रावणस्य वधं घोरं राघवस्य पराक्रमम्। सुयुद्धं वानराणां च सुग्रीवस्य च मन्त्रितम्
अनुरागं च वीर्यं च मारुतेर्लक्ष्मणस्य च। पतिव्रतात्वं सीताया हनूमति पराक्रमम्
कथयन्तो महाभागा जग्मुर्हृष्टा यथागतम्। राघवस्तु रथं दिव्यमिन्द्रदत्तं शिखिप्रभम्
अनुज्ञाप्य महाबाहुर्मातलिं प्रत्यपूजयत्। राघवेणाभ्यनुज्ञातो मातलिः शक्रसारथिः
दिव्यं तं रथमास्थाय दिवमेवोत्पपात ह। तस्मिंस्तु दिवमारूढे सरथे रथिनां वरः
राघवः परमप्रीतः सुग्रीवं परिषस्वजे। परिष्वज्य च सुग्रीवं लक्ष्मणेनाभिवादितः
पूज्यमानो हरिगणैराजगाम बलालयम्। अथोवाच स काकुत्स्थः समीपपरिवर्तिनम्
सौमित्रिं सत्त्वसम्पन्नं लक्ष्मणं दीप्ततेजसम्। विभीषणमिमं सौम्य लङ्कायामभिषेचय
अनुरक्तं च भक्तं च तथा पूर्वोपकारिणम्। एष मे परमः कामो यदिमं रावणानुजम्
लङ्कायां सौम्य पश्येयमभिषिक्तं विभीषणम्। एवमुक्तस्तु सौमित्री राघवेण महात्मना
तथेत्युक्त्वा सुसंहृष्टः सौवर्णं घटमाददे। तं घटं वानरेन्द्राणां हस्ते दत्त्वा मनोजवान्
व्यादिदेश महासत्त्वान् समुद्रसलिलं तदा। अतिशीघ्रं ततो गत्वा वानरास्ते मनोजवाः
आगतास्तु जलं गृह्य समुद्राद् वानरोत्तमाः। ततस्त्वेकं घटं गृह्य संस्थाप्य परमासने
घटेन तेन सौमित्रिरभ्यषिञ्चद् विभीषणम्। लङ्कायां रक्षसां मध्ये राजानं रामशासनात्
विधिना मन्त्रदृष्टेन सुहृद्गणसमावृतम्। अभ्यषिञ्चस्तदा सर्वे राक्षसा वानरास्तथा
प्रहर्षमतुलं गत्वा तुष्टुवू राममेव हि। तस्यामात्या जहृषिरे भक्ता ये चास्य राक्षसाः
दृष्ट्वाभिषिक्तं लङ्कायां राक्षसेन्द्रं विभीषणम्। राघवः परमां प्रीतिं जगाम सहलक्ष्मणः
स तद् राज्यं महत् प्राप्य रामदत्तं विभीषणः। सान्त्वयित्वा प्रकृतयस्ततो राममुपागमत्
दध्यक्षतान् मोदकांश्च लाजाः सुमनसस्तथा। आजह्रुरथ संहृष्टाः पौरास्तस्मै निशाचराः
स तान् गृहीत्वा दुर्धर्षो राघवाय न्यवेदयत्। मङ्गल्यं मङ्गलं सर्वं लक्ष्मणाय च वीर्यवान्
कृतकार्यं समृद्धार्थं दृष्ट्वा रामो विभीषणम्। प्रतिजग्राह तत् सर्वं तस्यैव प्रतिकाम्यया
ततः शैलोपमं वीरं प्राञ्जलिं प्रणतं स्थितम्। उवाचेदं वचो रामो हनूमन्तं प्लवङ्गमम्
अनुज्ञाप्य महाराजमिमं सौम्य विभीषणम्। प्रविश्य नगरीं लङ्कां कौशलं ब्रूहि मैथिलीम्
वैदेह्यै मां च कुशलं सुग्रीवं च सलक्ष्मणम्। आचक्ष्व वदतां श्रेष्ठ रावणं च हतं रणे
प्रियमेतदिहाख्याहि वैदेह्यास्त्वं हरीश्वर। प्रतिगृह्य तु संदेशमुपावर्तितुमर्हसि
thumb|त्रयोदशाधिकशततमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे त्रयोदशाधिकशततमः सर्गः ॥६-
इति प्रतिसमादिष्टो हनूमान् मारुतात्मजः। प्रविवेश पुरीं लङ्कां पूज्यमानो निशाचरैः
प्रविश्य च पुरीं लङ्कामनुज्ञाप्य विभीषणम्। ततस्तेनाभ्यनुज्ञातो हनूमान् वृक्षवाटिकाम्
सम्प्रविश्य यथान्यायं सीताया विदितो हरिः। ददर्श मृजया हीनां सातङ्कां रोहिणीमिव
वृक्षमूले निरानन्दां राक्षसीभिः परीवृताम्। निभृतः प्रणतः प्रह्वः सोऽभिगम्याभिवाद्य च