पृथक्स्त्रीणां प्रचारेण जातिं त्वं परिशङ्कसे। परित्यजैनां शङ्कां तु यदि तेऽहं परीक्षिता
यदहं गात्रसंस्पर्शं गतास्मि विवशा प्रभो। कामकारो न मे तत्र दैवं तत्रापराध्यति
मदधीनं तु यत् तन्मे हृदयं त्वयि वर्तते। पराधीनेषु गात्रेषु किं करिष्याम्यनीश्वरी
सह संवृद्धभावेन संसर्गेण च मानद। यदि तेऽहं न विज्ञाता हता तेनास्मि शाश्वतम्
प्रेषितस्ते महावीरो हनुमानवलोककः। लङ्कास्थाहं त्वया राजन् किं तदा न विसर्जिता
प्रत्यक्षं वानरस्यास्य तद्वाक्यसमनन्तरम्। त्वया संत्यक्तया वीर त्यक्तं स्याज्जीवितं मया
न वृथा ते श्रमोऽयं स्यात् संशये न्यस्य जीवितम्। सुहृज्जनपरिक्लेशो न चायं विफलस्तव
त्वया तु नृपशार्दूल रोषमेवानुवर्तता। लघुनेव मनुष्येण स्त्रीत्वमेव पुरस्कृतम्
अपदेशेन जनकान्नोत्पत्तिर्वसुधातलात्। मम वृत्तं च वृत्तज्ञ बहु ते न पुरस्कृतम्
न प्रमाणीकृतः पाणिर्बाल्ये मम निपीडितः। मम भक्तिश्च शीलं च सर्वं ते पृष्ठतः कृतम्
इति ब्रुवन्ती रुदती बाष्पगद्गदभाषिणी। उवाच लक्ष्मणं सीता दीनं ध्यानपरायणम्
चितां मे कुरु सौमित्रे व्यसनस्यास्य भेषजम्। मिथ्यापवादोपहता नाहं जीवितुमुत्सहे
अप्रीतेन गुणैर्भर्त्रा त्यक्ताया जनसंसदि। या क्षमा मे गतिर्गन्तुं प्रवेक्ष्ये हव्यवाहनम्
एवमुक्तस्तु वैदेह्या लक्ष्मणः परवीरहा। अमर्षवशमापन्नो राघवं समुदैक्षत
स विज्ञाय मनश्छन्दं रामस्याकारसूचितम्। चितां चकार सौमित्रिर्मते रामस्य वीर्यवान्
नहि रामं तदा कश्चित् कालान्तकयमोपमम्। अनुनेतुमथो वक्तुं द्रष्टुं वाप्यशकत् सुहृत्
अधोमुखं स्थितं रामं ततः कृत्वा प्रदक्षिणम्। उपावर्तत वैदेही दीप्यमानं हुताशनम्
प्रणम्य दैवतेभ्यश्च ब्राह्मणेभ्यश्च मैथिली। बद्धाञ्जलिपुटा चेदमुवाचाग्निसमीपतः
यथा मे हृदयं नित्यं नापसर्पति राघवात्। तथा लोकस्य साक्षी मां सर्वतः पातु पावकः
यथा मां शुद्धचारित्रां दुष्टां जानाति राघवः। तथा लोकस्य साक्षी मां सर्वतः पातु पावकः
कर्मणा मनसा वाचा यथा नातिचराम्यहम्। राघवं सर्वधर्मज्ञं तथा मां पातु पावकः
आदित्यो भगवान् वायुर्दिशश्चन्द्रस्तथैव च। अहश्चापि तथा संध्ये रात्रिश्च पृथिवी तथा। यथान्येऽपि विजानन्ति तथा चारित्रसंयुताम्
एवमुक्त्वा तु वैदेही परिक्रम्य हुताशनम्। विवेश ज्वलनं दीप्तं निःशङ्केनान्तरात्मना
जनश्च सुमहांस्तत्र बालवृद्धसमाकुलः। ददर्श मैथिलीं दीप्तां प्रविशन्तीं हुताशनम्
सा तप्तनवहेमाभा तप्तकाञ्चनभूषणा। पपात ज्वलनं दीप्तं सर्वलोकस्य संनिधौ
ददृशुस्तां विशालाक्षीं पतन्तीं हव्यवाहनम्। सीतां सर्वाणि रूपाणि रुक्मवेदिनिभां तदा
ददृशुस्तां महाभागां प्रविशन्तीं हुताशनम्। ऋषयो देवगन्धर्वा यज्ञे पूर्णाहुतीमिव
प्रचुक्रुशुः स्त्रियः सर्वास्तां दृष्ट्वा हव्यवाहने। पतन्तीं संस्कृतां मन्त्रैर्वसोर्धारामिवाध्वरे
ददृशुस्तां त्रयो लोका देवगन्धर्वदानवाः। शप्तां पतन्तीं निरये त्रिदिवाद् देवतामिव
तस्यामग्निं विशन्त्यां तु हाहेति विपुलः स्वनः। रक्षसां वानराणां च सम्बभूवाद्भुतोपमः