अभवन् पादपास्तत्र स्वर्गपादपसंनिभाः। निष्फलाः फलिनश्चासन् विपुष्पाः पुष्पशालिनः
शुष्काः समग्रपत्रास्ते नगाश्चैव मधुस्रवाः। सर्वतो योजनास्तिस्रो गच्छतामभवंस्तदा
ततः प्रहृष्टाः प्लवगर्षभास्ते बहूनि दिव्यानि फलानि चैव। कामादुपाश्नन्ति सहस्रशस्ते मुदान्विताः स्वर्गजितो यथैव
thumb|पञ्चविंशत्यधिकशततमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे पञ्चविंशत्यधिकशततमः सर्गः ॥६-
अयोध्यां तु समालोक्य चिन्तयामास राघवः। प्रियकामः प्रियं रामस्ततस्त्वरितविक्रमः
चिन्तयित्वा ततो दृष्टिं वानरेषु न्यपातयत्। उवाच धीमांस्तेजस्वी हनूमन्तं प्लवंगमम्
अयोध्यां त्वरितो गत्वा शीघ्रं प्लवगसत्तम। जानीहि कच्चित् कुशली जनो नृपतिमन्दिरे
शृङ्गवेरपुरं प्राप्य गुहं गहनगोचरम्। निषादाधिपतिं ब्रूहि कुशलं वचनान्मम
श्रुत्वा तु मां कुशलिनमरोगं विगतज्वरम्। भविष्यति गुहः प्रीतः स ममात्मसमः सखा
अयोध्यायाश्च ते मार्गं प्रवृत्तिं भरतस्य च। निवेदयिष्यति प्रीतो निषादाधिपतिर्गुहः
भरतस्तु त्वया वाच्यः कुशलं वचनान्मम। सिद्धार्थं शंस मां तस्मै सभार्यं सहलक्ष्मणम्
हरणं चापि वैदेह्या रावणेन बलीयसा। सुग्रीवेण च संवादं वालिनश्च वधं रणे
मैथिल्यन्वेषणं चैव यथा चाधिगता त्वया। लङ्घयित्वा महातोयमापगापतिमव्ययम्
उपयानं समुद्रस्य सागरस्य च दर्शनम्। यथा च कारितः सेतू रावणश्च यथा हतः
वरदानं महेन्द्रेण ब्रह्मणा वरुणेन च। महादेवप्रसादाच्च पित्रा मम समागमम्
उपयातं च मां सौम्य भरताय निवेदय। सह राक्षसराजेन हरीणामीश्वरेण च
जित्वा शत्रुगणान् रामः प्राप्य चानुत्तमं यशः। उपायाति समृद्धार्थः सह मित्रैर्महाबलैः
एतच्छ्रुत्वा यमाकारं भजते भरतस्ततः। स च ते वेदितव्यः स्यात् सर्वं यच्चापि मां प्रति
ज्ञेयाः सर्वे च वृत्तान्ता भरतस्येङ्गितानि च। तत्त्वेन मुखवर्णेन दृष्ट्या व्याभाषितेन च
सर्वकामसमृद्धं हि हस्त्यश्वरथसंकुलम्। पितृपैतामहं राज्यं कस्य नावर्तयेन्मनः
संगत्या भरतः श्रीमान् राज्येनार्थी स्वयं भवेत्। प्रशास्तु वसुधां सर्वामखिलां रघुनन्दनः
तस्य बुद्धिं च विज्ञाय व्यवसायं च वानर। यावन्न दूरं याताः स्मः क्षिप्रमागन्तुमर्हसि
इति प्रतिसमादिष्टो हनूमान् मारुतात्मजः। मानुषं धारयन् रूपमयोध्यां त्वरितो ययौ
अथोत्पपात वेगेन हनूमान् मारुतात्मजः। गरुत्मानिव वेगेन जिघृक्षन्नुरगोत्तमम्
लङ्घयित्वा पितृपथं विहगेन्द्रालयं शुभम्। गङ्गायमुनयोर्भीमं समतीत्य समागमम्
शृङ्गवेरपुरं प्राप्य गुहमासाद्य वीर्यवान्। स वाचा शुभया हृष्टो हनूमानिदमब्रवीत्
सखा तु तव काकुत्स्थो रामः सत्यपराक्रमः। ससीतः सह सौमित्रिः स त्वां कुशलमब्रवीत्
पञ्चमीमद्य रजनीमुषित्वा वचनान्मुनेः। भरद्वाजाभ्यनुज्ञातं द्रक्ष्यस्यत्रैव राघवम्
एवमुक्त्वा महातेजाः सम्प्रहृष्टतनूरुहः। उत्पपात महावेगाद् वेगवानविचारयन्
सोऽपश्यद् रामतीर्थं च नदीं वालुकिनीं तथा। वरूथीं गोमतीं चैव भीमं शालवनं तथा