यदि वो रोचते वृत्तं जनकस्य महात्मनः। पुरीं गच्छामहे शीघ्रं मा भूत् कालस्य पर्ययः
मन्त्रिणो बाढमित्याहुः सह सर्वैर्महर्षिभिः। सुप्रीतश्चाब्रवीद् राजा श्वो यात्रेति च मन्त्रिणः
मन्त्रिणस्तु नरेन्द्रस्य रात्रिं परमसत्कृताः। ऊषुः प्रमुदिताः सर्वे गुणैः सर्वैः समन्विताः
thumb|एकोनसप्ततितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकोनसप्ततितमः सर्गः ॥१-
ततो रात्र्यां व्यतीतायां सोपाध्यायः सबान्धवः। राजा दशरथो हृष्टः सुमन्त्रमिदमब्रवीत्
अद्य सर्वे धनाध्यक्षा धनमादाय पुष्कलम्। व्रजन्त्वग्रे सुविहिता नानारत्नसमन्विताः
चतुरंगबलं चापि शीघ्रं निर्यातु सर्वशः। ममाज्ञासमकालं च यानं युग्यमनुत्तमम्
वसिष्ठो वामदेवश्च जाबालिरथ कश्यपः। मार्कण्डेयस्तु दीर्घायुर्ऋषिः कात्यायनस्तथा
एते द्विजाः प्रयान्त्वग्रे स्यन्दनं योजयस्व मे। यथा कालात्ययो न स्याद् दूता हि त्वरयन्ति माम्
वचनाच्च नरेन्द्रस्य सेना च चतुरंगिणी। राजानमृषिभिः सार्धं व्रजन्तं पृष्ठतोऽन्वयात्
गत्वा चतुरहं मार्गं विदेहानभ्युपेयिवान्। राजा च जनकः श्रीमान् श्रुत्वा पूजामकल्पयत्
ततो राजानमासाद्य वृद्धं दशरथं नृपम्। मुदितो जनको राजा प्रहर्षं परमं ययौ
उवाच वचनं श्रेष्ठो नरश्रेष्ठं मुदान्वितम्। स्वागतं ते नरश्रेष्ठ दिष्ट्या प्राप्तोऽसि राघव
पुत्रयोरुभयोः प्रीतिं लप्स्यसे वीर्यनिर्जिताम्। दिष्ट्या प्राप्तो महातेजा वसिष्ठो भगवानृषिः
सह सर्वैर्द्विजश्रेष्ठैर्देवैरिव शतक्रतुः। दिष्ट्या मे निर्जिता विघ्ना दिष्ट्या मे पूजितं कुलम्
राघवैः सह सम्बन्धाद् वीर्यश्रेष्ठैर्महाबलैः। श्वः प्रभाते नरेन्द्र त्वं संवर्तयितुमर्हसि
यज्ञस्यान्ते नरश्रेष्ठ विवाहमृषिसत्तमैः। तस्य तद् वचनं श्रुत्वा ऋषिमध्ये नराधिपः
वाक्यं वाक्यविदां श्रेष्ठः प्रत्युवाच महीपतिम्। प्रतिग्रहो दातृवशः श्रुतमेतन्मया पुरा
यथा वक्ष्यसि धर्मज्ञ तत् करिष्यामहे वयम्। तद् धर्मिष्ठं यशस्यं च वचनं सत्यवादिनः
श्रुत्वा विदेहाधिपतिः परं विस्मयमागतः। ततः सर्वे मुनिगणाः परस्परसमागमे
हर्षेण महता युक्तास्तां रात्रिमवसन् सुखम्। अथ रामो महातेजा लक्ष्मणेन समं ययौ
विश्वामित्रं पुरस्कृत्य पितुः पादावुपस्पृशन्। राजा च राघवौ पुत्रौ निशाम्य परिहर्षितः
उवास परमप्रीतो जनकेनाभिपूजितः। जनकोऽपि महातेजाः क्रिया धर्मेण तत्त्ववित्। यज्ञस्य च सुताभ्यां च कृत्वा रात्रिमुवास ह
thumb|सप्ततितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे बालकाण्डे सप्ततितमः सर्गः ॥१-
ततः प्रभाते जनकः कृतकर्मा महर्षिभिः। उवाच वाक्यं वाक्यज्ञः शतानन्दं पुरोहितम्
भ्राता मम महातेजा वीर्यवानतिधार्मिकः। कुशध्वज इति ख्यातः पुरीमध्यवसच्छुभाम्
वार्याफलकपर्यन्तां पिबन्निक्षुमतीं नदीम्। सांकाश्यां पुण्यसंकाशां विमानमिव पुष्पकम्
तमहं द्रष्टुमिच्छामि यज्ञगोप्ता स मे मतः। प्रीतिं सोऽपि महातेजा इमां भोक्ता मया सह
एवमुक्ते तु वचने शतानन्दस्य संनिधौ। आगताः केचिदव्यग्रा जनकस्तान् समादिशत्
शासनात् तु नरेन्द्रस्य प्रययुः शीघ्रवाजिभिः। समानेतुं नरव्याघ्रं विष्णुमिन्द्राज्ञया यथा