सत्यार्जवशमोपेतैस्तपोभिरतिदुष्करैः । सन्तापयन्तस्त्रील्लोँकान्सदेवासुरमानुषान् ।। ७.५.
ततो विभुश्चतुर्वक्त्रो विमानवरमास्थितः । सुकेशपुत्रानामन्त्र्य वरदो ऽस्मीत्यभाषत ।। ७.५.
ब्रह्माणं वरदं ज्ञात्वा सेन्द्रैर्देवगणैर्वृतम् । ऊचुः प्राञ्जलयः सर्वे वेपमाना इव द्रुमाः ।। ७.५.
तपसाराधितो देव यदि नो दिशसे वरम् । अजेयाः शत्रुहन्तारस्तथैव चिरजीविनः ।। ७.५.
प्रभविष्ण्वो भवामेति परस्परमनुव्रताः ।। ७.५.
एवं भविष्यतीत्युक्त्वा सुकेशतनयान्विभुः । स ययौ ब्रह्मलोकाय ब्रह्मा ब्राह्मणवत्सलः ।। ७.५.
वरं लब्ध्वा तु ते सर्वे राम रात्रिञ्चरास्तदा । सुरासुरान्प्रबाधन्ते वरदानसुनिर्भयाः ।। ७.५.
तैर्वध्यमानास्त्रिदशाः सर्षिसङ्घाः सचारणाः । त्रातारं नाधिगच्छन्ति निरयस्था यथा नराः ।। ७.५.
अथ ते विश्वकर्माणं शिल्पिनां वरमव्ययम् । ऊचुः समेत्य संहृष्टा राक्षसा रघुसत्तम ।। ७.५.
ओजस्तेजोबलवतां महतामात्मतेजसा । गृहकर्ता भवानेव देवानां हृदयेप्सितम् ।। ७.५.
अस्माकमपि तावत्त्वं गृहं कुरु महामते । हिमवन्तमपाश्रित्य मेरुमन्दरमेव वा । महेश्वरगृहप्रख्यं गृहं नः क्रियतां महत् ।। ७.५.
विश्वकर्मा ततस्तेषां राक्षसानां महाभुजः । निवासं कथयामास शक्रस्येवामरावतीम् ।। ७.५.
दक्षिणस्योदधेस्तीरे त्रिकूटो नाम पर्वतः । सुवेल इति चाप्यन्यो द्वितीयस्तत्र सत्तमाः ।। ७.५.
शिखरे तस्य शैलस्य मध्यमे ऽम्बुदसन्निभे । शकुनैरपि दुष्प्रापे टङ्कच्छिन्नचतुर्दिशि ।। ७.५.
त्रिंशद्योजनक्स्तीर्णा शतयोजनमायता । स्वर्णप्राकारसंवीता हेमतोरणसंवृता ।। ७.५.
मया लङ्केति नगरी शक्राज्ञप्तेन निर्मिता । तस्यां वसत दुर्धर्षा यूयं राक्षसपुङ्गवाः ।। ७.५.
अमरावतीं समासाद्य सेन्द्रा इव दिवौकसः । लङ्कादुर्गं समासाद्य राक्षसैर्बहुभिर्वृताः ।। ७.५.
भविष्यथ दुराधर्षाः शत्रूणां शत्रुसूदनाः ।। ७.५.
विश्वकर्मवचः श्रुत्वा ततस्ते राक्षसोत्तमाः । सहस्रानुचरा भूत्वा गत्वा तामवसन्पुरीम् ।। ७.५.
दृढप्राकारपरिखां हैमैर्गृहशतैर्वृताम् । लङ्कामवाप्य ते हृष्टा न्यवसन्रजनीचराः ।। ७.५.
एतस्मिन्नेव काले तु यथाकामं च राघव । नर्मदा नाम गन्धर्वी बभूव रघुनन्दन ।। ७.५.
तस्याः कान्यात्रयं ह्यासीत् धीश्रीकिर्तिसमद्युति । ज्येष्ठक्रमेण सा तेषां राक्षसानामराक्षसी ।। ७.५.
कन्यास्ताः प्रददौ हृष्टा पूर्णचन्द्रनिभाननाः । त्रयाणां राक्षसेन्द्राणां तिस्रो गन्धर्वकन्यकाः ।। ७.५.
दत्ता मात्रा महाभागा नक्षत्रे भगदैवते । कुतदारास्तु ते राम सुकेशतनयास्तदा ।। ७.५.
चिक्रीडुः सह भार्याभिरप्सरोभिरिवामराः । ततो माल्यवतो भार्या सुन्दरी नाम सुन्दरी ।। ७.५.
स तस्यां जनयामास यदपत्यं निबोध तत् । वज्रमुष्टिर्विरूपाक्षोदुर्मुखश्चैव राक्षसः ।। ७.५.
सुप्तघ्नो यज्ञकोपश्च मत्तोन्मत्तौ तथैव च । अनला चाभवत्कन्या सुन्दर्यां राम सुन्दरी ।। ७.५.
सुमालिनो ऽपि भार्यासीत्पूर्णचद्रनिभानना । नाम्ना केतुमती राम प्राणेभ्यो ऽपि गरीयसी ।। ७.५.
सुमाली जनयामास यदपत्यं निशाचरः । केतुमत्यां महाराज तन्निबोधानुपूर्वशः ।। ७.५.
प्रहस्तो ऽकम्पनश्चैव विकटः कालकार्मुखः । धूम्राक्षश्चैव दण्डश्च सुपार्श्वश्च महाबलः ।। ७.५.