ददौ शतवृषान् पूर्वं द्विजेभ्यो मनुजर्षभः। त्रिंशत्कोटीर्हिरण्यस्य ब्राह्मणेभ्यो ददौ पुनः
नानाभरणवस्त्राणि महार्हाणि च राघवः। अर्करश्मिप्रतीकाशां काञ्चनीं मणिविग्रहाम्
सुग्रीवाय स्रजं दिव्यां प्रायच्छन्मनुजाधिपः। वैदूर्यमयचित्रे च चन्द्ररश्मिविभूषिते
वालिपुत्राय धृतिमानङ्गदायाङ्गदे ददौ। मणिप्रवरजुष्टं तं मुक्ताहारमनुत्तमम्
सीतायै प्रददौ रामश्चन्द्ररश्मिसमप्रभम्। अरजे वाससी दिव्ये शुभान्याभरणानि च
अवेक्षमाणा वैदेही प्रददौ वायुसूनवे। अवमुच्यात्मनः कण्ठाद्धारं जनकनन्दिनी
अवैक्षत हरीन् सर्वान् भर्तारं च मुहुर्मुहुः। तामिङ्गितज्ञः सम्प्रेक्ष्य बभाषे जनकात्मजाम्
प्रदेहि सुभगे हारं यस्य तुष्टासि भामिनि। अथ सा वायुपुत्राय तं हारमसितेक्षणा
तेजो धृतिर्यशो दाक्ष्यं सामर्थ्यं विनयो नयः। पौरुषं विक्रमो बुद्धिर्यस्मिन् नेतानि नित्यदा
हनूमांस्तेन हारेण शुशुभे वानरर्षभः। चन्द्रांशुचयगौरेण श्वेताभ्रेण यथाचलः
सर्वे वानरवृद्धाश्च ये चान्ये वानरोत्तमाः। वासोभिर्भूषणैश्चैव यथार्हं प्रतिपूजिताः
विभीषणोऽथ सुग्रीवो हनूमाञ्जाम्बवांस्तथा। सर्वे वानरमुख्याश्च रामेणाक्लिष्टकर्मणा
यथार्हं पूजिताः सर्वे कामै रत्नैश्च पुष्कलैः। प्रहृष्टमनसः सर्वे जग्मुरेव यथागतम्
ततो द्विविदमैन्दाभ्यां नीलाय च परंतपः। सर्वान् कामगुणान् वीक्ष्य प्रददौ वसुधाधिपः
दृष्ट्वा सर्वे महात्मानस्ततस्ते वानरर्षभाः। विसृष्टाः पार्थिवेन्द्रेण किष्किन्धां समुपागमन्
सुग्रीवो वानरश्रेष्ठो दृष्ट्वा रामाभिषेचनम्। पूजितश्चैव रामेण किष्किन्धां प्राविशत् पुरीम्
विभीषणोऽपि धर्मात्मा सह तैर्नैर्ऋतर्षभैः। लब्ध्वा कुलधनं राजा लङ्कां प्रायान्महायशाः
स राज्यमखिलं शासन्निहतारिर्महायशाः। राघवः परमोदारः शशास परया मुदा। उवाच लक्ष्मणं रामो धर्मज्ञं धर्मवत्सलः
आतिष्ठ धर्मज्ञ मया सहेमां गां पूर्वराजाध्युषितां बलेन। तुल्यं मया त्वं पितृभिर्धृता या तां यौवराज्ये धुरमुद्वहस्व
सर्वात्मना पर्यनुनीयमानो यदा न सौमित्रिरुपैति योगम्। नियुज्यमानो भुवि यौवराज्ये ततोऽभ्यषिञ्चद् भरतं महात्मा
पौण्डरीकाश्वमेधाभ्यां वाजपेयेन चासकृत्। अन्यैश्च विविधैर्यज्ञैरयजत् पार्थिवात्मजः
राज्यं दशसहस्राणि प्राप्य वर्षाणि राघवः। शताश्वमेधानाजह्रे सदश्वान् भूरिदक्षिणान्
आजानुलम्बिबाहुः स महावक्षाः प्रतापवान्। लक्ष्मणानुचरो रामः शशास पृथिवीमिमाम्
राघवश्चापि धर्मात्मा प्राप्य राज्यमनुत्तमम्। ईजे बहुविधैर्यज्ञैः ससुहृज्ज्ञातिबान्धवः
न पर्यदेवन् विधवा न च व्यालकृतं भयम्। न व्याधिजं भयं चासीद् रामे राज्यं प्रशासति
निर्दस्युरभवल्लोको नानर्थं कश्चिदस्पृशत्। न च स्म वृद्धा बालानां प्रेतकार्याणि कुर्वते
सर्वं मुदितमेवासीत् सर्वो धर्मपरोऽभवत्। राममेवानुपश्यन्तो नाभ्यहिंसन् परस्परम्
आसन् वर्षसहस्राणि तथा पुत्रसहस्रिणः। निरामया विशोकाश्च रामे राज्यं प्रशासति
रामो रामो राम इति प्रजानामभवन् कथाः। रामभूतं जगदभूद् रामे राज्यं प्रशासति
नित्यमूला नित्यफलास्तरवस्तत्र पुष्पिताः। कामवर्षी च पर्जन्यः सुखस्पर्शश्च मारुतः