बाढमित्यब्रवीद् राजा मुनिश्च समभाषत। लीलया स धनुर्मध्ये जग्राह वचनान्मुनेः
पश्यतां नृसहस्राणां बहूनां रघुनन्दनः। आरोपयत् स धर्मात्मा सलीलमिव तद्धनुः
आरोपयित्वा मौर्वीं च पूरयामास तद्धनुः। तद् बभञ्ज धनुर्मध्ये नरश्रेष्ठो महायशाः
तस्य शब्दो महानासीन्निर्घातसमनिःस्वनः। भूमिकम्पश्च सुमहान् पर्वतस्येव दीर्यतः
निपेतुश्च नराः सर्वे तेन शब्देन मोहिताः। वर्जयित्वा मुनिवरं राजानं तौ च राघवौ
प्रत्याश्वस्ते जने तस्मिन् राजा विगतसाध्वसः। उवाच प्राञ्जलिर्वाक्यं वाक्यज्ञो मुनिपुंगवम्
भगवन् दृष्टवीर्यो मे रामो दशरथात्मजः। अत्यद्भुतमचिन्त्यं च अतर्कितमिदं मया
जनकानां कुले कीर्तिमाहरिष्यति मे सुता। सीता भर्तारमासाद्य रामं दशरथात्मजम्
मम सत्या प्रतिज्ञा सा वीर्यशुल्केति कौशिक। सीता प्राणैर्बहुमता देया रामाय मे सुता
भवतोऽनुमते ब्रह्मन् शीघ्रं गच्छन्तु मन्त्रिणः। मम कौशिक भद्रं ते अयोध्यां त्वरिता रथैः
राजानं प्रश्रितैर्वाक्यैरानयन्तु पुरं मम। प्रदानं वीर्यशुल्कायाः कथयन्तु च सर्वशः
मुनिगुप्तौ च काकुत्स्थौ कथयन्तु नृपाय वै। प्रीतियुक्तं तु राजानमानयन्तु सुशीघ्रगाः
कौशिकस्तु तथेत्याह राजा चाभाष्य मन्त्रिणः। अयोध्यां प्रेषयामास धर्मात्मा कृतशासनान्। यथावृत्तं समाख्यातुमानेतुं च नृपं तथा
thumb| अष्टषष्ठितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे बालकाण्डे अष्टषष्ठितमः सर्गः ॥१-
जनकेन समादिष्टा दूतास्ते क्लान्तवाहनाः। त्रिरात्रमुषिता मार्गे तेऽयोध्यां प्राविशन् पुरीम्
ते राजवचनाद् गत्वा राजवेश्म प्रवेशिताः। ददृशुर्देवसंकाशं वृद्धं दशरथं नृपम्
बद्धाञ्जलिपुटाः सर्वे दूता विगतसाध्वसाः। राजानं प्रश्रितं वाक्यमब्रुवन् मधुराक्षरम्
मैथिलो जनको राजा साग्निहोत्रपुरस्कृतः। मुहुर्मुहुर्मधुरया स्नेहसंरक्तया गिरा
कुशलं चाव्ययं चैव सोपाध्यायपुरोहितम्। जनकस्त्वां महाराज पृच्छते सपुरःसरम्
पृष्ट्वा कुशलमव्यग्रं वैदेहो मिथिलाधिपः। कौशिकानुमते वाक्यं भवन्तमिदमब्रवीत्
पूर्वं प्रतिज्ञा विदिता वीर्यशुल्का ममात्मजा। राजानश्च कृतामर्षा निर्वीर्या विमुखीकृताः
सेयं मम सुता राजन् विश्वामित्रपुरस्कृतैः। यदृच्छयागतै राजन् निर्जिता तव पुत्रकैः
तच्च रत्नं धनुर्दिव्यं मध्ये भग्नं महात्मना। रामेण हि महाबाहो महत्यां जनसंसदि
अस्मै देया मया सीता वीर्यशुल्का महात्मने। प्रतिज्ञां तर्तुमिच्छामि तदनुज्ञातुमर्हसि
सोपाध्यायो महाराज पुरोहितपुरस्कृतः। शीघ्रमागच्छ भद्रं ते द्रष्टुमर्हसि राघवौ
प्रतिज्ञां मम राजेन्द्र निर्वर्तयितुमर्हसि। पुत्रयोरुभयोरेव प्रीतिं त्वमुपलप्स्यसे
एवं विदेहाधिपतिर्मधुरं वाक्यमब्रवीत्। विश्वामित्राभ्यनुज्ञातः शतानन्दमते स्थितः
दूतवाक्यं तु तच्छ्रुत्वा राजा परमहर्षितः। वसिष्ठं वामदेवं च मन्त्रिणश्चैवमब्रवीत्
गुप्तः कुशिकपुत्रेण कौसल्यानन्दवर्धनः। लक्ष्मणेन सह भ्रात्रा विदेहेषु वसत्यसौ
दृष्टवीर्यस्तु काकुत्स्थो जनकेन महात्मना। सम्प्रदानं सुतायास्तु राघवे कर्तुमिच्छति