मारीचदर्शनं चैव सीतोन्मथनमेव च। कबन्धदर्शनं चैव पम्पाभिगमनं तथा
सुग्रीवेण च ते सख्यं यत्र वाली हतस्त्वया। मार्गणं चैव वैदेह्याः कर्म वातात्मजस्य च
विदितायां च वैदेह्यां नलसेतुर्यथा कृतः। यथा चादीपिता लङ्का प्रहृष्टैर्हरियूथपैः
सपुत्रबान्धवामात्यः सबलः सहवाहनः। यथा च निहतः संख्ये रावणो बलदर्पितः
यथा च निहते तस्मिन् रावणे देवकण्टके। समागमश्च त्रिदशैर्यथा दत्तश्च ते वरः
सर्वं ममैतद् विदितं तपसा धर्मवत्सल। सम्पतन्ति च मे शिष्याः प्रवृत्त्याख्याः पुरीमितः
अहमप्यत्र ते दद्मि वरं शस्त्रभृतां वर। अर्घ्यं प्रतिगृहाणेदमयोध्यां श्वो गमिष्यसि
तस्य तच्छिरसा वाक्यं प्रतिगृह्य नृपात्मजः। बाढमित्येव संहृष्टः श्रीमान् वरमयाचत
अकालफलिनो वृक्षाः सर्वे चापि मधुस्रवाः। फलान्यमृतगन्धीनि बहूनि विविधानि च
भवन्तु मार्गे भगवन्नयोध्यां प्रति गच्छतः। तथेति च प्रतिज्ञाते वचनात् समनन्तरम्
अभवन् पादपास्तत्र स्वर्गपादपसंनिभाः। निष्फलाः फलिनश्चासन् विपुष्पाः पुष्पशालिनः
शुष्काः समग्रपत्रास्ते नगाश्चैव मधुस्रवाः। सर्वतो योजनास्तिस्रो गच्छतामभवंस्तदा
ततः प्रहृष्टाः प्लवगर्षभास्ते बहूनि दिव्यानि फलानि चैव। कामादुपाश्नन्ति सहस्रशस्ते मुदान्विताः स्वर्गजितो यथैव
thumb|पञ्चविंशत्यधिकशततमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे पञ्चविंशत्यधिकशततमः सर्गः ॥६-
अयोध्यां तु समालोक्य चिन्तयामास राघवः। प्रियकामः प्रियं रामस्ततस्त्वरितविक्रमः
चिन्तयित्वा ततो दृष्टिं वानरेषु न्यपातयत्। उवाच धीमांस्तेजस्वी हनूमन्तं प्लवंगमम्
अयोध्यां त्वरितो गत्वा शीघ्रं प्लवगसत्तम। जानीहि कच्चित् कुशली जनो नृपतिमन्दिरे
शृङ्गवेरपुरं प्राप्य गुहं गहनगोचरम्। निषादाधिपतिं ब्रूहि कुशलं वचनान्मम
श्रुत्वा तु मां कुशलिनमरोगं विगतज्वरम्। भविष्यति गुहः प्रीतः स ममात्मसमः सखा
अयोध्यायाश्च ते मार्गं प्रवृत्तिं भरतस्य च। निवेदयिष्यति प्रीतो निषादाधिपतिर्गुहः
भरतस्तु त्वया वाच्यः कुशलं वचनान्मम। सिद्धार्थं शंस मां तस्मै सभार्यं सहलक्ष्मणम्
हरणं चापि वैदेह्या रावणेन बलीयसा। सुग्रीवेण च संवादं वालिनश्च वधं रणे
मैथिल्यन्वेषणं चैव यथा चाधिगता त्वया। लङ्घयित्वा महातोयमापगापतिमव्ययम्
उपयानं समुद्रस्य सागरस्य च दर्शनम्। यथा च कारितः सेतू रावणश्च यथा हतः
वरदानं महेन्द्रेण ब्रह्मणा वरुणेन च। महादेवप्रसादाच्च पित्रा मम समागमम्
उपयातं च मां सौम्य भरताय निवेदय। सह राक्षसराजेन हरीणामीश्वरेण च
जित्वा शत्रुगणान् रामः प्राप्य चानुत्तमं यशः। उपायाति समृद्धार्थः सह मित्रैर्महाबलैः
एतच्छ्रुत्वा यमाकारं भजते भरतस्ततः। स च ते वेदितव्यः स्यात् सर्वं यच्चापि मां प्रति
ज्ञेयाः सर्वे च वृत्तान्ता भरतस्येङ्गितानि च। तत्त्वेन मुखवर्णेन दृष्ट्या व्याभाषितेन च
सर्वकामसमृद्धं हि हस्त्यश्वरथसंकुलम्। पितृपैतामहं राज्यं कस्य नावर्तयेन्मनः