निर्दस्युरभवल्लोको नानर्थं कश्चिदस्पृशत्। न च स्म वृद्धा बालानां प्रेतकार्याणि कुर्वते
सर्वं मुदितमेवासीत् सर्वो धर्मपरोऽभवत्। राममेवानुपश्यन्तो नाभ्यहिंसन् परस्परम्
आसन् वर्षसहस्राणि तथा पुत्रसहस्रिणः। निरामया विशोकाश्च रामे राज्यं प्रशासति
रामो रामो राम इति प्रजानामभवन् कथाः। रामभूतं जगदभूद् रामे राज्यं प्रशासति
नित्यमूला नित्यफलास्तरवस्तत्र पुष्पिताः। कामवर्षी च पर्जन्यः सुखस्पर्शश्च मारुतः
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा लोभविवर्जिताः। स्वकर्मसु प्रवर्तन्ते तुष्टाः स्वैरेव कर्मभिः
आसन् प्रजा धर्मपरा रामे शासति नानृताः। सर्वे लक्षणसम्पन्नाः सर्वे धर्मपरायणाः
दशवर्षसहस्राणि दशवर्षशतानि च। भ्रातृभिः सहितः श्रीमान् रामो राज्यमकारयत्
धर्म्यं यशस्यमायुष्यं राज्ञां च विजयावहम्। आदिकाव्यमिदं चार्षं पुरा वाल्मीकिना कृतम्
यः शृणोति सदा लोके नरः पापात् प्रमुच्यते। पुत्रकामश्च पुत्रान् वै धनकामो धनानि च
लभते मनुजो लोके श्रुत्वा रामाभिषेचनम्। महीं विजयते राजा रिपूंश्चाप्यधितिष्ठति
राघवेण यथा माता सुमित्रा लक्ष्मणेन च। भरतेन च कैकेयी जीवपुत्रास्तथा स्त्रियः
भविष्यन्ति सदानन्दाः पुत्रपौत्रसमन्विताः। श्रुत्वा रामायणमिदं दीर्घमायुश्च विन्दति
रामस्य विजयं चेमं सर्वमक्लिष्टकर्मणः। शृणोति य इदं काव्यं पुरा वाल्मीकिना कृतम्
श्रद्दधानो जितक्रोधो दुर्गाण्यतितरत्यसौ। समागम्य प्रवासान्ते रमन्ते सह बान्धवैः
शृण्वन्ति य इदं काव्यं पुरा वाल्मीकिना कृतम्। ते प्रार्थितान् वरान् सर्वान् प्राप्नुवन्तीह राघवात्
श्रवणेन सुराः सर्वे प्रीयन्ते सम्प्रशृण्वताम्। विनायकाश्च शाम्यन्ति गृहे तिष्ठन्ति यस्य वै
विजयेत महीं राजा प्रवासी स्वस्तिमान् भवेत्। स्त्रियो रजस्वलाः श्रुत्वा पुत्रान् सूयुरनुत्तमान्
पूजयंश्च पठंश्चैनमितिहासं पुरातनम्। सर्वपापैः प्रमुच्येत दीर्घमायुरवाप्नुयात्
प्रणम्य शिरसा नित्यं श्रोतव्यं क्षत्रियैर्द्विजात्। ऐश्वर्यं पुत्रलाभश्च भविष्यति न संशयः
रामायणमिदं कृत्स्नं शृण्वतः पठतः सदा। प्रीयते सततं रामः स हि विष्णुः सनातनः
आदिदेवो महाबाहुर्हरिर्नारायणः प्रभुः। साक्षाद् रामो रघुश्रेष्ठः शेषो लक्ष्मण उच्यते
एवमेतत् पुरावृत्तमाख्यानं भद्रमस्तु वः। प्रव्याहरत विस्रब्धं बलं विष्णोः प्रवर्धताम्
देवाश्च सर्वे तुष्यन्ति ग्रहणाच्छ्रवणात् तथा। रामायणस्य श्रवणे तृप्यन्ति पितरः सदा
भक्त्या रामस्य ये चेमां संहितामृषिणा कृताम्। ये लिखन्तीह च नरास्तेषां वासस्त्रिविष्टपे
कुटुम्बवृद्धिं धनधान्यवृद्धिं स्त्रियश्च मुख्याः सुखमुत्तमं च। श्रुत्वा शुभं काव्यमिदं महार्थं प्राप्नोति सर्वां भुवि चार्थसिद्धिम्
आयुष्यमारोग्यकरं यशस्यं सौभ्रातृकं बुद्धिकरं शुभं च। श्रोतव्यमेतन्नियमेन सद्भि- राख्यानमोजस्करमृद्धिकामैः
प्राप्तराज्यस्य रामस्य राक्षसानां वधे कृते । आजग्मुर्ऋषयः सर्वे राघवं प्रतिनन्दितुम् ।। ७.१.
कौशिको ऽथ यवक्रीतो गार्ग्यो गालव एव च । कण्वो मेधातिथेः पुत्रः पूर्वस्यां दिशि ये श्रिताः ।। ७.१.
स्वस्त्यात्रेयो ऽथ भगवान्नमुचिः प्रमुचिस्तथा । आजग्मुस्ते सहागस्त्या ये श्रिता दक्षिणां दिशम् ।। ७.१.