निवृत्तवनवासोऽसि प्रतिज्ञा पूरिता त्वया। रावणं च रणे हत्वा देवताः परितोषिताः
कृतं कर्म यशः श्लाघ्यं प्राप्तं ते शत्रुसूदन। भ्रातृभिः सह राज्यस्थो दीर्घमायुरवाप्नुहि
इति ब्रुवाणं राजानं रामः प्राञ्जलिरब्रवीत्। कुरु प्रसादं धर्मज्ञ कैकय्या भरतस्य च
सपुत्रां त्वां त्यजामीति यदुक्ता कैकयी त्वया। स शापः कैकयीं घोरः सपुत्रां न स्पृशेत् प्रभो
तथेति स महाराजो राममुक्त्वा कृताञ्जलिम्। लक्ष्मणं च परिष्वज्य पुनर्वाक्यमुवाच ह
रामं शुश्रूषता भक्त्या वैदेह्या सह सीतया। कृता मम महाप्रीतिः प्राप्तं धर्मफलं च ते
धर्मं प्राप्स्यसि धर्मज्ञ यशश्च विपुलं भुवि। रामे प्रसन्ने स्वर्गं च महिमानं तथोत्तमम्
रामं शुश्रूष भद्रं ते सुमित्रानन्दवर्धन। रामः सर्वस्य लोकस्य हितेष्वभिरतः सदा
एते सेन्द्रास्त्रयो लोकाः सिद्धाश्च परमर्षयः। अभिवाद्य महात्मानमर्चन्ति पुरुषोत्तमम्
एतत् तदुक्तमव्यक्तमक्षरं ब्रह्मसम्मितम्। देवानां हृदयं सौम्य गुह्यं रामः परंतपः
अवाप्तधर्माचरणं यशश्च विपुलं त्वया। एवं शुश्रूषताव्यग्रं वैदेह्या सह सीतया
इत्युक्त्वा लक्ष्मणं राजा स्नुषां बद्धाञ्जलिं स्थिताम्। पुत्रीत्याभाष्य मधुरं शनैरेनामुवाच ह
कर्तव्यो न तु वैदेहि मन्युस्त्यागमिमं प्रति। रामेणेदं विशुद्ध्यर्थं कृतं वै त्वद्धितैषिणा
सुदुष्करमिदं पुत्रि तव चारित्रलक्षणम्। कृतं यत् तेऽन्यनारीणां यशो ह्यभिभविष्यति
न त्वं कामं समाधेया भर्तृशुश्रूषणं प्रति। अवश्यं तु मया वाच्यमेष ते दैवतं परम्
इति प्रतिसमादिश्य पुत्रौ सीतां च राघवः। इन्द्रलोकं विमानेन ययौ दशरथो नृपः
विमानमास्थाय महानुभावः श्रिया च संहृष्टतनुर्नृपोत्तमः। आमन्त्र्य पुत्रौ सह सीतया च जगाम देवप्रवरस्य लोकम्
thumb|विंशत्यधिकशततमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे विंशत्यधिकशततमः सर्गः ॥६-
प्रतिप्रयाते काकुत्स्थे महेन्द्रः पाकशासनः। अब्रवीत् परमप्रीतो राघवं प्राञ्जलिं स्थितम्
अमोघं दर्शनं राम तवास्माकं नरर्षभ। प्रीतियुक्ताः स्म तेन त्वं ब्रूहि यन्मनसेप्सितम्
एवमुक्तो महेन्द्रेण प्रसन्नेन महात्मना। सुप्रसन्नमना हृष्टो वचनं प्राह राघवः
यदि प्रीतिः समुत्पन्ना मयि ते विबुधेश्वर। वक्ष्यामि कुरु मे सत्यं वचनं वदतां वर
मम हेतोः पराक्रान्ता ये गता यमसादनम्। ते सर्वे जीवितं प्राप्य समुत्तिष्ठन्तु वानराः
मत्कृते विप्रयुक्ता ये पुत्रैर्दारैश्च वानराः। तान् प्रीतमनसः सर्वान् द्रष्टुमिच्छामि मानद
विक्रान्ताश्चापि शूराश्च न मृत्युं गणयन्ति च। कृतयत्ना विपन्नाश्च जीवयैतान् पुरंदर
मत्प्रियेष्वभिरक्ताश्च न मृत्युं गणयन्ति ये। त्वत्प्रसादात् समेयुस्ते वरमेतमहं वृणे
नीरुजो निर्व्रणांश्चैव सम्पन्नबलपौरुषान्। गोलाङ्गूलांस्तथर्क्षांश्च द्रष्टुमिच्छामि मानद
अकाले चापि पुष्पाणि मूलानि च फलानि च। नद्यश्च विमलास्तत्र तिष्ठेयुर्यत्र वानराः
श्रुत्वा तु वचनं तस्य राघवस्य महात्मनः। महेन्द्रः प्रत्युवाचेदं वचनं प्रीतिसंयुतम्
महानयं वरस्तात यस्त्वयोक्तो रघूत्तम। द्विर्मया नोक्तपूर्वं च तस्मादेतद् भविष्यति