thumb|षड्विंशत्यधिकशततमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे षड्विंशत्यधिकशततमः सर्गः ॥६-
बहूनि नाम वर्षाणि गतस्य सुमहद्वनम्। शृणोम्यहं प्रीतिकरं मम नाथस्य कीर्तनम्
कल्याणी बत गाथेयं लौकिकी प्रतिभाति माम्। एति जीवन्तमानन्दो नरं वर्षशतादपि
राघवस्य हरीणां च कथमासीत् समागमः। कस्मिन् देशे किमाश्रित्य तत्त्वमाख्याहि पृच्छतः
स पृष्टो राजपुत्रेण बृस्यां समुपवेशितः। आचचक्षे ततः सर्वं रामस्य चरितं वने
यथा प्रव्राजितो रामो मातुर्दत्तौ वरौ तव। यथा च पुत्रशोकेन राजा दशरथो मृतः
यथा दूतैस्त्वमानीतस्तूर्णं राजगृहात् प्रभो। त्वयायोध्यां प्रविष्टेन यथा राज्यं न चेप्सितम्
चित्रकूटगिरिं गत्वा राज्येनामित्रकर्शनः। निमन्त्रितस्त्वया भ्राता धर्ममाचरता सताम्
स्थितेन राज्ञो वचने यथा राज्यं विसर्जितम्। आर्यस्य पादुके गृह्य यथासि पुनरागतः
सर्वमेतन्महाबाहो यथावद् विदितं तव। त्वयि प्रतिप्रयाते तु यद् वृत्तं तन्निबोध मे
अपयाते त्वयि तदा समुद्भ्रान्तमृगद्विजम्। परिद्यूनमिवात्यर्थं तद् वनं समपद्यत
तद्धस्तिमृदितं घोरं सिंहव्याघ्रमृगाकुलम्। प्रविवेशाथ विजनं स महद् दण्डकावनम्
तेषां पुरस्ताद् बलवान् गच्छतां गहने वने। विनदन् सुमहानादं विराधः प्रत्यदृश्यत
तमुत्क्षिप्य महानादमूर्ध्वबाहुमधोमुखम्। निखाते प्रक्षिपन्ति स्म नदन्तमिव कुञ्जरम्
तत् कृत्वा दुष्करं कर्म भ्रातरौ रामलक्ष्मणौ। सायाह्ने शरभङ्गस्य रम्यमाश्रममीयतुः
शरभङ्गे दिवं प्राप्ते रामः सत्यपराक्रमः। अभिवाद्य मुनीन् सर्वाञ्जनस्थानमुपागमत्
पश्चाच्छूर्पणखा नाम रामपार्श्वमुपागता। ततो रामेण संदिष्टो लक्ष्मणः सहसोत्थितः
प्रगृह्य खड्गं चिच्छेद कर्णनासं महाबलः। चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम्
हतानि वसता तत्र राघवेण महात्मना। एकेन सह संगम्य रामेण रणमूर्धनि
अह्नश्चतुर्थभागेन निःशेषा राक्षसाः कृताः। महाबला महावीर्यास्तपसो विघ्नकारिणः
निहता राघवेणाजौ दण्डकारण्यवासिनः। राक्षसाश्च विनिष्पिष्टाः खरश्च निहतो रणे
दूषणं चाग्रतो हत्वा त्रिशिरास्तदनन्तरम्। ततस्तेनार्दिता बाला रावणं समुपागता
रावणानुचरो घोरो मारीचो नाम राक्षसः। लोभयामास वैदेहीं भूत्वा रत्नमयो मृगः
सा राममब्रवीद् दृष्ट्वा वैदेही गृह्यतामिति। अयं मनोहरः कान्त आश्रमो नो भविष्यति
ततो रामो धनुष्पाणिर्मृगं तमनुधावति। स तं जघान धावन्तं शरेणानतपर्वणा
अथ सौम्य दशग्रीवो मृगं याति तु राघवे। लक्ष्मणे चापि निष्क्रान्ते प्रविवेशाश्रमं तदा
जग्राह तरसा सीतां ग्रहः खे रोहिणीमिव। त्रातुकामं ततो युद्धे हत्वा गृध्रं जटायुषम्
प्रगृह्य सहसा सीतां जगामाशु स राक्षसः। ततस्त्वद्भुतसंकाशाः स्थिताः पर्वतमूर्धनि
सीतां गृहीत्वा गच्छन्तं वानराः पर्वतोपमाः। ददृशुर्विस्मिताकारा रावणं राक्षसाधिपम्
ततः शीघ्रतरं गत्वा तद् विमानं मनोजवम्। आरुह्य सह वैदेह्या पुष्पकं स महाबलः