भ्राता मम महातेजा वीर्यवानतिधार्मिकः। कुशध्वज इति ख्यातः पुरीमध्यवसच्छुभाम्
वार्याफलकपर्यन्तां पिबन्निक्षुमतीं नदीम्। सांकाश्यां पुण्यसंकाशां विमानमिव पुष्पकम्
तमहं द्रष्टुमिच्छामि यज्ञगोप्ता स मे मतः। प्रीतिं सोऽपि महातेजा इमां भोक्ता मया सह
एवमुक्ते तु वचने शतानन्दस्य संनिधौ। आगताः केचिदव्यग्रा जनकस्तान् समादिशत्
शासनात् तु नरेन्द्रस्य प्रययुः शीघ्रवाजिभिः। समानेतुं नरव्याघ्रं विष्णुमिन्द्राज्ञया यथा
सांकाश्यां ते समागम्य ददृशुश्च कुशध्वजम्। न्यवेदयन् यथावृत्तं जनकस्य च चिन्तितम्
तद्वृत्तं नृपतिः श्रुत्वा दूतश्रेष्ठैर्महाजवैः। आज्ञया तु नरेन्द्रस्य आजगाम कुशध्वजः
स ददर्श महात्मानं जनकं धर्मवत्सलम्। सोऽभिवाद्य शतानन्दं जनकं चातिधार्मिकम्
राजार्हं परमं दिव्यमासनं सोऽध्यरोहत। उपविष्टावुभौ तौ तु भ्रातरावमितद्युती
प्रेषयामासतुर्वीरौ मन्त्रिश्रेष्ठं सुदामनम्। गच्छ मन्त्रिपते शीघ्रमिक्ष्वाकुममितप्रभम्
आत्मजैः सह दुर्धर्षमानयस्व समन्त्रिणम्। औपकार्यां स गत्वा तु रघूणां कुलवर्धनम्
ददर्श शिरसा चैनमभिवाद्येदमब्रवीत्। अयोध्याधिपते वीर वैदेहो मिथिलाधिपः
स त्वां द्रष्टुं व्यवसितः सोपाध्यायपुरोहितम्। मन्त्रिश्रेष्ठवचः श्रुत्वा राजा सर्षिगणस्तथा
सबन्धुरगमत् तत्र जनको यत्र वर्तते। राजा च मन्त्रिसहितः सोपाध्यायः सबान्धवः
वाक्यं वाक्यविदां श्रेष्ठो वैदेहमिदमब्रवीत्। विदितं ते महाराज इक्ष्वाकुकुलदैवतम्
वक्ता सर्वेषु कृत्येषु वसिष्ठो भगवानृषिः। विश्वामित्राभ्यनुज्ञातः सह सर्वैर्महर्षिभिः
एष वक्ष्यति धर्मात्मा वसिष्ठो मे यथाक्रमम्। तूष्णींभूते दशरथे वसिष्ठो भगवानृषिः
उवाच वाक्यं वाक्यज्ञो वैदेहं सपुरोधसम्। अव्यक्तप्रभवो ब्रह्मा शाश्वतो नित्य अव्ययः
तस्मान्मरीचिः संजज्ञे मरीचेः कश्यपः सुतः। विवस्वान् कश्यपाज्जज्ञे मनुर्वैवस्वतः स्मृतः
मनुः प्रजापतिः पूर्वमिक्ष्वाकुश्च मनोः सुतः। तमिक्ष्वाकुमयोध्यायां राजानं विद्धि पूर्वकम्
इक्ष्वाकोस्तु सुतः श्रीमान् कुक्षिरित्येव विश्रुतः। कुक्षेरथात्मजः श्रीमान् विकुक्षिरुदपद्यत
विकुक्षेस्तु महातेजा बाणः पुत्रः प्रतापवान्। बाणस्य तु महातेजा अनरण्यः प्रतापवान्
अनरण्यात् पृथुर्जज्ञे त्रिशङ्कुस्तु पृथोरपि। त्रिशङ्कोरभवत् पुत्रो धुन्धुमारो महायशाः
धुन्धुमारान्महातेजा युवनाश्वो महारथः। युवनाश्वसुतश्चासीन्मान्धाता पृथिवीपतिः
मान्धातुस्तु सुतः श्रीमान् सुसन्धिरुदपद्यत। सुसन्धेरपि पुत्रौ द्वौ ध्रुवसन्धिः प्रसेनजित्
यशस्वी ध्रुवसन्धेस्तु भरतो नाम नामतः। भरतात् तु महातेजा असितो नाम जायत
यस्यैते प्रतिराजान उदपद्यन्त शत्रवः। हैहयास्तालजङ्घाश्च शूराश्च शशबिन्दवः
तांश्च स प्रतियुध्यन् वै युद्धे राजा प्रवासितः। हिमवन्तमुपागम्य भार्याभ्यां सहितस्तदा
असितोऽल्पबलो राजा कालधर्ममुपेयिवान्। द्वे चास्य भार्ये गर्भिण्यौ बभूवतुरिति श्रुतिः
एका गर्भविनाशार्थं सपत्न्यै सगरं ददौ। ततः शैलवरे रम्ये बभूवाभिरतो मुनिः