अकम्पनश्च निहतो बलिनोऽन्ये च राक्षसाः। त्रिशिराश्चातिकायश्च देवान्तकनरान्तकौ
युद्धोन्मत्तश्च मत्तश्च राक्षसप्रवरावुभौ। निकुम्भश्चैव कुम्भश्च कुम्भकर्णात्मजौ बली
वज्रदंष्ट्रश्च दंष्ट्रश्च बहवो राक्षसा हताः। मकराक्षश्च दुर्धर्षो मया युधि निपातितः
अकम्पनश्च निहतः शोणिताक्षश्च वीर्यवान्। यूपाक्षश्च प्रजङ्घश्च निहतौ तु महाहवे
विद्युज्जिह्वोऽत्र निहतो राक्षसो भीमदर्शनः। यज्ञशत्रुश्च निहतः सुप्तघ्नश्च महाबलः
सूर्यशत्रुश्च निहतो ब्रह्मशत्रुस्तथापरः। अत्र मन्दोदरी नाम भार्या तं पर्यदेवयत्
सपत्नीनां सहस्रेण साग्रेण परिवारिता। एतत् तु दृश्यते तीर्थं समुद्रस्य वरानने
यत्र सागरमुत्तीर्य तां रात्रिमुषिता वयम्। एष सेतुर्मया बद्धः सागरे लवणार्णवे
तव हेतोर्विशालाक्षि नलसेतुः सुदुष्करः। पश्य सागरमक्षोभ्यं वैदेहि वरुणालयम्
अपारमिव गर्जन्तं शङ्खशुक्तिसमाकुलम्। हिरण्यनाभं शैलेन्द्रं काञ्चनं पश्य मैथिलि
विश्रमार्थं हनुमतो भित्त्वा सागरमुत्थितम्। एतत् कुक्षौ समुद्रस्य स्कन्धावारनिवेशनम्
अत्र पूर्वं महादेवः प्रसादमकरोद् विभुः। एतत् तु दृश्यते तीर्थं सागरस्य महात्मनः
सेतुबन्ध इति ख्यातं त्रैलोक्येन च पूजितम्। एतत् पवित्रं परमं महापातकनाशनम्
अत्र राक्षसराजोऽयमाजगाम विभीषणः। एषा सा दृश्यते सीते किष्किन्धा चित्रकानना
सुग्रीवस्य पुरी रम्या यत्र वाली मया हतः। अथ दृष्ट्वा पुरीं सीता किष्किन्धां वालिपालिताम्
अब्रवीत् प्रश्रितं वाक्यं रामं प्रणयसाध्वसा। सुग्रीवप्रियभार्याभिस्ताराप्रमुखतो नृप
अन्येषां वानरेन्द्राणां स्त्रीभिः परिवृता ह्यहम्। गन्तुमिच्छे सहायोध्यां राजधानीं त्वया सह
एवमुक्तोऽथ वैदेह्या राघवः प्रत्युवाच ताम्। एवमस्त्विति किष्किन्धां प्राप्य संस्थाप्य राघवः
विमानं प्रेक्ष्य सुग्रीवं वाक्यमेतदुवाच ह। ब्रूहि वानरशार्दूल सर्वान् वानरपुङ्गवान्
स्त्रीभिः परिवृताः सर्वे ह्ययोध्यां यान्तु सीतया। तथा त्वमपि सर्वाभिः स्त्रीभिः सह महाबल
अभित्वरय सुग्रीव गच्छामः प्लवगाधिप। एवमुक्तस्तु सुग्रीवो रामेणामिततेजसा
वानराधिपतिः श्रीमांस्तैश्च सर्वैः समावृतः। प्रविश्यान्तःपुरं शीघ्रं तारामुद्वीक्ष्य सोऽब्रवीत्
प्रिये त्वं सह नारीभिर्वानराणां महात्मनाम्। राघवेणाभ्यनुज्ञाता मैथिलीप्रियकाम्यया
त्वर त्वमभिगच्छामो गृह्य वानरयोषितः। अयोध्यां दर्शयिष्यामः सर्वा दशरथस्त्रियः
सुग्रीवस्य वचः श्रुत्वा तारा सर्वाङ्गशोभना। आहूय चाब्रवीत् सर्वा वानराणां तु योषितः
सुग्रीवेणाभ्यनुज्ञाता गन्तुं सर्वैश्च वानरैः। मम चापि प्रियं कार्यमयोध्यादर्शनेन च
प्रवेशं चैव रामस्य पौरजानपदैः सह। विभूतिं चैव सर्वासां स्त्रीणां दशरथस्य च
तारया चाभ्यनुज्ञाताः सर्वा वानरयोषितः। नेपथ्यविधिपूर्वं तु कृत्वा चापि प्रदक्षिणम्
अध्यारोहन् विमानं तत् सीतादर्शनकाङ्क्षया। ताभिः सहोत्थितं शीघ्रं विमानं प्रेक्ष्य राघवः
ऋष्यमूकसमीपे तु वैदेहीं पुनरब्रवीत्। दृश्यतेऽसौ महान् सीते सविद्युदिव तोयदः