ऋष्यमूको गिरिवरः काञ्चनैर्धातुभिर्वृतः। अत्राहं वानरेन्द्रेण सुग्रीवेण समागतः
समयश्च कृतः सीते वधार्थं वालिनो मया। एषा सा दृश्यते पम्पा नलिनी चित्रकानना
त्वया विहीनो यत्राहं विललाप सुदुःखितः। अस्यास्तीरे मया दृष्टा शबरी धर्मचारिणी
अत्र योजनबाहुश्च कबन्धो निहतो मया। दृश्यतेऽसौ जनस्थाने श्रीमान् सीते वनस्पतिः
जटायुश्च महातेजास्तव हेतोर्विलासिनि। रावणेन हतो यत्र पक्षिणां प्रवरो बली
खरश्च निहतो यत्र दूषणश्च निपातितः। त्रिशिराश्च महावीर्यो मया बाणैरजिह्मगैः
एतत् तदाश्रमपदमस्माकं वरवर्णिनि। पर्णशाला तथा चित्रा दृश्यते शुभदर्शने
यत्र त्वं राक्षसेन्द्रेण रावणेन हृता बलात्। एषा गोदावरी रम्या प्रसन्नसलिला शुभा
अगस्त्यस्याश्रमश्चैव दृश्यते कदलीवृतः। दीप्तश्चैवाश्रमे ह्येष सुतीक्ष्णस्य महात्मनः
दृश्यते चैव वैदेहि शरभङ्गाश्रमो महान्। उपयातः सहस्राक्षो यत्र शक्रः पुरंदरः
अस्मिन् देशे महाकायो विराधो निहतो मया। एते ते तापसा देवि दृश्यन्ते तनुमध्यमे
अत्रिः कुलपतिर्यत्र सूर्यवैश्वानरोपमः। अत्र सीते त्वया दृष्टा तापसी धर्मचारिणी
असौ सुतनु शैलेन्द्रश्चित्रकूटः प्रकाशते। अत्र मां कैकयीपुत्रः प्रसादयितुमागतः
एषा सा यमुना रम्या दृश्यते चित्रकानना। भरद्वाजाश्रमः श्रीमान् दृश्यते चैष मैथिलि
इयं च दृश्यते गङ्गा पुण्या त्रिपथगा नदी। नानाद्विजगणाकीर्णा सम्प्रपुष्पितकानना
शृङ्गवेरपुरं चैतद् गुहो यत्र सखा मम। एषा सा दृश्यते सीते सरयूर्यूपमालिनी
एषा सा दृश्यते सीते राजधानी पितुर्मम। अयोध्यां कुरु वैदेहि प्रणामं पुनरागता
ततस्ते वानराः सर्वे राक्षसाः सविभीषणाः। उत्पत्योत्पत्य संहृष्टास्तां पुरीं ददृशुस्तदा
ततस्तु तां पाण्डुरहर्म्यमालिनीं विशालकक्ष्यां गजवाजिभिर्वृताम्। पुरीमपश्यन् प्लवगाः सराक्षसाः पुरीं महेन्द्रस्य यथामरावतीम्
thumb|चतुर्विंशत्यधिकशततमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे चतुर्विंशत्यधिकशततमः सर्गः ॥६-
पूर्णे चतुर्दशे वर्षे पञ्चम्यां लक्ष्मणाग्रजः। भरद्वाजाश्रमं प्राप्य ववन्दे नियतो मुनिम्
सोऽपृच्छदभिवाद्यैनं भरद्वाजं तपोधनम्। शृणोषि कच्चिद् भगवन् सुभिक्षानामयं पुरे। कच्चित् स युक्तो भरतो जीवन्त्यपि च मातरः
एवमुक्तस्तु रामेण भरद्वाजो महामुनिः। प्रत्युवाच रघुश्रेष्ठं स्मितपूर्वं प्रहृष्टवत्
आज्ञावशत्वे भरतो जटिलस्त्वां प्रतीक्षते। पादुके ते पुरस्कृत्य सर्वं च कुशलं गृहे
त्वां पुरा चीरवसनं प्रविशन्तं महावनम्। स्त्रीतृतीयं च्युतं राज्याद् धर्मकामं च केवलम्
पदातिं त्यक्तसर्वस्वं पितृनिर्देशकारिणम्। सर्वभोगैः परित्यक्तं स्वर्गच्युतमिवामरम्
दृष्ट्वा तु करुणापूर्वं ममासीत् समितिंजय। कैकेयीवचने युक्तं वन्यमूलफलाशिनम्
साम्प्रतं तु समृद्धार्थं समित्रगणबान्धवम्। समीक्ष्य विजितारिं च ममाभूत् प्रीतिरुत्तमा
सर्वं च सुखदुःखं ते विदितं मम राघव। यत् त्वया विपुलं प्राप्तं जनस्थाननिवासिना
ब्राह्मणार्थे नियुक्तस्य रक्षतः सर्वतापसान्। रावणेन हृता भार्या बभूवेयमनिन्दिता