न परः पापमादत्ते परेषां पापकर्मणाम्। समयो रक्षितव्यस्तु सन्तश्चारित्रभूषणाः
पापानां वा शुभानां वा वधार्हाणामथापि वा। कार्यं कारुण्यमार्येण न कश्चिन्नापराध्यति
लोकहिंसाविहाराणां क्रूराणां पापकर्मणाम्। कुर्वतामपि पापानि नैव कार्यमशोभनम्
एवमुक्तस्तु हनुमान् सीतया वाक्यकोविदः। प्रत्युवाच ततः सीतां रामपत्नीमनिन्दिताम्
युक्ता रामस्य भवती धर्मपत्नी गुणान्विता। प्रतिसंदिश मां देवि गमिष्ये यत्र राघवः
एवमुक्ता हनुमता वैदेही जनकात्मजा। साब्रवीद् द्रष्टुमिच्छामि भर्तारं भक्तवत्सलम्
तस्यास्तद् वचनं श्रुत्वा हनूमान् मारुतात्मजः। हर्षयन् मैथिलीं वाक्यमुवाचेदं महामतिः
पूर्णचन्द्रमुखं रामं द्रक्ष्यस्यद्य सलक्ष्मणम्। स्थितमित्रं हतामित्रं शचीवेन्द्रं सुरेश्वरम्
तामेवमुक्त्वा भ्राजन्तीं सीतां साक्षादिव श्रियम्। आजगाम महातेजा हनूमान् यत्र राघवः
सपदि हरिवरस्ततो हनूमान् प्रतिवचनं जनकेश्वरात्मजायाः। कथितमकथयद् यथाक्रमेण त्रिदशवरप्रतिमाय राघवाय
thumb|चतुर्दशाधिकशततमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे चतुर्दशाधिकशततमः सर्गः ॥६-
तमुवाच महाप्राज्ञः सोऽभिवाद्य प्लवङ्गमः। रामं कमलपत्राक्षं वरं सर्वधनुष्मताम्
यन्निमित्तोऽयमारम्भः कर्मणां यः फलोदयः। तां देवीं शोकसंतप्तां द्रष्टुमर्हसि मैथिलीम्
सा हि शोकसमाविष्टा बाष्पपर्याकुलेक्षणा। मैथिली विजयं श्रुत्वा द्रष्टुं त्वामभिकांक्षति
पूर्वकात् प्रत्ययाच्चाहमुक्तो विश्वस्तया तया। द्रष्टुमिच्छामि भर्तारमिति पर्याकुलेक्षणा
एवमुक्तो हनुमता रामो धर्मभृतां वरः। आगच्छत् सहसा ध्यानमीषद्बाष्पपरिप्लुतः
स दीर्घमभिनिःश्वस्य जगतीमवलोकयन्। उवाच मेघसंकाशं विभीषणमुपस्थितम्
दिव्याङ्गरागां वैदेहीं दिव्याभरणभूषिताम्। इह सीतां शिरःस्नातामुपस्थापय मा चिरम्
एवमुक्तस्तु रामेण त्वरमाणो विभीषणः। प्रविश्यान्तःपुरं सीतां स्त्रीभिः स्वाभिरचोदयत्
ततः सीतां महाभागां दृष्ट्वोवाच विभीषणः। मूर्ध्नि बद्धाञ्जलिः श्रीमान् विनीतो राक्षसेश्वरः
दिव्याङ्गरागा वैदेहि दिव्याभरणभूषिता। यानमारोह भद्रं ते भर्ता त्वां द्रष्टुमिच्छति
एवमुक्ता तु वैदेही प्रत्युवाच विभीषणम्। अस्नात्वा द्रष्टुमिच्छामि भर्तारं राक्षसेश्वर
तस्यास्तद् वचनं श्रुत्वा प्रत्युवाच विभीषणः। यथाऽऽह रामो भर्ता ते तत् तथा कर्तुमर्हसि
तस्य तद् वचनं श्रुत्वा मैथिली पतिदेवता। भर्तृभक्त्यावृता साध्वी तथेति प्रत्यभाषत
ततः सीतां शिरःस्नातां संयुक्तां प्रतिकर्मणा। महार्हाभरणोपेतां महार्हाम्बरधारिणीम्
आरोप्य शिबिकां दीप्तां परार्घ्याम्बरसंवृताम्। रक्षोभिर्बहुभिर्गुप्तामाजहार विभीषणः
सोऽभिगम्य महात्मानं ज्ञात्वापि ध्यानमास्थितम्। प्रणतश्च प्रहृष्टश्च प्राप्तां सीतां न्यवेदयत्
तामागतामुपश्रुत्य रक्षोगृहचिरोषिताम्। रोषं हर्षं च दैन्यं च राघवः प्राप शत्रुहा
ततो यानगतां सीतां सविमर्शं विचारयन्। विभीषणमिदं वाक्यमहृष्टो राघवोऽब्रवीत्
राक्षसाधिपते सौम्य नित्यं मद्विजये रत। वैदेही संनिकर्षं मे क्षिप्रं समभिगच्छतु