ततो हर्षसमुद्भूतो निःस्वनो दिवमस्पृशत्। स्त्रीबालयुववृद्धानां रामोऽयमिति कीर्तिते
रथकुञ्जरवाजिभ्यस्तेऽवतीर्य महीं गताः। ददृशुस्तं विमानस्थं नराः सोममिवाम्बरे
प्राञ्जलिर्भरतो भूत्वा प्रहृष्टो राघवोन्मुखः। यथार्थेनार्घ्यपाद्याद्यैस्ततो राममपूजयत्
मनसा ब्रह्मणा सृष्टे विमाने भरताग्रजः। रराज पृथुदीर्घाक्षो वज्रपाणिरिवामरः
ततो विमानाग्रगतं भरतो भ्रातरं तदा। ववन्दे प्रणतो रामं मेरुस्थमिव भास्करम्
ततो रामाभ्यनुज्ञातं तद् विमानमनुत्तमम्। हंसयुक्तं महावेगं निपपात महीतलम्
आरोपितो विमानं तद् भरतः सत्यविक्रमः। राममासाद्य मुदितः पुनरेवाभ्यवादयत्
तं समुत्थाय काकुत्स्थश्चिरस्याक्षिपथं गतम्। अङ्के भरतमारोप्य मुदितः परिषस्वजे
ततो लक्ष्मणमासाद्य वैदेहीं च परंतपः। अथाभ्यवादयत् प्रीतो भरतो नाम चाब्रवीत्
सुग्रीवं केकयीपुत्रो जाम्बवन्तमथाङ्गदम्। मैन्दं च द्विविदं नीलमृषभं चैव सस्वजे
सुषेणं च नलं चैव गवाक्षं गन्धमादनम्। शरभं पनसं चैव परितः परिषस्वजे
ते कृत्वा मानुषं रूपं वानराः कामरूपिणः। कुशलं पर्यपृच्छंस्ते प्रहृष्टा भरतं तदा
अथाब्रवीद् राजपुत्रः सुग्रीवं वानरर्षभम्। परिष्वज्य महातेजा भरतो धर्मिणां वरः
त्वमस्माकं चतुर्णां वै भ्राता सुग्रीव पञ्चमः। सौहृदाज्जायते मित्रमपकारोऽरिलक्षणम्
विभीषणं च भरतः सान्त्ववाक्यमथाब्रवीत्। दिष्ट्या त्वया सहायेन कृतं कर्म सुदुष्करम्
शत्रुघ्नश्च तदा राममभिवाद्य सलक्ष्मणम्। सीतायाश्चरणौ वीरो विनयादभ्यवादयत्
रामो मातरमासाद्य विवर्णां शोककर्शिताम्। जग्राह प्रणतः पादौ मनो मातुः प्रहर्षयन्
अभिवाद्य सुमित्रां च कैकेयीं च यशस्विनीम्। स मातॄश्च ततः सर्वाः पुरोहितमुपागमत्
स्वागतं ते महाबाहो कौसल्यानन्दवर्धन। इति प्राञ्जलयः सर्वे नागरा राममब्रुवन्
तान्यञ्जलिसहस्राणि प्रगृहीतानि नागरैः। व्याकोशानीव पद्मानि ददर्श भरताग्रजः
पादुके ते तु रामस्य गृहीत्वा भरतः स्वयम्। चरणाभ्यां नरेन्द्रस्य योजयामास धर्मवित्
अब्रवीच्च तदा रामं भरतः स कृताञ्जलिः। एतत् ते सकलं राज्यं न्यासं निर्यातितं मया
अद्य जन्म कृतार्थं मे संवृत्तश्च मनोरथः। यत् त्वां पश्यामि राजानमयोध्यां पुनरागतम्
अवेक्षतां भवान् कोशं कोष्ठागारं गृहं बलम्। भवतस्तेजसा सर्वं कृतं दशगुणं मया
तथा ब्रुवाणं भरतं दृष्ट्वा तं भ्रातृवत्सलम्। मुमुचुर्वानरा बाष्पं राक्षसश्च विभीषणः
ततः प्रहर्षाद् भरतमङ्कमारोप्य राघवः। ययौ तेन विमानेन ससैन्यो भरताश्रमम्
भरताश्रममासाद्य ससैन्यो राघवस्तदा। अवतीर्य विमानाग्रादवतस्थे महीतले
अब्रवीत् तु तदा रामस्तद् विमानमनुत्तमम्। वह वैश्रवणं देवमनुजानामि गम्यताम्
ततो रामाभ्यनुज्ञातं तद् विमानमनुत्तमम्। उत्तरां दिशमुद्दिश्य जगाम धनदालयम्
विमानं पुष्पकं दिव्यं संगृहीतं तु रक्षसा। अगमद् धनदं वेगाद् रामवाक्यप्रचोदितम्