जगदद्याभिषिक्तं त्वामनुपश्यतु राघव। प्रतपन्तमिवादित्यं मध्याह्ने दीप्ततेजसम्
तूर्यसंघातनिर्घोषैः काञ्चीनूपुरनिःस्वनैः। मधुरैर्गीतशब्दैश्च प्रतिबुध्यस्व शेष्व च
यावदावर्तते चक्रं यावती च वसुंधरा। तावत् त्वमिह लोकस्य स्वामित्वमनुवर्तय
भरतस्य वचः श्रुत्वा रामः परपुरञ्जयः। तथेति प्रतिजग्राह निषसादासने शुभे
ततः शत्रुघ्नवचनान्निपुणाः श्मश्रुवर्धनाः। सुखहस्ताः सुशीघ्राश्च राघवं पर्यवारयन्
पूर्वं तु भरते स्नाते लक्ष्मणे च महाबले। सुग्रीवे वानरेन्द्रे च राक्षसेन्द्रे विभीषणे
विशोधितजटः स्नातश्चित्रमाल्यानुलेपनः। महार्हवसनोपेतस्तस्थौ तत्र श्रिया ज्वलन्
प्रतिकर्म च रामस्य कारयामास वीर्यवान्। लक्ष्मणस्य च लक्ष्मीवानिक्ष्वाकुकुलवर्धनः
प्रतिकर्म च सीतायाः सर्वा दशरथस्त्रियः। आत्मनैव तदा चक्रुर्मनस्विन्यो मनोहरम्
ततो वानरपत्नीनां सर्वासामेव शोभनम्। चकार यत्नात् कौसल्या प्रहृष्टा पुत्रवत्सला
ततः शत्रुघ्नवचनात् सुमन्त्रो नाम सारथिः। योजयित्वाभिचक्राम रथं सर्वाङ्गशोभनम्
अग्न्यर्कामलसंकाशं दिव्यं दृष्ट्वा रथं स्थितम्। आरुरोह महाबाहू रामः परपुरंजयः
सुग्रीवो हनुमांश्चैव महेन्द्रसदृशद्युती। स्नातौ दिव्यनिभैर्वस्त्रैर्जग्मतुः शुभकुण्डलौ
सर्वाभरणजुष्टाश्च ययुस्ताः शुभकुण्डलाः। सुग्रीवपत्न्यः सीता च द्रष्टुं नगरमुत्सुकाः
अयोध्यायां च सचिवा राज्ञो दशरथस्य च। पुरोहितं पुरस्कृत्य मन्त्रयामासुरर्थवत्
अशोको विजयश्चैव सिद्धार्थश्च समाहिताः। मन्त्रयन् रामवृद्ध्यर्थमृद्ध्यर्थं नगरस्य च
सर्वमेवाभिषेकार्थं जयार्हस्य महात्मनः। कर्तुमर्हथ रामस्य यद् यन्मङ्गलपूर्वकम्
इति ते मन्त्रिणः सर्वे संदिश्य च पुरोहितः। नगरान्निर्ययुस्तूर्णं रामदर्शनबुद्धयः
हरियुक्तं सहस्राक्षो रथमिन्द्र इवानघः। प्रययौ रथमास्थाय रामो नगरमुत्तमम्
जग्राह भरतो रश्मीन् शत्रुघ्नश्छत्रमाददे। लक्ष्मणो व्यजनं तस्य मूर्ध्नि संवीजयंस्तदा
श्वेतं च वालव्यजनं जगृहे परितः स्थितः। अपरं चन्द्रसंकाशं राक्षसेन्द्रो विभीषणः
ऋषिसङ्घैस्तदाऽऽकाशे देवैश्च समरुद्गणैः। स्तूयमानस्य रामस्य शुश्रुवे मधुरध्वनिः
ततः शत्रुञ्जयं नाम कुञ्जरं पर्वतोपमम्। आरुरोह महातेजाः सुग्रीवः प्लवगर्षभः
नव नागसहस्राणि ययुरास्थाय वानराः। मानुषं विग्रहं कृत्वा सर्वाभरणभूषिताः
शङ्खशब्दप्रणादैश्च दुन्दुभीनां च निःस्वनैः। प्रययौ पुरुषव्याघ्रस्तां पुरीं हर्म्यमालिनीम्
ददृशुस्ते समायान्तं राघवं सपुरःसरम्। विराजमानं वपुषा रथेनातिरथं तदा
ते वर्धयित्वा काकुत्स्थं रामेण प्रतिनन्दिताः। अनुजग्मुर्महात्मानं भ्रातृभिः परिवारितम्
अमात्यैर्ब्राह्मणैश्चैव तथा प्रकृतिभिर्वृतः। श्रिया विरुरुचे रामो नक्षत्रैरिव चन्द्रमाः
स पुरोगामिभिस्तूर्यैस्तालस्वस्तिकपाणिभिः। प्रव्याहरद्भिर्मुदितैर्मङ्गलानि वृतो ययौ
अक्षतं जातरूपं च गावः कन्याः सहद्विजाः। नरा मोदकहस्ताश्च रामस्य पुरतो ययुः