अट्टहासान्विमुञ्चन्तो घननादसमस्वनाः । वाश्यन्त्यश्च शिवास्तत्र दारुणं घोरदर्शनाः ।। ७.६.
सम्पतन्त्यथ भूतानि दृश्यन्ते च यथाक्रमम् । गृध्रचक्रं महच्चात्र ज्वलनोद्गारिभिर्मुखैः ।। ७.६.
राक्षसानामुपरि खे भ्रमते ऽलातचक्रवत् । कपोता रक्तपादाश्च शारिका विद्रुता ययुः ७.६.
उत्पातांस्ताननादृत्य राक्षसा बलगर्विताः । यान्त्येव न निवर्त्तन्ते मृत्युपाशावपाशिताः ।। ७.६.
माल्यवांश्च सुमाली च माली च सुमहाबलाः । आसन्पुरःसरास्तेषां क्रतूनामिव पावकाः ।। ७.६.
माल्यवन्तं च ते सर्वे माल्यवन्तमिवाचलम् । निशाचरा ह्याश्रयन्ति धातारमिव देवताः ।। ७.६.
तद्बलं राक्षसेन्द्राणां महाभ्रघननादितम् । जयेप्सया देवलोकं ययौ मालिवशे स्थितम् ।। ७.६.
राक्षसानां समुद्योगं तं तु नारायणः प्रभुः । देवदूतादुपश्रुत्य चक्रे युद्धे तदा मनः ।। ७.६.
स सज्जायुधतूणीरो वैनतेयोपरि स्थितः । आसज्ज्य कवचं दिव्यं सहस्रार्कसमद्युति ।। ७.६.
आबध्य शरसम्पूर्णे इषुधी विमले तदा । श्रोणिसूत्रं च खड्गं च विमलं कमलेक्षणः ७.६.
सुपर्णं गिरिसङ्काशं वैनतेयमथास्थितः । राक्षसानामभावाय ययौ तूर्णतरं प्रभुः ।। ७.६.
सुपर्णपृष्ठे स बभौ श्यामः पीताम्बरो हरिः । काञ्चनस्य गिरेः शृङ्गे सतडित्तोयदो यथा ।। ७.६.
स सिद्धदेवर्षिमहोरगैश्च गन्धर्वयक्षैरुपगीयमानः । समाससादासुरसैन्यशत्रूंश्चक्रासिशार्ङ्गायुधशङ्खपाणिः ।। ७.६.
सुपर्णपक्षानिलनुन्नपक्षं भ्रमत्पताकं प्रविकीर्णशस्त्रम् । चचाल तद्राक्षसराजसैन्यं चलोपलं नील इवाचलेन्द्रः ।। ७.६.
ततः शरैः शोणितमांसरूषितैर्युगान्तवैश्वानरतुल्यविग्रहैः । निशाचराः सम्परिवार्य माधवं वरायुधैर्निर्बिभिदुः सहस्रशः ।। ७.६.
नारायणगिरिं ते तु गर्जन्तो राक्षसाम्बुदाः । ववर्षुः शरवर्षेण वर्षेणेवाद्रिमम्बुदाः ।। ७.७.
श्यामावदातस्तैर्विष्णुर्नीलैर्नक्तञ्चरोत्तमैः । वृतो ऽञ्जनगिरीवासीत् वर्षमाणैः पयोधरैः ।। ७.७.
शलभा इव केदारं मशका इव पर्वतम् । यथामृतघटं दंशा मकरा इव चार्णवम् ।। ७.७.
तथा रक्षोधनुर्मुक्ता वज्रानिलमनोजवाः । हरिं विशन्ति स्म शरा लोका इव विपर्यये ।। ७.७.
स्यन्दनैः स्यन्दनगता गजैश्च गजपृष्ठगाः । अश्वारोहास्तथाश्वैश्च पादाताश्चाम्बरे स्थिताः ।। ७.७.
राक्षसेन्द्रा गिरिनिभाः शरैः शक्त्यृष्टितोमरैः । निरुछ्वासं हरिं चक्रुः प्राणायामा इव द्विजम् ।। ७.७.
निशाचरैस्ताड्यमानो मीनैरिव महोदधिः । शार्ङ्गमायम्य दुर्धर्षो राक्षसेभ्यो ऽसृजच्छरान् ।। ७.७.
शरैः पूर्णायतोत्सृष्टैर्वज्रवक्त्रैर्मनोजवैः । चिच्छेद विष्णुर्निशितैः शतशो ऽथ सहस्रशः ।। ७.७.
विद्राव्य शरवर्षेण वर्षा वायुरिवोत्थितम् । पाञ्चजन्यं महाशङ्खं प्रदध्मौ पुरुषोत्तमः ।। ७.७.
सो ऽम्बुजो हरिणा ध्मातः सर्वप्राणेन शङ्खराट् । ररास भीमनिर्हादस्त्रैलोक्यं व्यथयन्निव ।। ७.७.
शङ्खराजरवः सो ऽथ त्रासयामास राक्षसान् । मृगराज इवारण्ये समदानिव कुञ्जरान् ।। ७.७.
न शेकुरश्वाः संस्थातुं विमदाः कुञ्जराभवन् । स्यन्दनेभ्यश्च्युता वीराः शङ्खरावितदुर्बलाः ।। ७.७.
शार्ङ्गचापविनिर्मुक्ता वज्रतुल्याननाः शराः । विदार्य तानि रक्षांसि सुपुङ्खा विविशुः क्षितिम् ।। ७.७.
भिद्यमानाः शरैः सङ्ख्ये नारायणकरच्युतैः । निपेतू राक्षसा भूमौ शैला वज्रहता इव ।। ७.७.
व्रणानि परगात्रेभ्यो विष्णुचक्रकृतानि वै । असृक्क्षरन्ति धाराभिः स्वर्णधारा इवाचलाः ।। ७.७.