युद्धे विक्रमतश्चैव हितं मन्त्रयतस्तथा। सुग्रीवस्य ससैन्यस्य सफलोऽद्य परिश्रमः
विभीषणस्य च तथा सफलोऽद्य परिश्रमः। विगुणं भ्रातरं त्यक्त्वा यो मां स्वयमुपस्थितः
इत्येवं वदतः श्रुत्वा सीता रामस्य तद् वचः। मृगीवोत्फुल्लनयना बभूवाश्रुपरिप्लुता
पश्यतस्तां तु रामस्य समीपे हृदयप्रियाम्। जनवादभयाद् राज्ञो बभूव हृदयं द्विधा
सीतामुत्पलपत्राक्षीं नीलकुञ्चितमूर्धजाम्। अवदद् वै वरारोहां मध्ये वानररक्षसाम्
यत् कर्तव्यं मनुष्येण धर्षणां प्रतिमार्जता। तत् कृतं रावणं हत्वा मयेदं मानकांक्षिणा
निर्जिता जीवलोकस्य तपसा भावितात्मना। अगस्त्येन दुराधर्षा मुनिना दक्षिणेव दिक्
विदितश्चास्तु भद्रं ते योऽयं रणपरिश्रमः। सुतीर्णः सुहृदां वीर्यान्न त्वदर्थं मया कृतः
रक्षता तु मया वृत्तमपवादं च सर्वतः। प्रख्यातस्यात्मवंशस्य न्यङ्गं च परिमार्जता
प्राप्तचारित्रसंदेहा मम प्रतिमुखे स्थिता। दीपो नेत्रातुरस्येव प्रतिकूलासि मे दृढा
तद् गच्छ त्वानुजानेऽद्य यथेष्टं जनकात्मजे। एता दश दिशो भद्रे कार्यमस्ति न मे त्वया
कः पुमांस्तु कुले जातः स्त्रियं परगृहोषिताम्। तेजस्वी पुनरादद्यात् सुहृल्लोभेन चेतसा
रावणाङ्कपरिक्लिष्टां दृष्टां दुष्टेन चक्षुषा। कथं त्वां पुनरादद्यां कुलं व्यपदिशन्महत्
यदर्थं निर्जिता मे त्वं सोऽयमासादितो मया। नास्ति मे त्वय्यभिष्वङ्गो यथेष्टं गम्यतामिति
तदद्य व्याहृतं भद्रे मयैतत् कृतबुद्धिना। लक्ष्मणे वाथ भरते कुरु बुद्धिं यथासुखम्
शत्रुघ्ने वाथ सुग्रीवे राक्षसे वा विभीषणे। निवेशय मनः सीते यथा वा सुखमात्मना
नहि त्वां रावणो दृष्ट्वा दिव्यरूपां मनोरमाम्। मर्षयेत चिरं सीते स्वगृहे पर्यवस्थिताम्
ततः प्रियार्हश्रवणा तदप्रियं प्रियादुपश्रुत्य चिरस्य मानिनी। मुमोच बाष्पं रुदती तदा भृशं गजेन्द्रहस्ताभिहतेव वल्लरी
thumb|षोडशाधिकशततमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे षोडशाधिकशततमः सर्गः ॥६-
एवमुक्ता तु वैदेही परुषं रोमहर्षणम्। राघवेण सरोषेण श्रुत्वा प्रव्यथिताभवत्
सा तदाश्रुतपूर्वं हि जने महति मैथिली। श्रुत्वा भर्तुर्वचो घोरं लज्जयावनताभवत्
प्रविशन्तीव गात्राणि स्वानि सा जनकात्मजा। वाक्शरैस्तैः सशल्येव भृशमश्रूण्यवर्तयत्
ततो बाष्पपरिक्लिन्नं प्रमार्जन्ती स्वमाननम्। शनैर्गद्गदया वाचा भर्तारमिदमब्रवीत्
किं मामसदृशं वाक्यमीदृशं श्रोत्रदारुणम्। रूक्षं श्रावयसे वीर प्राकृतः प्राकृतामिव
न तथास्मि महाबाहो यथा मामवगच्छसि। प्रत्ययं गच्छ मे स्वेन चारित्रेणैव ते शपे
पृथक्स्त्रीणां प्रचारेण जातिं त्वं परिशङ्कसे। परित्यजैनां शङ्कां तु यदि तेऽहं परीक्षिता
यदहं गात्रसंस्पर्शं गतास्मि विवशा प्रभो। कामकारो न मे तत्र दैवं तत्रापराध्यति
मदधीनं तु यत् तन्मे हृदयं त्वयि वर्तते। पराधीनेषु गात्रेषु किं करिष्याम्यनीश्वरी
सह संवृद्धभावेन संसर्गेण च मानद। यदि तेऽहं न विज्ञाता हता तेनास्मि शाश्वतम्
प्रेषितस्ते महावीरो हनुमानवलोककः। लङ्कास्थाहं त्वया राजन् किं तदा न विसर्जिता