वृक्षमूले निरानन्दां राक्षसीभिः परीवृताम्। निभृतः प्रणतः प्रह्वः सोऽभिगम्याभिवाद्य च
दृष्ट्वा तमागतं देवी हनूमन्तं महाबलम्। तूष्णीमास्त तदा दृष्ट्वा स्मृत्वा हृष्टाभवत् तदा
सौम्यं तस्या मुखं दृष्ट्वा हनूमान् प्लवगोत्तमः। रामस्य वचनं सर्वमाख्यातुमुपचक्रमे
वैदेहि कुशली रामः सहसुग्रीवलक्ष्मणः। कुशलं चाह सिद्धार्थो हतशत्रुरमित्रजित्
विभीषणसहायेन रामेण हरिभिः सह। निहतो रावणो देवि लक्ष्मणेन च वीर्यवान्
प्रियमाख्यामि ते देवि भूयश्च त्वां सभाजये। तव प्रभावाद् धर्मज्ञे महान् रामेण संयुगे
लब्धोऽयं विजयः सीते स्वस्था भव गतज्वरा। रावणश्च हतः शत्रुर्लङ्का चैव वशीकृता
मया ह्यलब्धनिद्रेण धृतेन तव निर्जये। प्रतिज्ञैषा विनिस्तीर्णा बद्ध्वा सेतुं महोदधौ
सम्भ्रमश्च न कर्तव्यो वर्तन्त्या रावणालये। विभीषणविधेयं हि लङ्कैश्वर्यमिदं कृतम्
तदाश्वसिहि विस्रब्धं स्वगृहे परिवर्तसे। अयं चाभ्येति संहृष्टस्त्वद्दर्शनसमुत्सुकः
एवमुक्ता तु सा देवी सीता शशिनिभानना। प्रहर्षेणावरुद्धा सा व्याहर्तुं न शशाक ह
ततोऽब्रवीद्धरिवरः सीतामप्रतिजल्पतीम्। किं त्वं चिन्तयसे देवि किं च मां नाभिभाषसे
एवमुक्ता हनुमता सीता धर्मपथे स्थिता। अब्रवीत् परमप्रीता बाष्पगद्गदया गिरा
प्रियमेतदुपश्रुत्य भर्तुर्विजयसंश्रितम्। प्रहर्षवशमापन्ना निर्वाक्यास्मि क्षणान्तरम्
नहि पश्यामि सदृशं चिन्तयन्ती प्लवंगम। आख्यानकस्य भवतो दातुं प्रत्यभिनन्दनम्
न हि पश्यामि तत् सौम्य पृथिव्यामपि वानर। सदृशं यत्प्रियाख्याने तव दत्त्वा भवेत् सुखम्
हिरण्यं वा सुवर्णं वा रत्नानि विविधानि च। राज्यं वा त्रिषु लोकेषु एतन्नार्हति भाषितम्
एवमुक्तस्तु वैदेह्या प्रत्युवाच प्लवंगमः। प्रगृहीताञ्जलिर्हर्षात् सीतायाः प्रमुखे स्थितः
भर्तुः प्रियहिते युक्ते भर्तुर्विजयकांक्षिणि। स्निग्धमेवंविधं वाक्यं त्वमेवार्हस्यनिन्दिते
तवैतद् वचनं सौम्ये सारवत् स्निग्धमेव च। रत्नौघाद् विविधाच्चापि देवराज्याद् विशिष्यते
अर्थतश्च मया प्राप्ता देवराज्यादयो गुणाः। हतशत्रुं विजयिनं रामं पश्यामि सुस्थितम्
तस्य तद् वचनं श्रुत्वा मैथिली जनकात्मजा। ततः शुभतरं वाक्यमुवाच पवनात्मजम्
अतिलक्षणसम्पन्नं माधुर्यगुणभूषणम्। बुद्ध्या ह्यष्टाङ्गया युक्तं त्वमेवार्हसि भाषितुम्
श्लाघनीयोऽनिलस्य त्वं सुतः परमधार्मिकः। बलं शौर्यं श्रुतं सत्त्वं विक्रमो दाक्ष्यमुत्तमम्
तेजः क्षमा धृतिः स्थैर्यं विनीतत्वं न संशयः। एते चान्ये च बहवो गुणास्त्वय्येव शोभनाः
अथोवाच पुनः सीतामसम्भ्रान्तो विनीतवत्। प्रगृहीताञ्जलिर्हर्षात् सीतायाः प्रमुखे स्थितः
इमास्तु खलु राक्षस्यो यदि त्वमनुमन्यसे। हन्तुमिच्छामि ताः सर्वा याभिस्त्वं तर्जिता पुरा
क्लिश्यन्तीं पतिदेवां त्वामशोकवनिकां गताम्। घोररूपसमाचाराः क्रूराः क्रूरतरेक्षणाः
इह श्रुता मया देवि राक्षस्यो विकृताननाः। असकृत्परुषैर्वाक्यैर्वदन्त्यो रावणाज्ञया
विकृता विकृताकाराः क्रूराः क्रूरकचेक्षणाः। इच्छामि विविधैर्घातैर्हन्तुमेताः सुदारुणाः