इत्युक्तो लोकपालैस्तैः स्वामी लोकस्य राघवः । अब्रवीत्रिदशश्रेष्ठान् रामो धर्मभृतां वरः
आत्मानं मानुषं मन्ये रामं दशरथात्मजम् । योऽहं यस्य यतश्चाहम् भगवांस्तद् ब्रवीतु मे
इति ब्रुवन्तं काकुत्स्थम् ब्रह्मा ब्रह्मविदां वरः । अब्रवीच्छृणु मे राम सत्यं सत्यपराक्रम
भवान् नारायणो देवः श्रीमांश्चक्रायुधः प्रभुः। एकशृङ्गो वराहस्त्वम् भूतभव्यसपत्नजित्
अक्षरं ब्रह्म सत्यं च मध्ये चान्ते च राघव । लोकानां त्वं परो धर्मो विष्वक्सेनश्चतुर्भुजः
शार्ङ्गधन्वा हृषीकेशः पुरुषः पुरुषोत्तमः । अजितः खड्गधृद्विष्णुः कृष्णश्चैव बृहद्बलः
सेनानीर्ग्रामणीश्च त्वम् बुद्धिः सत्त्वं क्षमा दमः । प्रभवश्चाप्ययश्च त्वम् उपेन्द्रो मधुसूदनः
इन्द्रकर्मा महेन्द्रस्त्वम् पद्मनाभो रणान्तकृत् । शरण्यं शरणं च त्वाम् आहुर्दिव्या महर्षयः
सहस्रशृङ्गो वेदात्मा शतशीर्षो महर्षभः । त्वं त्रयाणां हि लोकानाम् आदिकर्ता स्वयम्प्रभुः
सिद्धानामपि साध्यानाम् आश्रयश्चासि पूर्वजः । त्वं यज्ञस्त्वं वषट्कारः त्वमोङ्कारः परात्परः
प्रभवं निधनं वा ते नो विदुः को भवानिति । दृश्यसे सर्वभूतेषु ब्राह्मणेषु च गोषु च । दिक्षु सर्वासु गगने पर्वतेषु वनेषु च
सहस्रचरणः श्रीमान् शतशीर्षः सहस्रदृक् । त्वं धारयसि भूतानि पृथिवीं च सपर्वताम्
अन्ते पृथिव्याः सलिले दृश्यसे त्वं महोरगः । त्रीन् लोकान् धारयन् राम देवगन्धर्वदानवान्
अहं ते हृदयं राम जिह्वा देवी सरस्वती । देवा गात्रेषु रोमाणि ब्रह्मणा निर्मिताः प्रभो
निमेषस्ते स्मृता रात्रिः उन्मेषस्ते भवेद्दिवा । संस्कारास्तेऽभवन् वेदा न तदस्ति त्वया विना ॥
जगत् सर्वं शरीरं ते स्थैर्यं ते वसुधातलम् । अग्निः कोपः प्रसादस्ते सोमः श्रीवत्सलक्षणः
त्वया लोकास्त्रयः क्रान्ताः पुरा स्वैर्विक्रमैस्त्रिभिः । महेन्द्रश्च कृतो राजा बलिं बद्ध्वा सुदारुणम्
यत् परं श्रूयते ज्योतिर्यत् परं श्रूयते तमः । यत् परं परतश्चैव परमात्मेति कथ्यसे
परमाख्यं पर यच्च त्वमेव परिगीयसे । स्थित्युत्पत्ति विनाशानां त्वामाहुः परमां गतिं
सीता लक्ष्मीर्भवान् विष्णुः देवः कृष्णः प्रजापतिः । वधार्थं रावणस्येह प्रविष्टो मानुषीं तनुम्
तदिदं नः कृतं कार्यम् त्वया धर्मभृतां वर । निहतो रावणो राम प्रहृष्टो दिवमाक्रम
अमोघं बलवीर्यं ते अमोघस्ते पराक्रमः । अमोघं दर्शनं राम अमोघस्तव संस्तवः ॥
अमोघास्ते भविष्यन्ति भक्तिमन्तो नरा भुवि । ये त्वां देवम् ध्रुवं भक्ताः पुराणं पुरुषोत्तमम् ॥
प्राप्नुवन्ति सदा कामान् इह लोके परत्र च । इममार्षं स्तवं नित्यम् इतिहासं पुरातनम् । ये नराः कीर्तयिष्यन्ति नास्ति तेषां पराभवः
thumb|अष्टादशाधिकशततमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे अष्टादशाधिकशततमः सर्गः ॥६-
एतच्छ्रुत्वा शुभं वाक्यं पितामहसमीरितम्। अङ्केनादाय वैदेहीमुत्पपात विभावसुः
विधूयाथ चितां तां तु वैदेहीं हव्यवाहनः। उत्तस्थौ मूर्तिमानाशु गृहीत्वा जनकात्मजाम्
तरुणादित्यसंकाशां तप्तकाञ्चनभूषणाम्। रक्ताम्बरधरां बालां नीलकुञ्चितमूर्धजाम्
अक्लिष्टमाल्याभरणां तथारूपामनिन्दिताम्। ददौ रामाय वैदेहीमङ्के कृत्वा विभावसुः
अब्रवीत् तु तदा रामं साक्षी लोकस्य पावकः। एषा ते राम वैदेही पापमस्यां न विद्यते