thumb|सप्तदशाधिकशततमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे सप्तदशाधिकशततमः सर्गः ॥६-
ततो हि दुर्मना रामः श्रुत्वैवं वदतां गिरः । दध्यौ मुहूर्तं धर्मात्मा बाष्पव्याकुललोचनः
ततो वैश्रवणो राजा यमश्च पितृभिः सह । सहस्राक्षश्च देवेशो वरुणश्च जलेश्वरः
षडर्धनयनः श्रीमान्महादेवो वृषध्वजः । कर्ता सर्वस्य लोकस्य ब्रह्मा ब्रह्मविदां वरः
एते सर्वे समागम्य विमानैः सूर्यसन्निभैः । आगम्य नगरीं लङ्काम् अभिजग्मुश्च राघवम्
ततः सहस्ताभरणान् प्रगृह्य विपुलान् भुजान् । अब्रुवंस्त्रिदशश्रैष्ठाः प्राञ्जलिं राघवं स्थितम्
कर्ता सर्वस्य लोकस्य श्रेष्ठो ज्ञानविदां विभुः । उपेक्षसे कथं सीताम् पतन्तीं हव्यवाहने
कथं देवगणश्रेष्ठम् आत्मानं नावबुध्यसे । ऋतधामा वसुः पूर्वम् वसूनां त्वं प्रजापतिः
त्रयाणां त्वं हि लोकानाम् आदिकर्ता स्वयंप्रभु: । रुद्राणामष्टमो रुद्रः साध्यानामसि पञ्चमः । अश्विनौ चापि ते कर्णौ चन्द्रसूर्यौ च चक्षुषी
अन्ते चादौ च लोकानाम् दृश्यसे त्वं परन्तप । उपेक्षसे च वैदेहीम् मानुषः प्राकृतो यथा
इत्युक्तो लोकपालैस्तैः स्वामी लोकस्य राघवः । अब्रवीत्रिदशश्रेष्ठान् रामो धर्मभृतां वरः
आत्मानं मानुषं मन्ये रामं दशरथात्मजम् । योऽहं यस्य यतश्चाहम् भगवांस्तद् ब्रवीतु मे
इति ब्रुवन्तं काकुत्स्थम् ब्रह्मा ब्रह्मविदां वरः । अब्रवीच्छृणु मे राम सत्यं सत्यपराक्रम
भवान् नारायणो देवः श्रीमांश्चक्रायुधः प्रभुः। एकशृङ्गो वराहस्त्वम् भूतभव्यसपत्नजित्
अक्षरं ब्रह्म सत्यं च मध्ये चान्ते च राघव । लोकानां त्वं परो धर्मो विष्वक्सेनश्चतुर्भुजः
शार्ङ्गधन्वा हृषीकेशः पुरुषः पुरुषोत्तमः । अजितः खड्गधृद्विष्णुः कृष्णश्चैव बृहद्बलः
सेनानीर्ग्रामणीश्च त्वम् बुद्धिः सत्त्वं क्षमा दमः । प्रभवश्चाप्ययश्च त्वम् उपेन्द्रो मधुसूदनः
इन्द्रकर्मा महेन्द्रस्त्वम् पद्मनाभो रणान्तकृत् । शरण्यं शरणं च त्वाम् आहुर्दिव्या महर्षयः
सहस्रशृङ्गो वेदात्मा शतशीर्षो महर्षभः । त्वं त्रयाणां हि लोकानाम् आदिकर्ता स्वयम्प्रभुः
सिद्धानामपि साध्यानाम् आश्रयश्चासि पूर्वजः । त्वं यज्ञस्त्वं वषट्कारः त्वमोङ्कारः परात्परः
प्रभवं निधनं वा ते नो विदुः को भवानिति । दृश्यसे सर्वभूतेषु ब्राह्मणेषु च गोषु च । दिक्षु सर्वासु गगने पर्वतेषु वनेषु च
सहस्रचरणः श्रीमान् शतशीर्षः सहस्रदृक् । त्वं धारयसि भूतानि पृथिवीं च सपर्वताम्
अन्ते पृथिव्याः सलिले दृश्यसे त्वं महोरगः । त्रीन् लोकान् धारयन् राम देवगन्धर्वदानवान्
अहं ते हृदयं राम जिह्वा देवी सरस्वती । देवा गात्रेषु रोमाणि ब्रह्मणा निर्मिताः प्रभो
निमेषस्ते स्मृता रात्रिः उन्मेषस्ते भवेद्दिवा । संस्कारास्तेऽभवन् वेदा न तदस्ति त्वया विना ॥
जगत् सर्वं शरीरं ते स्थैर्यं ते वसुधातलम् । अग्निः कोपः प्रसादस्ते सोमः श्रीवत्सलक्षणः
त्वया लोकास्त्रयः क्रान्ताः पुरा स्वैर्विक्रमैस्त्रिभिः । महेन्द्रश्च कृतो राजा बलिं बद्ध्वा सुदारुणम्
यत् परं श्रूयते ज्योतिर्यत् परं श्रूयते तमः । यत् परं परतश्चैव परमात्मेति कथ्यसे
परमाख्यं पर यच्च त्वमेव परिगीयसे । स्थित्युत्पत्ति विनाशानां त्वामाहुः परमां गतिं
सीता लक्ष्मीर्भवान् विष्णुः देवः कृष्णः प्रजापतिः । वधार्थं रावणस्येह प्रविष्टो मानुषीं तनुम्