ईदृशास्ते भविष्यन्ति पुत्राः पुत्रि न संशयः । तेजसा भास्करसमो यादृशो ऽयं धनेश्वरः ।। ७.९.
सा तु तद्वचनं श्रुत्वा कन्यका पितृगौरवात् । तत्रोपागम्य सा तस्थौ विश्रवा यत्र तप्यते ।। ७.९.
एतस्मिन्नन्तरे राम पुलस्त्यतनयो द्विजः । अग्निहोत्रमुपातिष्ठच्चतुर्थ इव पावकः ।। ७.९.
अविचिन्त्य तु तां वेलां दारुणां पितृगौरवात् । उपसृत्याग्रतस्तस्य चरणाधोमुखी स्थिता । विलिखन्ती मुहुर्भूमिमङ्गुष्ठाग्रेण भामिनी ।। ७.९.
स तु तां वीक्ष्य सुश्रोणीं पूर्णचन्द्रनिभाननाम् । अब्रवीत्परमोदारो दीप्यमानां स्वतेजसा ।। ७.९.
भद्रे कस्यासि दुहिता कुतो वा त्वमिहागता । किं कार्यं कस्य वा हेतोस्तत्त्वतो ब्रूहि शोभने ।। ७.९.
एवमुक्ता तु सा कन्या कृताञ्जलिरथाब्रवीत् । आत्मप्रभावेण मुने ज्ञातुमर्हसि मे मतम् ।। ७.९.
किं तु मां विद्धि ब्रह्मर्षे शासनात्पितुरागताम् । कैकसी नाम नाम्नाहं शेषं त्वं ज्ञातुमर्हसि ।। ७.९.
स तु गत्वा मुनिर्ध्यानं वाक्यमेतदुवाच ह । विज्ञातं ते मया भद्रे कारणं यन्मनोगतम् ।। ७.९.
सुताभिलाषो मत्तस्ते मत्तमातङ्गगामिनि । दारुणायां तु वेलायां यस्मात्त्वं मामुपस्थिता ।। ७.९.
शृणु तस्मात्सुतान्भद्रे यादृशाञ्जनयिष्यसि । दारुणान्दारुणाकारान्दारुणाभिजनप्रियान् ।। ७.९.
प्रसविष्यसि सुश्रोणि राक्षसान्क्रूरकर्मणः । सा तु तद्वचनं श्रुत्वा प्रणिपत्याब्रवीद्वचः ।। ७.९.
भगवन्नीदृशान्पुत्रांस्त्वत्तो ऽहं ब्रह्मवादिनः । नेच्छामि सुदुराचारान्प्रसादं कर्तुमर्हसि ।। ७.९.
कन्यया त्वेवमुक्तस्तु विश्रवा मुनिपुङ्गवः । उवाच कैकसीं भूयः पूर्णेन्दुरिव रोहिणीम् ।। ७.९.
पश्चिमो यस्तव सुतो भविष्यति शुभानने । मम वंशानुरूपः स धर्मात्मा च भविष्यति ।। ७.९.
एवमुक्ता तु सा कन्या राम कालेन केनचित् । जनयामास बीभत्सं रक्षोरूपं सुदारुणम् ।। ७.९.
दशग्रीवं महादंष्ट्रं नीलाञ्जनचयोपमम् । ताम्रोष्ठं विंशतिभुजं महास्यं दीप्तमूर्धजम् ।। ७.९.
तस्मिञ्जाते तु तत्काले सज्वालकवलाः शिवाः । क्रव्यादाश्चापसव्यानि मण्डलानि प्रचक्रमुः ।। ७.९.
ववर्ष रुधिरं देवो मेघाश्च खरनिःस्वनाः । प्रबभौ न च सूर्यो वै महोल्काश्चापतन्भुवि ।। ७.९.
चकम्पे जगती चैव ववुर्वाताः सुदारुणाः । अक्षोभ्यः क्षुभितश्चैव समुद्रः सरितां पतिः ।। ७.९.
अथ नामाकरोत्तस्य पितामहसमः पिता । दशग्रीवः प्रसूतो ऽयं दशग्रीवो भविष्यति ।। ७.९.
तस्य त्वनन्तरं जातः कुम्भकर्णो महाबलः । प्रमाणाद्यस्य विपुलं प्रमाणं नेह विद्यते ।। ७.९.
ततः शूर्पणखा नाम सञ्जज्ञे विकृतानना । विभीषणश्च धर्मात्मा कैकस्याः पश्चिमः सुतः ।। ७.९.
तस्मिञ्जाते महासत्त्वे पुष्पवर्षं पपात ह ।। ७.९.
नभःस्थाने दुन्दुभयो देवानां प्राणदंस्तदा । वाक्यं चैवान्तरिक्षे च साधु साध्विति तत्तदा ।। ७.९.
तौ तु तत्र महारण्ये ववृधाते महौजसौ । कुम्भकर्णदशग्रीवौ लोकोद्वेगकरौ तदा ।। ७.९.
कुम्भकर्णः प्रमत्तस्तु महर्षीन्धर्मवत्सलान् । त्रैलोक्यं भक्षयन्नित्यासन्तुष्टो विचचार ह ।। ७.९.
विभीषणस्तु धर्मात्मा नित्यं धर्मे व्यवस्थितः । स्वाध्यायनियताहार उवास विजितेन्द्रियः ।। ७.९.
अथ वैश्रवणो देवस्तत्र कालेन केनचित् । आगतः पितरं द्रष्टुं पुष्पकेण धनेश्वरः ।। ७.९.
तं दृष्ट्वा कैकसी तत्र ज्वलन्तमिव तेजसा । आगम्य राक्षसी तत्र दशग्रीवमुवाच ह ।। ७.९.