प्रजाश्च बहुसाहस्रीः स्फीताञ्जनपदानपि। स गत्वा दूरमध्वानं त्वरितः कपिकुञ्जरः
आससाद द्रुमान् फुल्लान् नन्दिग्रामसमीपगान्। सुराधिपस्योपवने यथा चैत्ररथे द्रुमान्
स्त्रीभिः सपुत्रैः पौत्रैश्च रममाणैः स्वलंकृतैः। क्रोशमात्रे त्वयोध्यायाश्चीरकृष्णाजिनाम्बरम्
ददर्श भरतं दीनं कृशमाश्रमवासिनम्। जटिलं मलदिग्धाङ्गं भ्रातृव्यसनकर्शितम्
फलमूलाशिनं दान्तं तापसं धर्मचारिणम्। समुन्नतजटाभारं वल्कलाजिनवाससम्
नियतं भावितात्मानं ब्रह्मर्षिसमतेजसम्। पादुके ते पुरस्कृत्य प्रशासन्तं वसुंधराम्
चातुर्वर्ण्यस्य लोकस्य त्रातारं सर्वतो भयात्। उपस्थितममात्यैश्च शुचिभिश्च पुरोहितैः
बलमुख्यैश्च युक्तैश्च काषायाम्बरधारिभिः। नहि ते राजपुत्रं तं चीरकृष्णाजिनाम्बरम्
परिभोक्तुं व्यवस्यन्ति पौरा वै धर्मवत्सलाः। तं धर्ममिव धर्मज्ञं देहबन्धमिवापरम्
उवाच प्राञ्जलिर्वाक्यं हनूमान् मारुतात्मजः। वसन्तं दण्डकारण्ये यं त्वं चीरजटाधरम्
अनुशोचसि काकुत्स्थं स त्वां कौशलमब्रवीत्। प्रियमाख्यामि ते देव शोकं त्यज सुदारुणम्
अस्मिन् मुहूर्ते भ्रात्रा त्वं रामेण सह संगतः। निहत्य रावणं रामः प्रतिलभ्य च मैथिलीम्
उपयाति समृद्धार्थः सह मित्रैर्महाबलैः। लक्ष्मणश्च महातेजा वैदेही च यशस्विनी। सीता समग्रा रामेण महेन्द्रेण शची यथा
एवमुक्तो हनुमता भरतः कैकयीसुतः। पपात सहसा हृष्टो हर्षान्मोहमुपागमत्
ततो मुहूर्तादुत्थाय प्रत्याश्वस्य च राघवः। हनूमन्तमुवाचेदं भरतः प्रियवादिनम्
अशोकजैः प्रीतिमयैः कपिमालिङ्ग्य सम्भ्रमात्। सिषेच भरतः श्रीमान् विपुलैरश्रुबिन्दुभिः
देवो वा मानुषो वा त्वमनुक्रोशादिहागतः। प्रियाख्यानस्य ते सौम्य ददामि ब्रुवतः प्रियम्
गवां शतसहस्रं च ग्रामाणां च शतं परम्। सकुण्डलाः शुभाचारा भार्याः कन्यास्तु षोडश
हेमवर्णाः सुनासोरूः शशिसौम्याननाः स्त्रियः। सर्वाभरणसम्पन्नाः सम्पन्नाः कुलजातिभिः
निशम्य रामागमनं नृपात्मजः कपिप्रवीरस्य तदाद्भुतोपमम्। प्रहर्षितो रामदिदृक्षयाभवत् पुनश्च हर्षादिदमब्रवीद् वचः
thumb|षड्विंशत्यधिकशततमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे षड्विंशत्यधिकशततमः सर्गः ॥६-
बहूनि नाम वर्षाणि गतस्य सुमहद्वनम्। शृणोम्यहं प्रीतिकरं मम नाथस्य कीर्तनम्
कल्याणी बत गाथेयं लौकिकी प्रतिभाति माम्। एति जीवन्तमानन्दो नरं वर्षशतादपि
राघवस्य हरीणां च कथमासीत् समागमः। कस्मिन् देशे किमाश्रित्य तत्त्वमाख्याहि पृच्छतः
स पृष्टो राजपुत्रेण बृस्यां समुपवेशितः। आचचक्षे ततः सर्वं रामस्य चरितं वने
यथा प्रव्राजितो रामो मातुर्दत्तौ वरौ तव। यथा च पुत्रशोकेन राजा दशरथो मृतः
यथा दूतैस्त्वमानीतस्तूर्णं राजगृहात् प्रभो। त्वयायोध्यां प्रविष्टेन यथा राज्यं न चेप्सितम्
चित्रकूटगिरिं गत्वा राज्येनामित्रकर्शनः। निमन्त्रितस्त्वया भ्राता धर्ममाचरता सताम्
स्थितेन राज्ञो वचने यथा राज्यं विसर्जितम्। आर्यस्य पादुके गृह्य यथासि पुनरागतः
सर्वमेतन्महाबाहो यथावद् विदितं तव। त्वयि प्रतिप्रयाते तु यद् वृत्तं तन्निबोध मे