दिव्याङ्गरागा वैदेहि दिव्याभरणभूषिता। यानमारोह भद्रं ते भर्ता त्वां द्रष्टुमिच्छति
एवमुक्ता तु वैदेही प्रत्युवाच विभीषणम्। अस्नात्वा द्रष्टुमिच्छामि भर्तारं राक्षसेश्वर
तस्यास्तद् वचनं श्रुत्वा प्रत्युवाच विभीषणः। यथाऽऽह रामो भर्ता ते तत् तथा कर्तुमर्हसि
तस्य तद् वचनं श्रुत्वा मैथिली पतिदेवता। भर्तृभक्त्यावृता साध्वी तथेति प्रत्यभाषत
ततः सीतां शिरःस्नातां संयुक्तां प्रतिकर्मणा। महार्हाभरणोपेतां महार्हाम्बरधारिणीम्
आरोप्य शिबिकां दीप्तां परार्घ्याम्बरसंवृताम्। रक्षोभिर्बहुभिर्गुप्तामाजहार विभीषणः
सोऽभिगम्य महात्मानं ज्ञात्वापि ध्यानमास्थितम्। प्रणतश्च प्रहृष्टश्च प्राप्तां सीतां न्यवेदयत्
तामागतामुपश्रुत्य रक्षोगृहचिरोषिताम्। रोषं हर्षं च दैन्यं च राघवः प्राप शत्रुहा
ततो यानगतां सीतां सविमर्शं विचारयन्। विभीषणमिदं वाक्यमहृष्टो राघवोऽब्रवीत्
राक्षसाधिपते सौम्य नित्यं मद्विजये रत। वैदेही संनिकर्षं मे क्षिप्रं समभिगच्छतु
तस्य तद् वचनं श्रुत्वा राघवस्य विभीषणः। तूर्णमुत्सारणं तत्र कारयामास धर्मवित्
कञ्चुकोष्णीषिणस्तत्र वेत्रझर्झरपाणयः। उत्सारयन्तस्तान् योधान् समन्तात् परिचक्रमुः
ऋक्षाणां वानराणां च राक्षसानां च सर्वशः। वृन्दान्युत्सार्यमाणानि दूरमुत्तस्थुरन्ततः
तेषामुत्सार्यमाणानां निःस्वनः सुमहानभूत्। वायुनोद्धूयमानस्य सागरस्येव निःस्वनः
उत्सार्यमाणांस्तान् दृष्ट्वा समन्ताज्जातसम्भ्रमान्। दाक्षिण्यात्तदमर्षाच्च वारयामास राघवः
संरम्भाच्चाब्रवीद् रामश्चक्षुषा प्रदहन्निव। विभीषणं महाप्राज्ञं सोपालम्भमिदं वचः
किमर्थं मामनादृत्य क्लिश्यतेऽयं त्वया जनः। निवर्तयैनमुद्वेगं जनोऽयं स्वजनो मम
न गृहाणि न वस्त्राणि न प्राकारस्तिरस्क्रिया। नेदृशा राजसत्कारा वृत्तमावरणं स्त्रियाः
व्यसनेषु न कृच्छ्रेषु न युद्धेषु स्वयंवरे। न क्रतौ नो विवाहे वा दर्शनं दूष्यते स्त्रियाः
सैषा विपद्गता चैव कृच्छ्रेण च समन्विता। दर्शने नास्ति दोषोऽस्या मत्समीपे विशेषतः
विसृज्य शिबिकां तस्मात् पद्भ्यामेवापसर्पतु। समीपे मम वैदेहीं पश्यन्त्वेते वनौकसः
एवमुक्तस्तु रामेण सविमर्शो विभीषणः। रामस्योपानयत् सीतां संनिकर्षं विनीतवत्
ततो लक्ष्मणसुग्रीवौ हनूमांश्च प्लवङ्गमः। निशम्य वाक्यं रामस्य बभूवुर्व्यथिता भृशम्
कलत्रनिरपेक्षैश्च इङ्गितैरस्य दारुणैः। अप्रीतमिव सीतायां तर्कयन्ति स्म राघवम्
लज्जया त्ववलीयन्ती स्वेषु गात्रेषु मैथिली। विभीषणेनानुगता भर्तारं साभ्यवर्तत
विस्मयाच्च प्रहर्षाच्च स्नेहाच्च पतिदेवता। उदैक्षत मुखं भर्तुः सौम्यं सौम्यतरानना
अथ समपनुदन्मनःक्लमं सा सुचिरमदृष्टमुदीक्ष्य वै प्रियस्य। वदनमुदितपूर्णचन्द्रकान्तं विमलशशाङ्कनिभानना तदाऽऽसीत्
thumb|पञ्चदशाधिकशततमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे पञ्चदशाधिकशततमः सर्गः ॥६-
तां तु पार्श्वे स्थितां प्रह्वां रामः सम्प्रेक्ष्य मैथिलीम्। हृदयान्तर्गतं भावं व्याहर्तुमुपचक्रमे
एषासि निर्जिता भद्रे शत्रुं जित्वा रणाजिरे। पौरुषाद् यदनुष्ठेयं मयैतदुपपादितम्