प्रविवेश तदा लङ्कां रावणो राक्षसेश्वरः। तां सुवर्णपरिष्कारे शुभे महति वेश्मनि
प्रवेश्य मैथिलीं वाक्यैः सान्त्वयामास रावणः। तृणवद् भाषितं तस्य तं च नैर्ऋतपुङ्गवम्
अचिन्तयन्ती वैदेही ह्यशोकवनिकां गता। न्यवर्तत तदा रामो मृगं हत्वा तदा वने
निवर्तमानः काकुत्स्थो दृष्ट्वा गृध्रं स विव्यथे। गृध्रं हतं तदा दृष्ट्वा रामः प्रियतरं पितुः
मार्गमाणस्तु वैदेहीं राघवः सहलक्ष्मणः। गोदावरीमनुचरन् वनोद्देशांश्च पुष्पितान्
आसेदतुर्महारण्ये कबन्धं नाम राक्षसम्। ततः कबन्धवचनाद् रामः सत्यपराक्रमः
ऋष्यमूकगिरिं गत्वा सुग्रीवेण समागतः। तयोः समागमः पूर्वं प्रीत्या हार्दो व्यजायत
भ्रात्रा निरस्तः क्रुद्धेन सुग्रीवो वालिना पुरा। इतरेतरसंवादात् प्रगाढः प्रणयस्तयोः
रामः स्वबाहुवीर्येण स्वराज्यं प्रत्यपादयत्। वालिनं समरे हत्वा महाकायं महाबलम्
सुग्रीवः स्थापितो राज्ये सहितः सर्ववानरैः। रामाय प्रतिजानीते राजपुत्र्यास्तु मार्गणम्
आदिष्टा वानरेन्द्रेण सुग्रीवेण महात्मना। दश कोट्यः प्लवङ्गानां सर्वाः प्रस्थापिता दिशः
तेषां नो विप्रकृष्टानां विन्ध्ये पर्वतसत्तमे। भृशं शोकाभितप्तानां महान् कालोऽत्यवर्तत
भ्राता तु गृध्रराजस्य सम्पातिर्नाम वीर्यवान्। समाख्याति स्म वसतीं सीतां रावणमन्दिरे
सोऽहं दुःखपरीतानां दुःखं तज्ज्ञातिनां नुदन्। आत्मवीर्यं समास्थाय योजनानां शतं प्लुतः। तत्राहमेकामद्राक्षमशोकवनिकां गताम्
कौशेयवस्त्रां मलिनां निरानन्दां दृढव्रताम्। तया समेत्य विधिवत् पृष्ट्वा सर्वमनिन्दिताम्
अभिज्ञानं मया दत्तं रामनामाङ्गुलीयकम्। अभिज्ञानं मणिं लब्ध्वा चरितार्थोऽहमागतः
मया च पुनरागम्य रामस्याक्लिष्टकर्मणः। अभिज्ञानं मया दत्तमर्चिष्मान् स महामणिः
श्रुत्वा तां मैथिलीं रामस्त्वाशशंसे च जीवितम्। जीवितान्तमनुप्राप्तः पीत्वामृतमिवातुरः
उद्योजयिष्यन्नुद्योगं दध्रे लङ्कावधे मनः। जिघांसुरिव लोकान्ते सर्वाँल्लोकान् विभावसुः
ततः समुद्रमासाद्य नलं सेतुमकारयत्। अतरत् कपिवीराणां वाहिनी तेन सेतुना
प्रहस्तमवधीन्नीलः कुम्भकर्णं तु राघवः। लक्ष्मणो रावणसुतं स्वयं रामस्तु रावणम्
स शक्रेण समागम्य यमेन वरुणेन च। महेश्वरस्वयंभूभ्यां तथा दशरथेन च
तैश्च दत्तवरः श्रीमानृषिभिश्च समागतैः। सुरर्षिभिश्च काकुत्स्थो वराँल्लेभे परंतपः
स तु दत्तवरः प्रीत्या वानरैश्च समागतैः। पुष्पकेण विमानेन किष्किन्धामभ्युपागमत्
तां गङ्गां पुनरासाद्य वसन्तं मुनिसंनिधौ। अविघ्नं पुष्ययोगेन श्वो रामं द्रष्टुमर्हसि
ततः स वाक्यैर्मधुरैर्हनूमतो निशम्य हृष्टो भरतः कृताञ्जलिः। उवाच वाणीं मनसः प्रहर्षिणीं चिरस्य पूर्णः खलु मे मनोरथः
thumb|सप्तविंशत्यधिकशततमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे सप्तविंशत्यधिकशततमः सर्गः ॥६-
श्रुत्वा तु परमानन्दं भरतः सत्यविक्रमः। हृष्टमाज्ञापयामास शत्रुघ्नं परवीरहा
दैवतानि च सर्वाणि चैत्यानि नगरस्य च। सुगन्धमाल्यैर्वादित्रैरर्चन्तु शुचयो नराः
सूताः स्तुतिपुराणज्ञाः सर्वे वैतालिकास्तथा। सर्वे वादित्रकुशला गणिकाश्चैव सर्वशः