प्रभवं निधनं वा ते नो विदुः को भवानिति । दृश्यसे सर्वभूतेषु ब्राह्मणेषु च गोषु च । दिक्षु सर्वासु गगने पर्वतेषु वनेषु च
सहस्रचरणः श्रीमान् शतशीर्षः सहस्रदृक् । त्वं धारयसि भूतानि पृथिवीं च सपर्वताम्
अन्ते पृथिव्याः सलिले दृश्यसे त्वं महोरगः । त्रीन् लोकान् धारयन् राम देवगन्धर्वदानवान्
अहं ते हृदयं राम जिह्वा देवी सरस्वती । देवा गात्रेषु रोमाणि ब्रह्मणा निर्मिताः प्रभो
निमेषस्ते स्मृता रात्रिः उन्मेषस्ते भवेद्दिवा । संस्कारास्तेऽभवन् वेदा न तदस्ति त्वया विना ॥
जगत् सर्वं शरीरं ते स्थैर्यं ते वसुधातलम् । अग्निः कोपः प्रसादस्ते सोमः श्रीवत्सलक्षणः
त्वया लोकास्त्रयः क्रान्ताः पुरा स्वैर्विक्रमैस्त्रिभिः । महेन्द्रश्च कृतो राजा बलिं बद्ध्वा सुदारुणम्
यत् परं श्रूयते ज्योतिर्यत् परं श्रूयते तमः । यत् परं परतश्चैव परमात्मेति कथ्यसे
परमाख्यं पर यच्च त्वमेव परिगीयसे । स्थित्युत्पत्ति विनाशानां त्वामाहुः परमां गतिं
सीता लक्ष्मीर्भवान् विष्णुः देवः कृष्णः प्रजापतिः । वधार्थं रावणस्येह प्रविष्टो मानुषीं तनुम्
तदिदं नः कृतं कार्यम् त्वया धर्मभृतां वर । निहतो रावणो राम प्रहृष्टो दिवमाक्रम
अमोघं बलवीर्यं ते अमोघस्ते पराक्रमः । अमोघं दर्शनं राम अमोघस्तव संस्तवः ॥
अमोघास्ते भविष्यन्ति भक्तिमन्तो नरा भुवि । ये त्वां देवम् ध्रुवं भक्ताः पुराणं पुरुषोत्तमम् ॥
प्राप्नुवन्ति सदा कामान् इह लोके परत्र च । इममार्षं स्तवं नित्यम् इतिहासं पुरातनम् । ये नराः कीर्तयिष्यन्ति नास्ति तेषां पराभवः
thumb|अष्टादशाधिकशततमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे अष्टादशाधिकशततमः सर्गः ॥६-
एतच्छ्रुत्वा शुभं वाक्यं पितामहसमीरितम्। अङ्केनादाय वैदेहीमुत्पपात विभावसुः
विधूयाथ चितां तां तु वैदेहीं हव्यवाहनः। उत्तस्थौ मूर्तिमानाशु गृहीत्वा जनकात्मजाम्
तरुणादित्यसंकाशां तप्तकाञ्चनभूषणाम्। रक्ताम्बरधरां बालां नीलकुञ्चितमूर्धजाम्
अक्लिष्टमाल्याभरणां तथारूपामनिन्दिताम्। ददौ रामाय वैदेहीमङ्के कृत्वा विभावसुः
अब्रवीत् तु तदा रामं साक्षी लोकस्य पावकः। एषा ते राम वैदेही पापमस्यां न विद्यते
नैव वाचा न मनसा नैव बुद्ध्या न चक्षुषा। सुवृत्ता वृत्तशौटीर्यं न त्वामत्यचरच्छुभा
रावणेनापनीतैषा वीर्योत्सिक्तेन रक्षसा। त्वया विरहिता दीना विवशा निर्जने सती
रुद्धा चान्तःपुरे गुप्ता त्वच्चित्ता त्वत्परायणा। रक्षिता राक्षसीभिश्च घोराभिर्घोरबुद्धिभिः
प्रलोभ्यमाना विविधं तर्ज्यमाना च मैथिली। नाचिन्तयत तद्रक्षस्त्वद्गतेनान्तरात्मना
विशुद्धभावां निष्पापां प्रतिगृह्णीष्व मैथिलीम्। न किंचिदभिधातव्या अहमाज्ञापयामि ते
ततः प्रीतमना रामः श्रुत्वैवं वदतां वरः। दध्यौ मुहूर्तं धर्मात्मा हर्षव्याकुललोचनः
एवमुक्तो महातेजा धृतिमानुरुविक्रमः। उवाच त्रिदशश्रेष्ठं रामो धर्मभृतां वरः
अवश्यं चापि लोकेषु सीता पावनमर्हति। दीर्घकालोषिता हीयं रावणान्तःपुरे शुभा
बालिशो बत कामात्मा रामो दशरथात्मजः। इति वक्ष्यति मां लोको जानकीमविशोध्य हि
अनन्यहृदयां सीतां मच्चित्तपरिरक्षिणीम्। अहमप्यवगच्छामि मैथिलीं जनकात्मजाम्