पूर्वं प्रतिज्ञा विदिता वीर्यशुल्का ममात्मजा। राजानश्च कृतामर्षा निर्वीर्या विमुखीकृताः
सेयं मम सुता राजन् विश्वामित्रपुरस्कृतैः। यदृच्छयागतै राजन् निर्जिता तव पुत्रकैः
तच्च रत्नं धनुर्दिव्यं मध्ये भग्नं महात्मना। रामेण हि महाबाहो महत्यां जनसंसदि
अस्मै देया मया सीता वीर्यशुल्का महात्मने। प्रतिज्ञां तर्तुमिच्छामि तदनुज्ञातुमर्हसि
सोपाध्यायो महाराज पुरोहितपुरस्कृतः। शीघ्रमागच्छ भद्रं ते द्रष्टुमर्हसि राघवौ
प्रतिज्ञां मम राजेन्द्र निर्वर्तयितुमर्हसि। पुत्रयोरुभयोरेव प्रीतिं त्वमुपलप्स्यसे
एवं विदेहाधिपतिर्मधुरं वाक्यमब्रवीत्। विश्वामित्राभ्यनुज्ञातः शतानन्दमते स्थितः
दूतवाक्यं तु तच्छ्रुत्वा राजा परमहर्षितः। वसिष्ठं वामदेवं च मन्त्रिणश्चैवमब्रवीत्
गुप्तः कुशिकपुत्रेण कौसल्यानन्दवर्धनः। लक्ष्मणेन सह भ्रात्रा विदेहेषु वसत्यसौ
दृष्टवीर्यस्तु काकुत्स्थो जनकेन महात्मना। सम्प्रदानं सुतायास्तु राघवे कर्तुमिच्छति
यदि वो रोचते वृत्तं जनकस्य महात्मनः। पुरीं गच्छामहे शीघ्रं मा भूत् कालस्य पर्ययः
मन्त्रिणो बाढमित्याहुः सह सर्वैर्महर्षिभिः। सुप्रीतश्चाब्रवीद् राजा श्वो यात्रेति च मन्त्रिणः
मन्त्रिणस्तु नरेन्द्रस्य रात्रिं परमसत्कृताः। ऊषुः प्रमुदिताः सर्वे गुणैः सर्वैः समन्विताः
thumb|एकोनसप्ततितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकोनसप्ततितमः सर्गः ॥१-
ततो रात्र्यां व्यतीतायां सोपाध्यायः सबान्धवः। राजा दशरथो हृष्टः सुमन्त्रमिदमब्रवीत्
अद्य सर्वे धनाध्यक्षा धनमादाय पुष्कलम्। व्रजन्त्वग्रे सुविहिता नानारत्नसमन्विताः
चतुरंगबलं चापि शीघ्रं निर्यातु सर्वशः। ममाज्ञासमकालं च यानं युग्यमनुत्तमम्
वसिष्ठो वामदेवश्च जाबालिरथ कश्यपः। मार्कण्डेयस्तु दीर्घायुर्ऋषिः कात्यायनस्तथा
एते द्विजाः प्रयान्त्वग्रे स्यन्दनं योजयस्व मे। यथा कालात्ययो न स्याद् दूता हि त्वरयन्ति माम्
वचनाच्च नरेन्द्रस्य सेना च चतुरंगिणी। राजानमृषिभिः सार्धं व्रजन्तं पृष्ठतोऽन्वयात्
गत्वा चतुरहं मार्गं विदेहानभ्युपेयिवान्। राजा च जनकः श्रीमान् श्रुत्वा पूजामकल्पयत्
ततो राजानमासाद्य वृद्धं दशरथं नृपम्। मुदितो जनको राजा प्रहर्षं परमं ययौ
उवाच वचनं श्रेष्ठो नरश्रेष्ठं मुदान्वितम्। स्वागतं ते नरश्रेष्ठ दिष्ट्या प्राप्तोऽसि राघव
पुत्रयोरुभयोः प्रीतिं लप्स्यसे वीर्यनिर्जिताम्। दिष्ट्या प्राप्तो महातेजा वसिष्ठो भगवानृषिः
सह सर्वैर्द्विजश्रेष्ठैर्देवैरिव शतक्रतुः। दिष्ट्या मे निर्जिता विघ्ना दिष्ट्या मे पूजितं कुलम्
राघवैः सह सम्बन्धाद् वीर्यश्रेष्ठैर्महाबलैः। श्वः प्रभाते नरेन्द्र त्वं संवर्तयितुमर्हसि
यज्ञस्यान्ते नरश्रेष्ठ विवाहमृषिसत्तमैः। तस्य तद् वचनं श्रुत्वा ऋषिमध्ये नराधिपः
वाक्यं वाक्यविदां श्रेष्ठः प्रत्युवाच महीपतिम्। प्रतिग्रहो दातृवशः श्रुतमेतन्मया पुरा
यथा वक्ष्यसि धर्मज्ञ तत् करिष्यामहे वयम्। तद् धर्मिष्ठं यशस्यं च वचनं सत्यवादिनः
श्रुत्वा विदेहाधिपतिः परं विस्मयमागतः। ततः सर्वे मुनिगणाः परस्परसमागमे