राक्षसैः सा परित्यक्ता पुरा विष्णुभयार्दितैः । शून्या रक्षोगणैः सर्वै रसातलतलं गतैः ।। ७.३.
शून्या सम्प्रति लङ्का सा प्रभुस्तस्या न विद्यते । स त्वं तत्र निवासाय गच्छ पुत्र यथासुखम् ।। ७.३.
निर्दोषस्तत्र ते वासो न बाधास्तत्र कस्यचित् । एतच्छुत्वा स धर्मात्मा धर्मिष्ठं वचनं पितुः ।। ७.३.
निवासयामास तदा लङ्कां पर्वतमूर्धनि । नैर्ऋतानां सहस्रैस्तु हृष्टैः प्रमुदुतैः सह ।। ७.३.
अचिरेणैव कालेन सम्पूर्णा तस्य शासनात् ।। ७.३.
स तु तत्रावसत्प्रीतो धर्मात्मा नैर्ऋतर्षभः । समुद्रपरिघायां तु लङ्कायां विश्रवात्मजः ।। ७.३.
काले काले तु धर्मात्मा पुष्पकेण धनेश्वरः । अभ्यागच्छद्विनीतात्मा पितरं मातरं च हि ।। ७.३.
स देवगन्धर्वगणैरभिष्टुतस्तथाप्सरोनृत्यविभूषितालयः । गभस्तिभिः सूर्य इवावभासयन्पितुः समीपं प्रययौ स वित्तपः ।। ७.३.
श्रुत्वागस्त्येरितं वाक्यं रामो विस्मयमागतः । कथमासीत्तु लङ्कायां सम्भवो रक्षसां पुरा ।। ७.४.
ततः शिरः कम्पयित्वा त्रेताग्निसमविग्रहम् । तमगस्त्यं मुहुर्दृष्ट्वा स्मयमानो ऽभ्यभाषत ।। ७.४.
भगवन्पूर्वमप्येषा लङ्कासीत्पिशिताशिनाम् । श्रुत्वेदं भगवद्वाक्यं जातो मे विस्मयः परः ।। ७.४.
पुलस्त्यवंशादुद्भूता राक्षसा इति नः श्रुतम् । इदानीमन्यतश्चापि सम्भवः कीर्तितस्त्वया ।। ७.४.
रावणात्कुम्भकर्णाच्च प्रहस्ताद्विकटादपि । रावणस्य च पुत्रेभ्यः किं नु ते बलवत्तराः ।। ७.४.
क एषां पूर्वको ब्रह्मन्किन्नामा च बलोत्कटः । अपराधं च कं प्राप्य विष्णुना द्राविताः कथम् ।। ७.४.
एतद्विस्तरतः सर्वं कथयस्व ममानघ । कुतूहलमिदं मह्यं नुद भानुर्यथा तमः ।। ७.४.
राघवस्य वचः श्रुत्वा संस्कारालङ्कृतं शुभम् । ईषद्विस्मयमानस्तमगस्त्यः प्राह राघवम् ।। ७.४.
प्रजापतिः पुरा सृष्ट्वा ह्यपः सलिलसम्भवः । तासां गोपायने सत्त्वानसृजत्पद्मसम्भवः ।। ७.४.
ते सत्त्वाः सत्त्वकर्तारं विनीतवदुपस्थिताः । किं कुर्म इति भाषन्तः क्षुत्पिपासाभयार्दिताः ।। ७.४.
प्रजापतिस्तु तान्याह सत्वानि प्रहसन्निव । आभाष्य वाचा यत्नेन रक्षध्वमिति मानदः ।। ७.४.
रक्षामेति च तत्रान्ये जक्षाम इति चापरे । भुक्षिताभुक्षितैरुक्तस्ततस्तानाह भूतकृत् ।। ७.४.
रक्षामेति च यैरुक्तं राक्षसास्ते भवन्तु वः । जक्षाम इति यैरुक्तं यक्षा एव भवन्तु वः ।। ७.४.
तत्र हेतिः प्रहेतिश्च भ्रातरौ राक्षसाधिपौ । मधुकैटभसङ्काशौ बभूवतुररिन्दमौ ।। ७.४.
प्रहेतिर्धार्मिकस्तत्र तपोवनगतस्तदा । हेतिर्दारक्रियार्थे तु परं यत्नमथाकरोत् ।। ७.४.
स कालभगिनीं कन्यां भयां नाम भयावहाम् । उदावहदमेयात्मा स्वयमेव महामतिः ।। ७.४.
स तस्यां जनयामास हेती राक्षसपुङ्गवः । पुत्रं पुत्रवतां श्रेष्ठो विद्युत्केश इति श्रुतम् ।। ७.४.
विद्युत्केशो हेतिपुत्रः स दीप्तार्कसमप्रभः । व्यवर्धत महातेजास्तोयमध्य इवाम्बुदः ।। ७.४.
स यदा यौवनं भद्रमनुप्राप्तो निशाचरः । ततो दारक्रियां तस्य कर्तुं व्यवसितः पिता ।। ७.४.
सन्ध्यायास्तनयां सो ऽथ सन्ध्यातुल्यां प्रभावतः । वरयामास पुत्रार्थं हेती राक्षसपुङ्गवः ।। ७.४.
अवश्यमेव दातव्या परस्मै सेति सन्ध्यया । चिन्तयित्वा सुता दत्ता विद्युत्केशाय राघव ।। ७.४.
सन्ध्यायास्तनयां लब्ध्वा विद्युत्केशो निशाचरः । रमते स्म तया सार्धं पौलोम्या मघवानिव ।। ७.४.