तो गर्भजिघांसया। सह तेन गरेणैव संजातः सगरोऽभवत्
सगरस्यासमञ्जस्तु असमञ्जादथांशुमान्। दिलीपोंऽशुमतः पुत्रो दिलीपस्य भगीरथः
भगीरथात् ककुत्स्थश्च ककुत्स्थाच्च रघुस्तथा। रघोस्तु पुत्रस्तेजस्वी प्रवृद्धः पुरुषादकः
कल्माषपादोऽप्यभवत् तस्माज्जातस्तु शङ्खणः। सुदर्शनः शङ्खणस्य अग्निवर्णः सुदर्शनात्
शीघ्रगस्त्वग्निवर्णस्य शीघ्रगस्य मरुः सुतः। मरोः प्रशुश्रुकस्त्वासीदम्बरीषः प्रशुश्रुकात्
अम्बरीषस्य पुत्रोऽभून्नहुषश्च महीपतिः। नहुषस्य ययातिस्तु नाभागस्तु ययातिजः
नाभागस्य बभूवाज अजाद् दशरथोऽभवत्। अस्माद् दशरथाज्जातौ भ्रातरौ रामलक्ष्मणौ
आदिवंशविशुद्धानां राज्ञां परमधर्मिणाम्। इक्ष्वाकुकुलजातानां वीराणां सत्यवादिनाम्
रामलक्ष्मणयोरर्थे त्वत्सुते वरये नृप। सदृशाभ्यां नरश्रेष्ठ सदृशे दातुमर्हसि
thumb|एकसप्ततितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकसप्ततितमः सर्गः ॥१-
एवं ब्रुवाणं जनकः प्रत्युवाच कृताञ्जलिः। श्रोतुमर्हसि भद्रं ते कुलं नः परिकीर्तितम्
प्रदाने हि मुनिश्रेष्ठ कुलं निरवशेषतः। वक्तव्यं कुलजातेन तन्निबोध महामते
राजाभूत् त्रिषु लोकेषु विश्रुतः स्वेन कर्मणा। निमिः परमधर्मात्मा सर्वसत्त्ववतां वरः
तस्य पुत्रो मिथिर्नाम जनको मिथिपुत्रकः। प्रथमो जनको राजा जनकादप्युदावसुः
उदावसोस्तु धर्मात्मा जातो वै नन्दिवर्धनः। नन्दिवर्धसुतः शूरः सुकेतुर्नाम नामतः
सुकेतोरपि धर्मात्मा देवरातो महाबलः। देवरातस्य राजर्षेर्बृहद्रथ इति स्मृतः
बृहद्रथस्य शूरोऽभून्महावीरः प्रतापवान्। महावीरस्य धृतिमान् सुधृतिः सत्यविक्रमः
सुधृतेरपि धर्मात्मा धृष्टकेतुः सुधार्मिकः। धृष्टकेतोश्च राजर्षेर्हर्यश्व इति विश्रुतः
हर्यश्वस्य मरुः पुत्रो मरोः पुत्रः प्रतीन्धकः। प्रतीन्धकस्य धर्मात्मा राजा कीर्तिरथः सुतः
पुत्रः कीर्तिरथस्यापि देवमीढ इति स्मृतः। देवमीढस्य विबुधो विबुधस्य महीध्रकः