एवं सम्मानिताश्चैते नन्द्यमाना यथा त्वया। भविष्यन्ति कृतज्ञेन निर्वृता हरियूथपाः
त्यागिनं संग्रहीतारं सानुक्रोशं जितेन्द्रियम्। सर्वे त्वामभिगच्छन्ति ततः सम्बोधयामि ते
हीनं रतिगुणैः सर्वैरभिहन्तारमाहवे। सेना त्यजति संविग्ना नृपतिं तं नरेश्वर
एवमुक्तस्तु रामेण वानरांस्तान् विभीषणः। रत्नार्थसंविभागेन सर्वानेवाभ्यपूजयत्
ततस्तान् पूजितान् दृष्ट्वा रत्नार्थैर्हरियूथपान्। आरुरोह तदा रामस्तद् विमानमनुत्तमम्
अङ्केनादाय वैदेहीं लज्जमानां मनस्विनीम्। लक्ष्मणेन सह भ्रात्रा विक्रान्तेन धनुष्मता
अब्रवीत् स विमानस्थः पूजयन् सर्ववानरान्। सुग्रीवं च महावीर्यं काकुत्स्थः सविभीषणम्
मित्रकार्यं कृतमिदं भवद्भिर्वानरर्षभाः। अनुज्ञाता मया सर्वे यथेष्टं प्रतिगच्छत
यत् तु कार्यं वयस्येन स्निग्धेन च हितेन च। कृतं सुग्रीव तत् सर्वं भवताधर्मभीरुणा
किष्किन्धां प्रति याह्याशु स्वसैन्येनाभिसंवृतः। स्वराज्ये वस लङ्कायां मया दत्ते विभीषण। न त्वां धर्षयितुं शक्ताः सेन्द्रा अपि दिवौकसः
अयोध्यां प्रति यास्यामि राजधानीं पितुर्मम। अभ्यनुज्ञातुमिच्छामि सर्वानामन्त्रयामि वः
एवमुक्तास्तु रामेण हरीन्द्रा हरयस्तथा। ऊचुः प्राञ्जलयः सर्वे राक्षसश्च विभीषणः
अयोध्यां गन्तुमिच्छामः सर्वान् नयतु नो भवान्। मुद्युक्ता विचरिष्यामो वनान्युपवनानि च
दृष्ट्वा त्वामभिषेकार्द्रं कौसल्यामभिवाद्य च। अचिरादागमिष्यामः स्वगृहान् नृपसत्तम
एवमुक्तस्तु धर्मात्मा वानरैः सविभीषणैः। अब्रवीद् वानरान् रामः ससुग्रीवविभीषणान्
प्रियात् प्रियतरं लब्धं यदहं ससुहृज्जनः। सर्वैर्भवद्भिः सहितः प्रीतिं लप्स्ये पुरीं गतः
क्षिप्रमारोह सुग्रीव विमानं सह वानरैः। त्वमप्यारोह सामात्यो राक्षसेन्द्र विभीषण
ततः स पुष्पकं दिव्यं सुग्रीवः सह वानरैः। आरुरोह मुदा युक्तः सामात्यश्च विभीषणः
तेष्वारूढेषु सर्वेषु कौबेरं परमासनम्। राघवेणाभ्यनुज्ञातमुत्पपात विहायसम्
खगतेन विमानेन हंसयुक्तेन भास्वता। प्रहृष्टश्च प्रतीतश्च बभौ रामः कुबेरवत्
ते सर्वे वानरर्क्षाश्च राक्षसाश्च महाबलाः। यथासुखमसम्बाधं दिव्ये तस्मिन्नुपाविशन्
thumb|त्रयोविंशत्यधिकशततमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे त्रयोविंशत्यधिकशततमः सर्गः ॥६-
अनुज्ञातं तु रामेण तद् विमानमनुत्तमम्। हंसयुक्तं महानादमुत्पपात विहायसम्
पातयित्वा ततश्चक्षुः सर्वतो रघुनन्दनः। अब्रवीन्मैथिलीं सीतां रामः शशिनिभाननाम्
कैलासशिखराकारे त्रिकूटशिखरे स्थिताम्। लङ्कामीक्षस्व वैदेहि निर्मितां विश्वकर्मणा
एतदायोधनं पश्य मांसशोणितकर्दमम्। हरीणां राक्षसानां च सीते विशसनं महत्
एष दत्तवरः शेते प्रमाथी राक्षसेश्वरः। तव हेतोर्विशालाक्षि निहतो रावणो मया
कुम्भकर्णोऽत्र निहतः प्रहस्तश्च निशाचरः। धूम्राक्षश्चात्र निहतो वानरेण हनूमता
विद्युन्माली हतश्चात्र सुषेणेन महात्मना। लक्ष्मणेनेन्द्रजिच्चात्र रावणिर्निहतो रणे
अङ्गदेनात्र निहतो विकटो नाम राक्षसः। विरूपाक्षश्च दुष्प्रेक्षो महापार्श्वमहोदरौ