तुरगाणां सहस्रैश्च मुख्यैर्मुख्यतरान्वितैः। पदातीनां सहस्रैश्च वीराः परिवृता ययुः
ततो यानान्युपारूढाः सर्वा दशरथस्त्रियः। कौसल्यां प्रमुखे कृत्वा सुमित्रां चापि निर्ययुः
कैकेय्या सहिताः सर्वा नन्दिग्राममुपागमन्
द्विजातिमुख्यैर्धर्मात्मा श्रेणीमुख्यैः सनैगमैः। माल्यमोदकहस्तैश्च मन्त्रिभिर्भरतो वृतः
शङ्खभेरीनिनादैश्च बन्दिभिश्चाभिनन्दितः। आर्यपादौ गृहीत्वा तु शिरसा धर्मकोविदः
पाण्डुरं छत्रमादाय शुक्लमाल्योपशोभितम्। शुक्ले च वालव्यजने राजार्हे हेमभूषिते
उपवासकृशो दीनश्चीरकृष्णाजिनाम्बरः। भ्रातुरागमनं श्रुत्वा तत्पूर्वं हर्षमागतः
प्रत्युद्ययौ यदा रामं महात्मा सचिवैः सह। अश्वानां खुरशब्दैश्च रथनेमिस्वनेन च
शङ्खदुन्दुभिनादेन संचचालेव मेदिनी। गजानां बृंहितैश्चापि शङ्खदुन्दुभिनिःस्वनैः
कृत्स्नं तु नगरं तत् तु नन्दिग्राममुपागमत्। समीक्ष्य भरतो वाक्यमुवाच पवनात्मजम्
कच्चिन्न खलु कापेयी सेव्यते चलचित्तता। नहि पश्यामि काकुत्स्थं राममार्यं परंतपम्
कच्चिन्न चानुदृश्यन्ते कपयः कामरूपिणः। अथैवमुक्ते वचने हनूमानिदमब्रवीत्
अर्थ्यं विज्ञापयन्नेव भरतं सत्यविक्रमम्। सदाफलान् कुसुमितान् वृक्षान् प्राप्य मधुस्रवान्
भरद्वाजप्रसादेन मत्तभ्रमरनादितान्। तस्य चैव वरो दत्तो वासवेन परंतप
ससैन्यस्य तदातिथ्यं कृतं सर्वगुणान्वितम्। निःस्वनः श्रूयते भीमः प्रहृष्टानां वनौकसाम्
मन्ये वानरसेना सा नदीं तरति गोमतीम्। रजोवर्षं समुद्भूतं पश्य सालवनं प्रति
मन्ये सालवनं रम्यं लोलयन्ति प्लवंगमाः। तदेतद् दृश्यते दूराद् विमानं चन्द्रसंनिभम्
विमानं पुष्पकं दिव्यं मनसा ब्रह्मनिर्मितम्। रावणं बान्धवैः सार्धं हत्वा लब्धं महात्मना
तरुणादित्यसंकाशं विमानं रामवाहनम्। धनदस्य प्रसादेन दिव्यमेतन्मनोजवम्
एतस्मिन् भ्रातरौ वीरौ वैदेह्या सह राघवौ। सुग्रीवश्च महातेजा राक्षसश्च विभीषणः
ततो हर्षसमुद्भूतो निःस्वनो दिवमस्पृशत्। स्त्रीबालयुववृद्धानां रामोऽयमिति कीर्तिते
रथकुञ्जरवाजिभ्यस्तेऽवतीर्य महीं गताः। ददृशुस्तं विमानस्थं नराः सोममिवाम्बरे
प्राञ्जलिर्भरतो भूत्वा प्रहृष्टो राघवोन्मुखः। यथार्थेनार्घ्यपाद्याद्यैस्ततो राममपूजयत्
मनसा ब्रह्मणा सृष्टे विमाने भरताग्रजः। रराज पृथुदीर्घाक्षो वज्रपाणिरिवामरः
ततो विमानाग्रगतं भरतो भ्रातरं तदा। ववन्दे प्रणतो रामं मेरुस्थमिव भास्करम्
ततो रामाभ्यनुज्ञातं तद् विमानमनुत्तमम्। हंसयुक्तं महावेगं निपपात महीतलम्
आरोपितो विमानं तद् भरतः सत्यविक्रमः। राममासाद्य मुदितः पुनरेवाभ्यवादयत्
तं समुत्थाय काकुत्स्थश्चिरस्याक्षिपथं गतम्। अङ्के भरतमारोप्य मुदितः परिषस्वजे
ततो लक्ष्मणमासाद्य वैदेहीं च परंतपः। अथाभ्यवादयत् प्रीतो भरतो नाम चाब्रवीत्
सुग्रीवं केकयीपुत्रो जाम्बवन्तमथाङ्गदम्। मैन्दं च द्विविदं नीलमृषभं चैव सस्वजे