अभित्वरय सुग्रीव गच्छामः प्लवगाधिप। एवमुक्तस्तु सुग्रीवो रामेणामिततेजसा
वानराधिपतिः श्रीमांस्तैश्च सर्वैः समावृतः। प्रविश्यान्तःपुरं शीघ्रं तारामुद्वीक्ष्य सोऽब्रवीत्
प्रिये त्वं सह नारीभिर्वानराणां महात्मनाम्। राघवेणाभ्यनुज्ञाता मैथिलीप्रियकाम्यया
त्वर त्वमभिगच्छामो गृह्य वानरयोषितः। अयोध्यां दर्शयिष्यामः सर्वा दशरथस्त्रियः
सुग्रीवस्य वचः श्रुत्वा तारा सर्वाङ्गशोभना। आहूय चाब्रवीत् सर्वा वानराणां तु योषितः
सुग्रीवेणाभ्यनुज्ञाता गन्तुं सर्वैश्च वानरैः। मम चापि प्रियं कार्यमयोध्यादर्शनेन च
प्रवेशं चैव रामस्य पौरजानपदैः सह। विभूतिं चैव सर्वासां स्त्रीणां दशरथस्य च
तारया चाभ्यनुज्ञाताः सर्वा वानरयोषितः। नेपथ्यविधिपूर्वं तु कृत्वा चापि प्रदक्षिणम्
अध्यारोहन् विमानं तत् सीतादर्शनकाङ्क्षया। ताभिः सहोत्थितं शीघ्रं विमानं प्रेक्ष्य राघवः
ऋष्यमूकसमीपे तु वैदेहीं पुनरब्रवीत्। दृश्यतेऽसौ महान् सीते सविद्युदिव तोयदः
ऋष्यमूको गिरिवरः काञ्चनैर्धातुभिर्वृतः। अत्राहं वानरेन्द्रेण सुग्रीवेण समागतः
समयश्च कृतः सीते वधार्थं वालिनो मया। एषा सा दृश्यते पम्पा नलिनी चित्रकानना
त्वया विहीनो यत्राहं विललाप सुदुःखितः। अस्यास्तीरे मया दृष्टा शबरी धर्मचारिणी
अत्र योजनबाहुश्च कबन्धो निहतो मया। दृश्यतेऽसौ जनस्थाने श्रीमान् सीते वनस्पतिः
जटायुश्च महातेजास्तव हेतोर्विलासिनि। रावणेन हतो यत्र पक्षिणां प्रवरो बली
खरश्च निहतो यत्र दूषणश्च निपातितः। त्रिशिराश्च महावीर्यो मया बाणैरजिह्मगैः
एतत् तदाश्रमपदमस्माकं वरवर्णिनि। पर्णशाला तथा चित्रा दृश्यते शुभदर्शने
यत्र त्वं राक्षसेन्द्रेण रावणेन हृता बलात्। एषा गोदावरी रम्या प्रसन्नसलिला शुभा
अगस्त्यस्याश्रमश्चैव दृश्यते कदलीवृतः। दीप्तश्चैवाश्रमे ह्येष सुतीक्ष्णस्य महात्मनः
दृश्यते चैव वैदेहि शरभङ्गाश्रमो महान्। उपयातः सहस्राक्षो यत्र शक्रः पुरंदरः
अस्मिन् देशे महाकायो विराधो निहतो मया। एते ते तापसा देवि दृश्यन्ते तनुमध्यमे
अत्रिः कुलपतिर्यत्र सूर्यवैश्वानरोपमः। अत्र सीते त्वया दृष्टा तापसी धर्मचारिणी
असौ सुतनु शैलेन्द्रश्चित्रकूटः प्रकाशते। अत्र मां कैकयीपुत्रः प्रसादयितुमागतः
एषा सा यमुना रम्या दृश्यते चित्रकानना। भरद्वाजाश्रमः श्रीमान् दृश्यते चैष मैथिलि
इयं च दृश्यते गङ्गा पुण्या त्रिपथगा नदी। नानाद्विजगणाकीर्णा सम्प्रपुष्पितकानना
शृङ्गवेरपुरं चैतद् गुहो यत्र सखा मम। एषा सा दृश्यते सीते सरयूर्यूपमालिनी
एषा सा दृश्यते सीते राजधानी पितुर्मम। अयोध्यां कुरु वैदेहि प्रणामं पुनरागता
ततस्ते वानराः सर्वे राक्षसाः सविभीषणाः। उत्पत्योत्पत्य संहृष्टास्तां पुरीं ददृशुस्तदा
ततस्तु तां पाण्डुरहर्म्यमालिनीं विशालकक्ष्यां गजवाजिभिर्वृताम्। पुरीमपश्यन् प्लवगाः सराक्षसाः पुरीं महेन्द्रस्य यथामरावतीम्
thumb|चतुर्विंशत्यधिकशततमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे चतुर्विंशत्यधिकशततमः सर्गः ॥६-