अयोध्यां प्रति यास्यामि राजधानीं पितुर्मम। अभ्यनुज्ञातुमिच्छामि सर्वानामन्त्रयामि वः
एवमुक्तास्तु रामेण हरीन्द्रा हरयस्तथा। ऊचुः प्राञ्जलयः सर्वे राक्षसश्च विभीषणः
अयोध्यां गन्तुमिच्छामः सर्वान् नयतु नो भवान्। मुद्युक्ता विचरिष्यामो वनान्युपवनानि च
दृष्ट्वा त्वामभिषेकार्द्रं कौसल्यामभिवाद्य च। अचिरादागमिष्यामः स्वगृहान् नृपसत्तम
एवमुक्तस्तु धर्मात्मा वानरैः सविभीषणैः। अब्रवीद् वानरान् रामः ससुग्रीवविभीषणान्
प्रियात् प्रियतरं लब्धं यदहं ससुहृज्जनः। सर्वैर्भवद्भिः सहितः प्रीतिं लप्स्ये पुरीं गतः
क्षिप्रमारोह सुग्रीव विमानं सह वानरैः। त्वमप्यारोह सामात्यो राक्षसेन्द्र विभीषण
ततः स पुष्पकं दिव्यं सुग्रीवः सह वानरैः। आरुरोह मुदा युक्तः सामात्यश्च विभीषणः
तेष्वारूढेषु सर्वेषु कौबेरं परमासनम्। राघवेणाभ्यनुज्ञातमुत्पपात विहायसम्
खगतेन विमानेन हंसयुक्तेन भास्वता। प्रहृष्टश्च प्रतीतश्च बभौ रामः कुबेरवत्
ते सर्वे वानरर्क्षाश्च राक्षसाश्च महाबलाः। यथासुखमसम्बाधं दिव्ये तस्मिन्नुपाविशन्
thumb|त्रयोविंशत्यधिकशततमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे त्रयोविंशत्यधिकशततमः सर्गः ॥६-
अनुज्ञातं तु रामेण तद् विमानमनुत्तमम्। हंसयुक्तं महानादमुत्पपात विहायसम्
पातयित्वा ततश्चक्षुः सर्वतो रघुनन्दनः। अब्रवीन्मैथिलीं सीतां रामः शशिनिभाननाम्
कैलासशिखराकारे त्रिकूटशिखरे स्थिताम्। लङ्कामीक्षस्व वैदेहि निर्मितां विश्वकर्मणा
एतदायोधनं पश्य मांसशोणितकर्दमम्। हरीणां राक्षसानां च सीते विशसनं महत्
एष दत्तवरः शेते प्रमाथी राक्षसेश्वरः। तव हेतोर्विशालाक्षि निहतो रावणो मया
कुम्भकर्णोऽत्र निहतः प्रहस्तश्च निशाचरः। धूम्राक्षश्चात्र निहतो वानरेण हनूमता
विद्युन्माली हतश्चात्र सुषेणेन महात्मना। लक्ष्मणेनेन्द्रजिच्चात्र रावणिर्निहतो रणे
अङ्गदेनात्र निहतो विकटो नाम राक्षसः। विरूपाक्षश्च दुष्प्रेक्षो महापार्श्वमहोदरौ
अकम्पनश्च निहतो बलिनोऽन्ये च राक्षसाः। त्रिशिराश्चातिकायश्च देवान्तकनरान्तकौ
युद्धोन्मत्तश्च मत्तश्च राक्षसप्रवरावुभौ। निकुम्भश्चैव कुम्भश्च कुम्भकर्णात्मजौ बली
वज्रदंष्ट्रश्च दंष्ट्रश्च बहवो राक्षसा हताः। मकराक्षश्च दुर्धर्षो मया युधि निपातितः
अकम्पनश्च निहतः शोणिताक्षश्च वीर्यवान्। यूपाक्षश्च प्रजङ्घश्च निहतौ तु महाहवे
विद्युज्जिह्वोऽत्र निहतो राक्षसो भीमदर्शनः। यज्ञशत्रुश्च निहतः सुप्तघ्नश्च महाबलः
सूर्यशत्रुश्च निहतो ब्रह्मशत्रुस्तथापरः। अत्र मन्दोदरी नाम भार्या तं पर्यदेवयत्
सपत्नीनां सहस्रेण साग्रेण परिवारिता। एतत् तु दृश्यते तीर्थं समुद्रस्य वरानने
यत्र सागरमुत्तीर्य तां रात्रिमुषिता वयम्। एष सेतुर्मया बद्धः सागरे लवणार्णवे
तव हेतोर्विशालाक्षि नलसेतुः सुदुष्करः। पश्य सागरमक्षोभ्यं वैदेहि वरुणालयम्
अपारमिव गर्जन्तं शङ्खशुक्तिसमाकुलम्। हिरण्यनाभं शैलेन्द्रं काञ्चनं पश्य मैथिलि