अस्माकमपि तावत्त्वं गृहं कुरु महामते । हिमवन्तमपाश्रित्य मेरुमन्दरमेव वा । महेश्वरगृहप्रख्यं गृहं नः क्रियतां महत् ।। ७.५.
विश्वकर्मा ततस्तेषां राक्षसानां महाभुजः । निवासं कथयामास शक्रस्येवामरावतीम् ।। ७.५.
दक्षिणस्योदधेस्तीरे त्रिकूटो नाम पर्वतः । सुवेल इति चाप्यन्यो द्वितीयस्तत्र सत्तमाः ।। ७.५.
शिखरे तस्य शैलस्य मध्यमे ऽम्बुदसन्निभे । शकुनैरपि दुष्प्रापे टङ्कच्छिन्नचतुर्दिशि ।। ७.५.
त्रिंशद्योजनक्स्तीर्णा शतयोजनमायता । स्वर्णप्राकारसंवीता हेमतोरणसंवृता ।। ७.५.
मया लङ्केति नगरी शक्राज्ञप्तेन निर्मिता । तस्यां वसत दुर्धर्षा यूयं राक्षसपुङ्गवाः ।। ७.५.
अमरावतीं समासाद्य सेन्द्रा इव दिवौकसः । लङ्कादुर्गं समासाद्य राक्षसैर्बहुभिर्वृताः ।। ७.५.
भविष्यथ दुराधर्षाः शत्रूणां शत्रुसूदनाः ।। ७.५.
विश्वकर्मवचः श्रुत्वा ततस्ते राक्षसोत्तमाः । सहस्रानुचरा भूत्वा गत्वा तामवसन्पुरीम् ।। ७.५.
दृढप्राकारपरिखां हैमैर्गृहशतैर्वृताम् । लङ्कामवाप्य ते हृष्टा न्यवसन्रजनीचराः ।। ७.५.
एतस्मिन्नेव काले तु यथाकामं च राघव । नर्मदा नाम गन्धर्वी बभूव रघुनन्दन ।। ७.५.
तस्याः कान्यात्रयं ह्यासीत् धीश्रीकिर्तिसमद्युति । ज्येष्ठक्रमेण सा तेषां राक्षसानामराक्षसी ।। ७.५.
कन्यास्ताः प्रददौ हृष्टा पूर्णचन्द्रनिभाननाः । त्रयाणां राक्षसेन्द्राणां तिस्रो गन्धर्वकन्यकाः ।। ७.५.
दत्ता मात्रा महाभागा नक्षत्रे भगदैवते । कुतदारास्तु ते राम सुकेशतनयास्तदा ।। ७.५.
चिक्रीडुः सह भार्याभिरप्सरोभिरिवामराः । ततो माल्यवतो भार्या सुन्दरी नाम सुन्दरी ।। ७.५.
स तस्यां जनयामास यदपत्यं निबोध तत् । वज्रमुष्टिर्विरूपाक्षोदुर्मुखश्चैव राक्षसः ।। ७.५.
सुप्तघ्नो यज्ञकोपश्च मत्तोन्मत्तौ तथैव च । अनला चाभवत्कन्या सुन्दर्यां राम सुन्दरी ।। ७.५.
सुमालिनो ऽपि भार्यासीत्पूर्णचद्रनिभानना । नाम्ना केतुमती राम प्राणेभ्यो ऽपि गरीयसी ।। ७.५.
सुमाली जनयामास यदपत्यं निशाचरः । केतुमत्यां महाराज तन्निबोधानुपूर्वशः ।। ७.५.
प्रहस्तो ऽकम्पनश्चैव विकटः कालकार्मुखः । धूम्राक्षश्चैव दण्डश्च सुपार्श्वश्च महाबलः ।। ७.५.
संह्रादिः प्रघसश्चैव भासकर्णश्च राक्षसः । राका पुष्पोत्कटा चैव कैकसी च शुचिस्मिता ७.५.
मालेस्तु वसुधा नाम गन्धर्वी रूपशालिनी । भार्यासीत्पद्मपत्राक्षी स्वक्षी यक्षीवरोपमा ।। ७.५.
सुमालेरनुजस्तस्यां जनयामास यत् प्रभो । अपत्यं कथ्यमानं तु मया त्वं शृणु राघव ।। ७.५.
अनिलश्चानलश्चैव हरः सम्पातिरेव च । एते विभीषणामात्या मालेयास्तु निशाचरः ।। ७.५.
ततस्तु ते राक्षसपुङ्गवास्त्रयो निशाचरैः पुत्रशतैश्च संवृताः । सुरान्सहेन्द्रानृषिनागयक्षान्बबाधिरे तान्बहुवीर्यदर्पिताः ।। ७.५.
जगद्भ्रमन्तो ऽनिलवद्दुरासदा रणेषु मृत्युप्रतिमानतेजसः । वरप्रदानादतिगर्विता भृशं क्रतुक्रियाणां प्रशमङ्कराः सदा ।। ७.५.
तैर्वध्यमाना देवाश्च ऋषयश्च तपोधनाः । भयार्ताः शरणं जग्मुर्देवदेवं महेश्वरम् ।। ७.६.
जगत्सृष्ट्यन्तकर्तारमजमव्यक्तरूपिणम् । आधारं सर्वलोकानामाराध्यं परमं गुरुम् ।। ७.६.
ते समेत्य तु कामारिं त्रिपुरारिं त्रिलोचनम् । ऊचुः प्राञ्जलयो देवा भयगद्गदभाषिणः ।। ७.६.
सुकेशपुत्रैर्भगवन्पितामहवरोद्धतैः । प्रजाध्यक्ष प्रजाः सर्वा बाध्यन्ते रिपुबाधनैः ।। ७.६.