तद् गच्छ त्वानुजानेऽद्य यथेष्टं जनकात्मजे। एता दश दिशो भद्रे कार्यमस्ति न मे त्वया
कः पुमांस्तु कुले जातः स्त्रियं परगृहोषिताम्। तेजस्वी पुनरादद्यात् सुहृल्लोभेन चेतसा
रावणाङ्कपरिक्लिष्टां दृष्टां दुष्टेन चक्षुषा। कथं त्वां पुनरादद्यां कुलं व्यपदिशन्महत्
यदर्थं निर्जिता मे त्वं सोऽयमासादितो मया। नास्ति मे त्वय्यभिष्वङ्गो यथेष्टं गम्यतामिति
तदद्य व्याहृतं भद्रे मयैतत् कृतबुद्धिना। लक्ष्मणे वाथ भरते कुरु बुद्धिं यथासुखम्
शत्रुघ्ने वाथ सुग्रीवे राक्षसे वा विभीषणे। निवेशय मनः सीते यथा वा सुखमात्मना
नहि त्वां रावणो दृष्ट्वा दिव्यरूपां मनोरमाम्। मर्षयेत चिरं सीते स्वगृहे पर्यवस्थिताम्
ततः प्रियार्हश्रवणा तदप्रियं प्रियादुपश्रुत्य चिरस्य मानिनी। मुमोच बाष्पं रुदती तदा भृशं गजेन्द्रहस्ताभिहतेव वल्लरी
thumb|षोडशाधिकशततमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे षोडशाधिकशततमः सर्गः ॥६-
एवमुक्ता तु वैदेही परुषं रोमहर्षणम्। राघवेण सरोषेण श्रुत्वा प्रव्यथिताभवत्
सा तदाश्रुतपूर्वं हि जने महति मैथिली। श्रुत्वा भर्तुर्वचो घोरं लज्जयावनताभवत्
प्रविशन्तीव गात्राणि स्वानि सा जनकात्मजा। वाक्शरैस्तैः सशल्येव भृशमश्रूण्यवर्तयत्
ततो बाष्पपरिक्लिन्नं प्रमार्जन्ती स्वमाननम्। शनैर्गद्गदया वाचा भर्तारमिदमब्रवीत्
किं मामसदृशं वाक्यमीदृशं श्रोत्रदारुणम्। रूक्षं श्रावयसे वीर प्राकृतः प्राकृतामिव
न तथास्मि महाबाहो यथा मामवगच्छसि। प्रत्ययं गच्छ मे स्वेन चारित्रेणैव ते शपे
पृथक्स्त्रीणां प्रचारेण जातिं त्वं परिशङ्कसे। परित्यजैनां शङ्कां तु यदि तेऽहं परीक्षिता
यदहं गात्रसंस्पर्शं गतास्मि विवशा प्रभो। कामकारो न मे तत्र दैवं तत्रापराध्यति
मदधीनं तु यत् तन्मे हृदयं त्वयि वर्तते। पराधीनेषु गात्रेषु किं करिष्याम्यनीश्वरी
सह संवृद्धभावेन संसर्गेण च मानद। यदि तेऽहं न विज्ञाता हता तेनास्मि शाश्वतम्
प्रेषितस्ते महावीरो हनुमानवलोककः। लङ्कास्थाहं त्वया राजन् किं तदा न विसर्जिता
प्रत्यक्षं वानरस्यास्य तद्वाक्यसमनन्तरम्। त्वया संत्यक्तया वीर त्यक्तं स्याज्जीवितं मया
न वृथा ते श्रमोऽयं स्यात् संशये न्यस्य जीवितम्। सुहृज्जनपरिक्लेशो न चायं विफलस्तव
त्वया तु नृपशार्दूल रोषमेवानुवर्तता। लघुनेव मनुष्येण स्त्रीत्वमेव पुरस्कृतम्
अपदेशेन जनकान्नोत्पत्तिर्वसुधातलात्। मम वृत्तं च वृत्तज्ञ बहु ते न पुरस्कृतम्
न प्रमाणीकृतः पाणिर्बाल्ये मम निपीडितः। मम भक्तिश्च शीलं च सर्वं ते पृष्ठतः कृतम्
इति ब्रुवन्ती रुदती बाष्पगद्गदभाषिणी। उवाच लक्ष्मणं सीता दीनं ध्यानपरायणम्
चितां मे कुरु सौमित्रे व्यसनस्यास्य भेषजम्। मिथ्यापवादोपहता नाहं जीवितुमुत्सहे
अप्रीतेन गुणैर्भर्त्रा त्यक्ताया जनसंसदि। या क्षमा मे गतिर्गन्तुं प्रवेक्ष्ये हव्यवाहनम्
एवमुक्तस्तु वैदेह्या लक्ष्मणः परवीरहा। अमर्षवशमापन्नो राघवं समुदैक्षत
स विज्ञाय मनश्छन्दं रामस्याकारसूचितम्। चितां चकार सौमित्रिर्मते रामस्य वीर्यवान्