प्रहस्तमवधीन्नीलः कुम्भकर्णं तु राघवः। लक्ष्मणो रावणसुतं स्वयं रामस्तु रावणम्
स शक्रेण समागम्य यमेन वरुणेन च। महेश्वरस्वयंभूभ्यां तथा दशरथेन च
तैश्च दत्तवरः श्रीमानृषिभिश्च समागतैः। सुरर्षिभिश्च काकुत्स्थो वराँल्लेभे परंतपः
स तु दत्तवरः प्रीत्या वानरैश्च समागतैः। पुष्पकेण विमानेन किष्किन्धामभ्युपागमत्
तां गङ्गां पुनरासाद्य वसन्तं मुनिसंनिधौ। अविघ्नं पुष्ययोगेन श्वो रामं द्रष्टुमर्हसि
ततः स वाक्यैर्मधुरैर्हनूमतो निशम्य हृष्टो भरतः कृताञ्जलिः। उवाच वाणीं मनसः प्रहर्षिणीं चिरस्य पूर्णः खलु मे मनोरथः
thumb|सप्तविंशत्यधिकशततमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे सप्तविंशत्यधिकशततमः सर्गः ॥६-
श्रुत्वा तु परमानन्दं भरतः सत्यविक्रमः। हृष्टमाज्ञापयामास शत्रुघ्नं परवीरहा
दैवतानि च सर्वाणि चैत्यानि नगरस्य च। सुगन्धमाल्यैर्वादित्रैरर्चन्तु शुचयो नराः
सूताः स्तुतिपुराणज्ञाः सर्वे वैतालिकास्तथा। सर्वे वादित्रकुशला गणिकाश्चैव सर्वशः
राजदारास्तथामात्याः सैन्याः सेनाङ्गनागणाः। ब्राह्मणाश्च सराजन्याः श्रेणीमुख्यास्तथा गणाः
अभिनिर्यान्तु रामस्य द्रष्टुं शशिनिभं मुखम्। भरतस्य वचः श्रुत्वा शत्रुघ्नः परवीरहा
विष्टीरनेकसाहस्रीश्चोदयामास भागशः। समीकुरुत निम्नानि विषमाणि समानि च
स्थानानि च निरस्यन्तां नन्दिग्रामादितः परम्। सिञ्चन्तु पृथिवीं कृत्स्नां हिमशीतेन वारिणा
ततोऽभ्यवकिरन्त्वन्ये लाजैः पुष्पैश्च सर्वतः। समुच्छ्रितपताकास्तु रथ्याः पुरवरोत्तमे
शोभयन्तु च वेश्मानि सूर्यस्योदयनं प्रति। स्रग्दाममुक्तपुष्पैश्च सुवर्णैः पञ्चवर्णकैः
राजमार्गमसम्बाधं किरन्तु शतशो नराः। ततस्तच्छासनं श्रुत्वा शत्रुघ्नस्य मुदान्विताः
धृष्टिर्जयन्तो विजयः सिद्धार्थश्चार्थसाधकः। अशोको मन्त्रपालश्च सुमन्त्रश्चापि निर्ययुः
मत्तैर्नागसहस्रैश्च सध्वजैः सुविभूषितैः। अपरे हेमकक्षाभिः सगजाभिः करेणुभिः
निर्ययुस्तुरगाक्रान्ता रथैश्च सुमहारथाः। शक्त्यृष्टिपाशहस्तानां सध्वजानां पताकिनाम्
तुरगाणां सहस्रैश्च मुख्यैर्मुख्यतरान्वितैः। पदातीनां सहस्रैश्च वीराः परिवृता ययुः
ततो यानान्युपारूढाः सर्वा दशरथस्त्रियः। कौसल्यां प्रमुखे कृत्वा सुमित्रां चापि निर्ययुः
कैकेय्या सहिताः सर्वा नन्दिग्राममुपागमन्
द्विजातिमुख्यैर्धर्मात्मा श्रेणीमुख्यैः सनैगमैः। माल्यमोदकहस्तैश्च मन्त्रिभिर्भरतो वृतः
शङ्खभेरीनिनादैश्च बन्दिभिश्चाभिनन्दितः। आर्यपादौ गृहीत्वा तु शिरसा धर्मकोविदः
पाण्डुरं छत्रमादाय शुक्लमाल्योपशोभितम्। शुक्ले च वालव्यजने राजार्हे हेमभूषिते
उपवासकृशो दीनश्चीरकृष्णाजिनाम्बरः। भ्रातुरागमनं श्रुत्वा तत्पूर्वं हर्षमागतः
प्रत्युद्ययौ यदा रामं महात्मा सचिवैः सह। अश्वानां खुरशब्दैश्च रथनेमिस्वनेन च
शङ्खदुन्दुभिनादेन संचचालेव मेदिनी। गजानां बृंहितैश्चापि शङ्खदुन्दुभिनिःस्वनैः
कृत्स्नं तु नगरं तत् तु नन्दिग्राममुपागमत्। समीक्ष्य भरतो वाक्यमुवाच पवनात्मजम्