इमामपि विशालाक्षीं रक्षितां स्वेन तेजसा। रावणो नातिवर्तेत वेलामिव महोदधिः
प्रत्ययार्थं तु लोकानां त्रयाणां सत्यसंश्रयः। उपेक्षे चापि वैदेहीं प्रविशन्तीं हुताशनम्
न हि शक्तः सुदुष्टात्मा मनसापि हि मैथिलीम्। प्रधर्षयितुमप्राप्यां दीप्तामग्निशिखामिव
नेयमर्हति वैक्लव्यं रावणान्तःपुरे सती। अनन्या हि मया सीता भास्करस्य प्रभा यथा
विशुद्धा त्रिषु लोकेषु मैथिली जनकात्मजा। न विहातुं मया शक्या कीर्तिरात्मवता यथा
अवश्यं च मया कार्यं सर्वेषां वो वचो हितम्। स्निग्धानां लोकनाथानामेवं च वदतां हितम्
इत्येवमुक्त्वा विजयी महाबलः प्रशस्यमानः स्वकृतेन कर्मणा। समेत्य रामः प्रियया महायशाः सुखं सुखार्होऽनुबभूव राघवः
thumb|एकोनविंशत्यधिकशततमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे एकोनविंशत्यधिकशततमः सर्गः ॥६-
एतच्छ्रुत्वा शुभं वाक्यं राघवेणानुभाषितम्। ततः शुभतरं वाक्यं व्याजहार महेश्वरः
पुष्कराक्ष महाबाहो महावक्षः परंतप। दिष्ट्या कृतमिदं कर्म त्वया धर्मभृतां वर
दिष्ट्या सर्वस्य लोकस्य प्रवृद्धं दारुणं तमः। अपवृत्तं त्वया संख्ये राम रावणजं भयम्
आश्वास्य भरतं दीनं कौसल्यां च यशस्विनीम्। कैकेयीं च सुमित्रां च दृष्ट्वा लक्ष्मणमातरम्
प्राप्य राज्यमयोध्यायां नन्दयित्वा सुहृज्जनम्। इक्ष्वाकूणां कुले वंशं स्थापयित्वा महाबल
इष्ट्वा तुरगमेधेन प्राप्य चानुत्तमं यशः। ब्राह्मणेभ्यो धनं दत्त्वा त्रिदिवं गन्तुमर्हसि
एष राजा दशरथो विमानस्थः पिता तव। काकुत्स्थ मानुषे लोके गुरुस्तव महायशाः
इन्द्रलोकं गतः श्रीमांस्त्वया पुत्रेण तारितः। लक्ष्मणेन सह भ्रात्रा त्वमेनमभिवादय
महादेववचः श्रुत्वा राघवः सहलक्ष्मणः। विमानशिखरस्थस्य प्रणाममकरोत् पितुः
दीप्यमानं स्वया लक्ष्म्या विरजोऽम्बरधारिणम्। लक्ष्मणेन सह भ्रात्रा ददर्श पितरं प्रभुः
हर्षेण महताऽऽविष्टो विमानस्थो महीपतिः। प्राणैः प्रियतरं दृष्ट्वा पुत्रं दशरथस्तदा
आरोप्याङ्के महाबाहुर्वरासनगतः प्रभुः। बाहुभ्यां सम्परिष्वज्य ततो वाक्यं समाददे
न मे स्वर्गो बहु मतः सम्मानश्च सुरर्षभैः। त्वया राम विहीनस्य सत्यं प्रतिशृणोमि ते
अद्य त्वां निहतामित्रं दृष्ट्वा सम्पूर्णमानसम्। निस्तीर्णवनवासं च प्रीतिरासीत् परा मम
कैकेय्या यानि चोक्तानि वाक्यानि वदतां वर। तव प्रव्राजनार्थानि स्थितानि हृदये मम
त्वां तु दृष्ट्वा कुशलिनं परिष्वज्य सलक्ष्मणम्। अद्य दुःखाद् विमुक्तोऽस्मि नीहारादिव भास्करः
तारितोऽहं त्वया पुत्र सुपुत्रेण महात्मना। अष्टावक्रेण धर्मात्मा कहोलो ब्राह्मणो यथा
इदानीं च विजानामि यथा सौम्य सुरेश्वरैः। वधार्थं रावणस्येह विहितं पुरुषोत्तमम्
सिद्धार्था खलु कौसल्या या त्वां राम गृहं गतम्। वनान्निवृत्तं संहृष्टा द्रक्ष्यते शत्रुसूदनम्
सिद्धार्थाः खलु ते राम नरा ये त्वां पुरीं गतम्। राज्ये चैवाभिषिक्तं च द्रक्ष्यन्ते वसुधाधिपम्
अनुरक्तेन बलिना शुचिना धर्मचारिणा। इच्छेयं त्वामहं द्रष्टुं भरतेन समागतम्
चतुर्दश समाः सौम्य वने निर्यातितास्त्वया। वसता सीतया सार्धं मत्प्रीत्या लक्ष्मणेन च