एवमुक्तस्तु काकुत्स्थं प्रत्युवाच विभीषणः। अह्ना त्वां प्रापयिष्यामि तां पुरीं पार्थिवात्मज
पुष्पकं नाम भद्रं ते विमानं सूर्यसंनिभम्। मम भ्रातुः कुबेरस्य रावणेन बलीयसा
हृतं निर्जित्य संग्रामे कामगं दिव्यमुत्तमम्। त्वदर्थं पालितं चेदं तिष्ठत्यतुलविक्रम
तदिदं मेघसंकाशं विमानमिह तिष्ठति। येन यास्यसि यानेन त्वमयोध्यां गतज्वरः
अहं ते यद्यनुग्राह्यो यदि स्मरसि मे गुणान्। वस तावदिह प्राज्ञ यद्यस्ति मयि सौहृदम्
लक्ष्मणेन सह भ्रात्रा वैदेह्या भार्यया सह। अर्चितः सर्वकामैस्त्वं ततो राम गमिष्यसि
प्रीतियुक्तस्य विहितां ससैन्यः ससुहृद्गणः। सत्क्रियां राम मे तावद् गृहाण त्वं मयोद्यताम्
प्रणयाद् बहुमानाच्च सौहार्देन च राघव। प्रसादयामि प्रेष्योऽहं न खल्वाज्ञापयामि ते
एवमुक्तस्ततो रामः प्रत्युवाच विभीषणम्। रक्षसां वानराणां च सर्वेषामेव शृण्वताम्
पूजितोऽस्मि त्वया वीर साचिव्येन परेण च। सर्वात्मना च चेष्टाभिः सौहार्देन परेण च
न खल्वेतन्न कुर्यां ते वचनं राक्षसेश्वर। तं तु मे भ्रातरं द्रष्टुं भरतं त्वरते मनः
मां निवर्तयितुं योऽसौ चित्रकूटमुपागतः। शिरसा याचतो यस्य वचनं न कृतं मया
कौसल्यां च सुमित्रां च कैकेयीं च यशस्विनीम्। गुहं च सुहृदं चैव पौराञ्जानपदैः सह
अनुजानीहि मां सौम्य पूजितोऽस्मि विभीषण। मन्युर्न खलु कर्तव्यः सखे त्वां चानुमानये
उपस्थापय मे शीघ्रं विमानं राक्षसेश्वर। कृतकार्यस्य मे वासः कथं स्यादिह सम्मतः
एवमुक्तस्तु रामेण राक्षसेन्द्रो विभीषणः। विमानं सूर्यसंकाशमाजुहाव त्वरान्वितः
ततः काञ्चनचित्राङ्गं वैदूर्यमणिवेदिकम्। कूटागारैः परिक्षिप्तं सर्वतो रजतप्रभम्
पाण्डुराभिः पताकाभिर्ध्वजैश्च समलंकृतम्। शोभितं काञ्चनैर्हर्म्यैर्हेमपद्मविभूषितैः
प्रकीर्णं किङ्किणीजालैर्मुक्तामणिगवाक्षकम्। घण्टाजालैः परिक्षिप्तं सर्वतो मधुरस्वनम्
तं मेरुशिखराकारं निर्मितं विश्वकर्मणा। बृहद्भिर्भूषितं हर्म्यैर्मुक्तारजतशोभितैः
तलैः स्फटिकचित्राङ्गैर्वैदूर्यैश्च वरासनैः। महार्हास्तरणोपेतैरुपपन्नं महाधनैः
उपस्थितमनाधृष्यं तद् विमानं मनोजवम्। निवेदयित्वा रामाय तस्थौ तत्र विभीषणः
तत् पुष्पकं कामगमं विमान- मुपस्थितं भूधरसंनिकाशम्। दृष्ट्वा तदा विस्मयमाजगाम रामः ससौमित्रिरुदारसत्त्वः
thumb|द्वाविंशत्यधिकशततमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे द्वाविंशत्यधिकशततमः सर्गः ॥६-
उपस्थितं तु तं कृत्वा पुष्पकं पुष्पभूषितम्। अविदूरे स्थितो राममित्युवाच विभीषणः
स तु बद्धाञ्जलिपुटो विनीतो राक्षसेश्वरः। अब्रवीत् त्वरयोपेतः किं करोमीति राघवम्
तमब्रवीन्महातेजा लक्ष्मणस्योपशृण्वतः। विमृश्य राघवो वाक्यमिदं स्नेहपुरस्कृतम्
कृतप्रयत्नकर्माणः सर्व एव वनौकसः। रत्नैरर्थैश्च विविधैः सम्पूज्यन्तां विभीषण
सहामीभिस्त्वया लङ्का निर्जिता राक्षसेश्वर। हृष्टैः प्राणभयं त्यक्त्वा संग्रामेष्वनिवर्तिभिः
त इमे कृतकर्माणः सर्व एव वनौकसः। धनरत्नप्रदानैश्च कर्मैषां सफलं कुरु