सख्यं च रामः सुग्रीवे प्रभावं चानिलात्मजे। वानराणां च तत् कर्म ह्याचचक्षेऽथ मन्त्रिणाम्
श्रुत्वा च विस्मयं जग्मुरयोध्यापुरवासिनः। वानराणां च तत् कर्म राक्षसानां च तद् बलम्। विभीषणस्य संयोगमाचचक्षेऽथ मन्त्रिणाम्
द्युतिमानेतदाख्याय रामो वानरसंयुतः। हृष्टपुष्टजनाकीर्णामयोध्यां प्रविवेश सः
ततो ह्यभ्युच्छ्रयन् पौराः पताकाश्च गृहे गृहे। ऐक्ष्वाकाध्युषितं रम्यमाससाद पितुर्गृहम्
अथाब्रवीद् राजपुत्रो भरतं धर्मिणां वरम्। अर्थोपहितया वाचा मधुरं रघुनन्दनः
पितुर्भवनमासाद्य प्रविश्य च महात्मनः। कौसल्यां च सुमित्रां च कैकेयीमभिवाद्य च
तच्च मद्भवनं श्रेष्ठं साशोकवनिकं महत्। मुक्तावैदूर्यसंकीर्णं सुग्रीवाय निवेदय
तस्य तद् वचनं श्रुत्वा भरतः सत्यविक्रमः। हस्ते गृहीत्वा सुग्रीवं प्रविवेश तमालयम्
ततस्तैलप्रदीपांश्च पर्यङ्कास्तरणानि च। गृहीत्वा विविशुः क्षिप्रं शत्रुघ्नेन प्रचोदिताः
उवाच च महातेजाः सुग्रीवं राघवानुजः। अभिषेकाय रामस्य दूतानाज्ञापय प्रभो
सौवर्णान् वानरेन्द्राणां चतुर्णां चतुरो घटान्। ददौ क्षिप्रं स सुग्रीवः सर्वरत्नविभूषितान्
तथा प्रत्यूषसमये चतुर्णां सागराम्भसाम्। पूर्णैर्घटैः प्रतीक्षध्वं तथा कुरुत वानराः
एवमुक्ता महात्मानो वानरा वारणोपमाः। उत्पेतुर्गगनं शीघ्रं गरुडा इव शीघ्रगाः
जाम्बवांश्च हनूमांश्च वेगदर्शी च वानरः। ऋषभश्चैव कलशाञ्जलपूर्णानथानयन्
नदीशतानां पञ्चानां जलं कुम्भैरुपाहरन्। पूर्वात् समुद्रात् कलशं जलपूर्णमथानयत्
सुषेणः सत्त्वसम्पन्नः सर्वरत्नविभूषितम्। ऋषभो दक्षिणात्तूर्णं समुद्राज्जलमानयत्
रक्तचन्दनकर्पूरैः संवृतं काञ्चनं घटम्। गवयः पश्चिमात् तोयमाजहार महार्णवात्
रत्नकुम्भेन महता शीतं मारुतविक्रमः। उत्तराच्च जलं शीघ्रं गरुडानिलविक्रमः
आजहार स धर्मात्मानिलः सर्वगुणान्वितः। ततस्तैर्वानरश्रेष्ठैरानीतं प्रेक्ष्य तज्जलम्
अभिषेकाय रामस्य शत्रुघ्नः सचिवैः सह। पुरोहिताय श्रेष्ठाय सुहृद्भ्यश्च न्यवेदयत्
ततः स प्रयतो वृद्धो वसिष्ठो ब्राह्मणैः सह। रामं रत्नमये पीठे ससीतं संन्यवेशयत्
वसिष्ठो वामदेवश्च जाबालिरथ काश्यपः। कात्यायनः सुयज्ञश्च गौतमो विजयस्तथा
अभ्यषिञ्चन्नरव्याघ्रं प्रसन्नेन सुगन्धिना। सलिलेन सहस्राक्षं वसवो वासवं यथा
ऋत्विग्भिर्ब्राह्मणैः पूर्वं कन्याभिर्मन्त्रिभिस्तथा। योधैश्चैवाभ्यषिञ्चस्ते सम्प्रहृष्टैः सनैगमैः
सर्वौषधिरसैश्चापि दैवतैर्नभसि स्थितैः। चतुर्भिर्लोकपालैश्च सर्वैर्देवैश्च संगतैः
ब्रह्मणा निर्मितं पूर्वं किरीटं रत्नशोभितम्। अभिषिक्तः पुरा येन मनुस्तं दीप्ततेजसम्
तस्यान्ववाये राजानः क्रमाद् येनाभिषेचिताः। सभायां हेमक्लृप्तायां शोभितायां महाधनैः
रत्नैर्नानाविधैश्चैव चित्रितायां सुशोभनैः। नानारत्नमये पीठे कल्पयित्वा यथाविधि
किरीटेन ततः पश्चाद् वसिष्ठेन महात्मना। ऋत्विग्भिर्भूषणैश्चैव समयोक्ष्यत राघवः
छत्रं तस्य च जग्राह शत्रुघ्नः पाण्डुरं शुभम्। श्वेतं च वालव्यजनं सुग्रीवो वानरेश्वरः