विसृज्य शिबिकां तस्मात् पद्भ्यामेवापसर्पतु। समीपे मम वैदेहीं पश्यन्त्वेते वनौकसः
एवमुक्तस्तु रामेण सविमर्शो विभीषणः। रामस्योपानयत् सीतां संनिकर्षं विनीतवत्
ततो लक्ष्मणसुग्रीवौ हनूमांश्च प्लवङ्गमः। निशम्य वाक्यं रामस्य बभूवुर्व्यथिता भृशम्
कलत्रनिरपेक्षैश्च इङ्गितैरस्य दारुणैः। अप्रीतमिव सीतायां तर्कयन्ति स्म राघवम्
लज्जया त्ववलीयन्ती स्वेषु गात्रेषु मैथिली। विभीषणेनानुगता भर्तारं साभ्यवर्तत
विस्मयाच्च प्रहर्षाच्च स्नेहाच्च पतिदेवता। उदैक्षत मुखं भर्तुः सौम्यं सौम्यतरानना
अथ समपनुदन्मनःक्लमं सा सुचिरमदृष्टमुदीक्ष्य वै प्रियस्य। वदनमुदितपूर्णचन्द्रकान्तं विमलशशाङ्कनिभानना तदाऽऽसीत्
thumb|पञ्चदशाधिकशततमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे पञ्चदशाधिकशततमः सर्गः ॥६-
तां तु पार्श्वे स्थितां प्रह्वां रामः सम्प्रेक्ष्य मैथिलीम्। हृदयान्तर्गतं भावं व्याहर्तुमुपचक्रमे
एषासि निर्जिता भद्रे शत्रुं जित्वा रणाजिरे। पौरुषाद् यदनुष्ठेयं मयैतदुपपादितम्
गतोऽस्म्यन्तममर्षस्य धर्षणा सम्प्रमार्जिता। अवमानश्च शत्रुश्च युगपन्निहतौ मया
अद्य मे पौरुषं दृष्टमद्य मे सफलः श्रमः। अद्य तीर्णप्रतिज्ञोऽहं प्रभवाम्यद्य चात्मनः
या त्वं विरहिता नीता चलचित्तेन रक्षसा। दैवसम्पादितो दोषो मानुषेण मया जितः
सम्प्राप्तमवमानं यस्तेजसा न प्रमार्जति। कस्तस्य पौरुषेणार्थो महताप्यल्पचेतसः
लङ्घनं च समुद्रस्य लङ्कायाश्चापि मर्दनम्। सफलं तस्य च श्लाघ्यमद्य कर्म हनूमतः
युद्धे विक्रमतश्चैव हितं मन्त्रयतस्तथा। सुग्रीवस्य ससैन्यस्य सफलोऽद्य परिश्रमः
विभीषणस्य च तथा सफलोऽद्य परिश्रमः। विगुणं भ्रातरं त्यक्त्वा यो मां स्वयमुपस्थितः
इत्येवं वदतः श्रुत्वा सीता रामस्य तद् वचः। मृगीवोत्फुल्लनयना बभूवाश्रुपरिप्लुता
पश्यतस्तां तु रामस्य समीपे हृदयप्रियाम्। जनवादभयाद् राज्ञो बभूव हृदयं द्विधा
सीतामुत्पलपत्राक्षीं नीलकुञ्चितमूर्धजाम्। अवदद् वै वरारोहां मध्ये वानररक्षसाम्
यत् कर्तव्यं मनुष्येण धर्षणां प्रतिमार्जता। तत् कृतं रावणं हत्वा मयेदं मानकांक्षिणा
निर्जिता जीवलोकस्य तपसा भावितात्मना। अगस्त्येन दुराधर्षा मुनिना दक्षिणेव दिक्
विदितश्चास्तु भद्रं ते योऽयं रणपरिश्रमः। सुतीर्णः सुहृदां वीर्यान्न त्वदर्थं मया कृतः
रक्षता तु मया वृत्तमपवादं च सर्वतः। प्रख्यातस्यात्मवंशस्य न्यङ्गं च परिमार्जता
प्राप्तचारित्रसंदेहा मम प्रतिमुखे स्थिता। दीपो नेत्रातुरस्येव प्रतिकूलासि मे दृढा
तद् गच्छ त्वानुजानेऽद्य यथेष्टं जनकात्मजे। एता दश दिशो भद्रे कार्यमस्ति न मे त्वया
कः पुमांस्तु कुले जातः स्त्रियं परगृहोषिताम्। तेजस्वी पुनरादद्यात् सुहृल्लोभेन चेतसा
रावणाङ्कपरिक्लिष्टां दृष्टां दुष्टेन चक्षुषा। कथं त्वां पुनरादद्यां कुलं व्यपदिशन्महत्
यदर्थं निर्जिता मे त्वं सोऽयमासादितो मया। नास्ति मे त्वय्यभिष्वङ्गो यथेष्टं गम्यतामिति
तदद्य व्याहृतं भद्रे मयैतत् कृतबुद्धिना। लक्ष्मणे वाथ भरते कुरु बुद्धिं यथासुखम्