अर्थतश्च मया प्राप्ता देवराज्यादयो गुणाः। हतशत्रुं विजयिनं रामं पश्यामि सुस्थितम्
तस्य तद् वचनं श्रुत्वा मैथिली जनकात्मजा। ततः शुभतरं वाक्यमुवाच पवनात्मजम्
अतिलक्षणसम्पन्नं माधुर्यगुणभूषणम्। बुद्ध्या ह्यष्टाङ्गया युक्तं त्वमेवार्हसि भाषितुम्
श्लाघनीयोऽनिलस्य त्वं सुतः परमधार्मिकः। बलं शौर्यं श्रुतं सत्त्वं विक्रमो दाक्ष्यमुत्तमम्
तेजः क्षमा धृतिः स्थैर्यं विनीतत्वं न संशयः। एते चान्ये च बहवो गुणास्त्वय्येव शोभनाः
अथोवाच पुनः सीतामसम्भ्रान्तो विनीतवत्। प्रगृहीताञ्जलिर्हर्षात् सीतायाः प्रमुखे स्थितः
इमास्तु खलु राक्षस्यो यदि त्वमनुमन्यसे। हन्तुमिच्छामि ताः सर्वा याभिस्त्वं तर्जिता पुरा
क्लिश्यन्तीं पतिदेवां त्वामशोकवनिकां गताम्। घोररूपसमाचाराः क्रूराः क्रूरतरेक्षणाः
इह श्रुता मया देवि राक्षस्यो विकृताननाः। असकृत्परुषैर्वाक्यैर्वदन्त्यो रावणाज्ञया
विकृता विकृताकाराः क्रूराः क्रूरकचेक्षणाः। इच्छामि विविधैर्घातैर्हन्तुमेताः सुदारुणाः
राक्षस्यो दारुणकथा वरमेतत् प्रयच्छ मे। मुष्टिभिः पार्ष्णिघातैश्च विशालैश्चैव बाहुभिः
जङ्घाजानुप्रहारैश्च दन्तानां चैव पीडनैः। कर्तनैः कर्णनासानां केशानां लुञ्चनैस्तथा
निपात्य हन्तुमिच्छामि तव विप्रियकारिणीः। एवं प्रहारैर्बहुभिः सम्प्रहार्य यशस्विनि
घातये तीव्ररूपाभिर्याभिस्त्वं तर्जिता पुरा। इत्युक्ता सा हनुमता कृपणा दीनवत्सला
हनूमन्तमुवाचेदं चिन्तयित्वा विमृश्य च। राजसंश्रयवश्यानां कुर्वतीनां पराज्ञया
विधेयानां च दासीनां कः कुप्येद् वानरोत्तम। भाग्यवैषम्यदोषेण पुरस्ताद्दुष्कृतेन च
मयैतत् प्राप्यते सर्वं स्वकृतं ह्युपभुज्यते। मैवं वद महाबाहो दैवी ह्येषा परा गतिः
प्राप्तव्यं तु दशायोगान्मयैतदिति निश्चितम्। दासीनां रावणस्याहं मर्षयामीह दुर्बला
आज्ञप्ता राक्षसेनेह राक्षस्यस्तर्जयन्ति माम्। हते तस्मिन् न कुर्वन्ति तर्जनं मारुतात्मज
अयं व्याघ्रसमीपे तु पुराणो धर्मसंहितः। ऋक्षेण गीतः श्लोकोऽस्ति तं निबोध प्लवंगम
न परः पापमादत्ते परेषां पापकर्मणाम्। समयो रक्षितव्यस्तु सन्तश्चारित्रभूषणाः
पापानां वा शुभानां वा वधार्हाणामथापि वा। कार्यं कारुण्यमार्येण न कश्चिन्नापराध्यति
लोकहिंसाविहाराणां क्रूराणां पापकर्मणाम्। कुर्वतामपि पापानि नैव कार्यमशोभनम्
एवमुक्तस्तु हनुमान् सीतया वाक्यकोविदः। प्रत्युवाच ततः सीतां रामपत्नीमनिन्दिताम्
युक्ता रामस्य भवती धर्मपत्नी गुणान्विता। प्रतिसंदिश मां देवि गमिष्ये यत्र राघवः
एवमुक्ता हनुमता वैदेही जनकात्मजा। साब्रवीद् द्रष्टुमिच्छामि भर्तारं भक्तवत्सलम्
तस्यास्तद् वचनं श्रुत्वा हनूमान् मारुतात्मजः। हर्षयन् मैथिलीं वाक्यमुवाचेदं महामतिः
पूर्णचन्द्रमुखं रामं द्रक्ष्यस्यद्य सलक्ष्मणम्। स्थितमित्रं हतामित्रं शचीवेन्द्रं सुरेश्वरम्
तामेवमुक्त्वा भ्राजन्तीं सीतां साक्षादिव श्रियम्। आजगाम महातेजा हनूमान् यत्र राघवः
सपदि हरिवरस्ततो हनूमान् प्रतिवचनं जनकेश्वरात्मजायाः। कथितमकथयद् यथाक्रमेण त्रिदशवरप्रतिमाय राघवाय