पुरोहितस्यात्मसखस्य राघवो बृहस्पतेः शक्र इवामराधिपः। निपीड्य पादौ पृथगासने शुभे सहैव तेनोपविवेश वीर्यवान्
thumb|अष्टाविंशत्यधिकशततमः सर्गः श्रूयताम्|center thumb|मङ्गलशासनं श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे अष्टाविंशत्यधिकशततमः सर्गः ॥६-
शिरस्यञ्जलिमाधाय कैकेय्यानन्दवर्धनः। बभाषे भरतो ज्येष्ठं रामं सत्यपराक्रमम्
पूजिता मामिका माता दत्तं राज्यमिदं मम। तद् ददामि पुनस्तुभ्यं यथा त्वमददा मम
धुरमेकाकिना न्यस्तां वृषभेण बलीयसा। किशोरवद् गुरुं भारं न वोढुमहमुत्सहे
वारिवेगेन महता भिन्नः सेतुरिव क्षरन्। दुर्बन्धनमिदं मन्ये राज्यच्छिद्रमसंवृतम्
गतिं खर इवाश्वस्य हंसस्येव च वायसः। नान्वेतुमुत्सहे वीर तव मार्गमरिंदम
यथा चारोपितो वृक्षो जातश्चान्तर्निवेशने। महानपि दुरारोहो महास्कन्धः प्रशाखवान्
शीर्येत पुष्पितो भूत्वा न फलानि प्रदर्शयन्। तस्य नानुभवेदर्थं यस्य हेतोः स रोपितः
एषोपमा महाबाहो त्वमर्थं वेत्तुमर्हसि। यद्यस्मान् मनुजेन्द्र त्वं भर्ता भृत्यान् न शाधि हि
जगदद्याभिषिक्तं त्वामनुपश्यतु राघव। प्रतपन्तमिवादित्यं मध्याह्ने दीप्ततेजसम्
तूर्यसंघातनिर्घोषैः काञ्चीनूपुरनिःस्वनैः। मधुरैर्गीतशब्दैश्च प्रतिबुध्यस्व शेष्व च
यावदावर्तते चक्रं यावती च वसुंधरा। तावत् त्वमिह लोकस्य स्वामित्वमनुवर्तय
भरतस्य वचः श्रुत्वा रामः परपुरञ्जयः। तथेति प्रतिजग्राह निषसादासने शुभे
ततः शत्रुघ्नवचनान्निपुणाः श्मश्रुवर्धनाः। सुखहस्ताः सुशीघ्राश्च राघवं पर्यवारयन्
पूर्वं तु भरते स्नाते लक्ष्मणे च महाबले। सुग्रीवे वानरेन्द्रे च राक्षसेन्द्रे विभीषणे
विशोधितजटः स्नातश्चित्रमाल्यानुलेपनः। महार्हवसनोपेतस्तस्थौ तत्र श्रिया ज्वलन्
प्रतिकर्म च रामस्य कारयामास वीर्यवान्। लक्ष्मणस्य च लक्ष्मीवानिक्ष्वाकुकुलवर्धनः
प्रतिकर्म च सीतायाः सर्वा दशरथस्त्रियः। आत्मनैव तदा चक्रुर्मनस्विन्यो मनोहरम्
ततो वानरपत्नीनां सर्वासामेव शोभनम्। चकार यत्नात् कौसल्या प्रहृष्टा पुत्रवत्सला
ततः शत्रुघ्नवचनात् सुमन्त्रो नाम सारथिः। योजयित्वाभिचक्राम रथं सर्वाङ्गशोभनम्
अग्न्यर्कामलसंकाशं दिव्यं दृष्ट्वा रथं स्थितम्। आरुरोह महाबाहू रामः परपुरंजयः
सुग्रीवो हनुमांश्चैव महेन्द्रसदृशद्युती। स्नातौ दिव्यनिभैर्वस्त्रैर्जग्मतुः शुभकुण्डलौ
सर्वाभरणजुष्टाश्च ययुस्ताः शुभकुण्डलाः। सुग्रीवपत्न्यः सीता च द्रष्टुं नगरमुत्सुकाः
अयोध्यायां च सचिवा राज्ञो दशरथस्य च। पुरोहितं पुरस्कृत्य मन्त्रयामासुरर्थवत्
अशोको विजयश्चैव सिद्धार्थश्च समाहिताः। मन्त्रयन् रामवृद्ध्यर्थमृद्ध्यर्थं नगरस्य च
सर्वमेवाभिषेकार्थं जयार्हस्य महात्मनः। कर्तुमर्हथ रामस्य यद् यन्मङ्गलपूर्वकम्
इति ते मन्त्रिणः सर्वे संदिश्य च पुरोहितः। नगरान्निर्ययुस्तूर्णं रामदर्शनबुद्धयः
हरियुक्तं सहस्राक्षो रथमिन्द्र इवानघः। प्रययौ रथमास्थाय रामो नगरमुत्तमम्
जग्राह भरतो रश्मीन् शत्रुघ्नश्छत्रमाददे। लक्ष्मणो व्यजनं तस्य मूर्ध्नि संवीजयंस्तदा