समुत्तिष्ठन्तु ते सर्वे हता ये युधि राक्षसैः। ऋक्षाश्च सह गोपुच्छैर्निकृत्ताननबाहवः
नीरुजो निर्व्रणाश्चैव सम्पन्नबलपौरुषाः। समुत्थास्यन्ति हरयः सुप्ता निद्राक्षये यथा
सुहृद्भिर्बान्धवैश्चैव ज्ञातिभिः स्वजनेन च। सर्व एव समेष्यन्ति संयुक्ताः परया मुदा
अकाले पुष्पशबलाः फलवन्तश्च पादपाः। भविष्यन्ति महेष्वास नद्यश्च सलिलायुताः
सव्रणैः प्रथमं गात्रैरिदानीं निर्व्रणैः समैः। ततः समुत्थिताः सर्वे सुप्त्वेव हरिसत्तमाः
बभूवुर्वानराः सर्वे किं त्वेतदिति विस्मिताः। काकुत्स्थं परिपूर्णार्थं दृष्ट्वा सर्वे सुरोत्तमाः
अब्रुवन् परमप्रीताः स्तुत्वा रामं सलक्ष्मणम्। गच्छायोध्यामितो राजन् विसर्जय च वानरान्
मैथिलीं सान्त्वयस्वैनामनुरक्तां यशस्विनीम्। भ्रातरं भरतं पश्य त्वच्छोकाद् व्रतचारिणम्
शत्रुघ्नं च महात्मानं मातॄः सर्वाः परंतप। अभिषेचय चात्मानं पौरान् गत्वा प्रहर्षय
एवमुक्त्वा सहस्राक्षो रामं सौमित्रिणा सह। विमानैः सूर्यसंकाशैर्ययौ हृष्टः सुरैः सह
अभिवाद्य च काकुत्स्थः सर्वांस्तांस्त्रिदशोत्तमान्। लक्ष्मणेन सह भ्रात्रा वासमाज्ञापयत् तदा
ततस्तु सा लक्ष्मणरामपालिता महाचमूर्हृष्टजना यशस्विनी। श्रिया ज्वलन्ती विरराज सर्वतो निशा प्रणीतेव हि शीतरश्मिना
thumb|एकविंशत्यधिकशततमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे एकविंशत्यधिकशततमः सर्गः ॥६-
तां रात्रिमुषितं रामं सुखोदितमरिंदमम्। अब्रवीत् प्राञ्जलिर्वाक्यं जयं पृष्ट्वा विभीषणः
स्नानानि चाङ्गरागाणि वस्त्राण्याभरणानि च। चन्दनानि च माल्यानि दिव्यानि विविधानि च
अलंकारविदश्चैता नार्यः पद्मनिभेक्षणाः। उपस्थितास्त्वां विधिवत् स्नापयिष्यन्ति राघव
एवमुक्तस्तु काकुत्स्थः प्रत्युवाच विभीषणम्। हरीन् सुग्रीवमुख्यांस्त्वं स्नानेनोपनिमन्त्रय
स तु ताम्यति धर्मात्मा मम हेतोः सुखोचितः। सुकुमारो महाबाहुर्भरतः सत्यसंश्रयः
तं विना कैकयीपुत्रं भरतं धर्मचारिणम्। न मे स्नानं बहु मतं वस्त्राण्याभरणानि च
एतत् पश्य यथा क्षिप्रं प्रतिगच्छाम तां पुरीम्। अयोध्यां गच्छतो ह्येष पन्थाः परमदुर्गमः
एवमुक्तस्तु काकुत्स्थं प्रत्युवाच विभीषणः। अह्ना त्वां प्रापयिष्यामि तां पुरीं पार्थिवात्मज
पुष्पकं नाम भद्रं ते विमानं सूर्यसंनिभम्। मम भ्रातुः कुबेरस्य रावणेन बलीयसा
हृतं निर्जित्य संग्रामे कामगं दिव्यमुत्तमम्। त्वदर्थं पालितं चेदं तिष्ठत्यतुलविक्रम
तदिदं मेघसंकाशं विमानमिह तिष्ठति। येन यास्यसि यानेन त्वमयोध्यां गतज्वरः
अहं ते यद्यनुग्राह्यो यदि स्मरसि मे गुणान्। वस तावदिह प्राज्ञ यद्यस्ति मयि सौहृदम्
लक्ष्मणेन सह भ्रात्रा वैदेह्या भार्यया सह। अर्चितः सर्वकामैस्त्वं ततो राम गमिष्यसि
प्रीतियुक्तस्य विहितां ससैन्यः ससुहृद्गणः। सत्क्रियां राम मे तावद् गृहाण त्वं मयोद्यताम्
प्रणयाद् बहुमानाच्च सौहार्देन च राघव। प्रसादयामि प्रेष्योऽहं न खल्वाज्ञापयामि ते
एवमुक्तस्ततो रामः प्रत्युवाच विभीषणम्। रक्षसां वानराणां च सर्वेषामेव शृण्वताम्
पूजितोऽस्मि त्वया वीर साचिव्येन परेण च। सर्वात्मना च चेष्टाभिः सौहार्देन परेण च