रावणो नार्हते पूजां पूज्योऽपि गुरुगौरवात्। नृशंस इति मां राम वक्ष्यन्ति मनुजा भुवि
श्रुत्वा तस्यागुणान् सर्वे वक्ष्यन्ति सुकृतं पुनः। तच्छ्रुत्वा परमप्रीतो रामो धर्मभृतां वरः
विभीषणमुवाचेदं वाक्यज्ञं वाक्यकोविदः। तवापि मे प्रियं कार्यं त्वत्प्रभावान्मया जितम्
अवश्यं तु क्षमं वाच्यो मया त्वं राक्षसेश्वर। अधर्मानृतसंयुक्तः कामं त्वेष निशाचरः
तेजस्वी बलवाञ्छूरः संग्रामेषु च नित्यशः। शतक्रतुमुखैर्देवैः श्रूयते न पराजितः
महात्मा बलसम्पन्नो रावणो लोकरावणः। मरणान्तानि वैराणि निर्वृत्तं नः प्रयोजनम्
क्रियतामस्य संस्कारो ममाप्येष यथा तव। त्वत्सकाशान्महाबाहो संस्कारं विधिपूर्वकम्
क्षिप्रमर्हति धर्मेण त्वं यशोभाग् भविष्यसि। राघवस्य वचः श्रुत्वा त्वरमाणो विभीषणः
संस्कारयितुमारेभे भ्रातरं रावणं हतम्। स प्रविश्य पुरीं लङ्कां राक्षसेन्द्रो विभीषणः
रावणस्याग्निहोत्रं तु निर्यापयति सत्वरम्। शकटान् दारुरूपाणि अग्नीन् वै याजकांस्तथा
तथा चन्दनकाष्ठानि काष्ठानि विविधानि च। अगरूणि सुगन्धीनि गन्धांश्च सुरभींस्तथा
मणिमुक्ताप्रवालानि निर्यापयति राक्षसः। आजगाम मुहूर्तेन राक्षसैः परिवारितः
ततो माल्यवता सार्धं क्रियामेव चकार सः। सौवर्णीं शिबिकां दिव्यामारोप्य क्षौमवाससम्
रावणं राक्षसाधीशमश्रुवर्णमुखा द्विजाः। तूर्यघोषैश्च विविधैः स्तुवद्भिश्चाभिनन्दितम्
पताकाभिश्च चित्राभिः सुमनोभिश्च चित्रिताम्। उत्क्षिप्य शिबिकां तां तु विभीषणपुरोगमाः
दक्षिणाभिमुखाः सर्वे गृह्य काष्ठानि भेजिरे। अग्नयो दीप्यमानास्ते तदाध्वर्युसमीरिताः
पृष्ठतोऽनुययुस्तानि प्लवमानानि सर्वतः। रावणं प्रयते देशे स्थाप्य ते भृशदुःखिताः
चितां चन्दनकाष्ठैश्च पद्मकोशीरचन्दनैः। ब्राह्म्या संवर्तयामासू राङ्कवास्तरणावृताम्
प्रचक्रू राक्षसेन्द्रस्य पितृमेधमनुत्तमम्। वेदिं च दक्षिणाप्राचीं यथास्थानं च पावकम्
पृषदाज्येन सम्पूर्णं स्रुवं स्कन्धे प्रचिक्षिपुः। पादयोः शकटं प्रापुरूर्वोश्चोलूखलं तदा
दारुपात्राणि सर्वाणि अरणिं चोत्तरारणिम्। दत्त्वा तु मुसलं चान्यं यथास्थानं विचक्रमुः
शास्त्रदृष्टेन विधिना महर्षिविहितेन च। तत्र मेध्यं पशुं हत्वा राक्षसेन्द्रस्य राक्षसाः
परिस्तरणिकां राज्ञो घृताक्तां समवेशयन्। गन्धैर्माल्यैरलंकृत्य रावणं दीनमानसाः
विभीषणसहायास्ते वस्त्रैश्च विविधैरपि। लाजैरवकिरन्ति स्म बाष्पपूर्णमुखास्तथा
स ददौ पावकं तस्य विधियुक्तं विभीषणः। स्नात्वा चैवार्द्रवस्त्रेण तिलान् दर्भविमिश्रितान्
उदकेन च सम्मिश्रान् प्रदाय विधिपूर्वकम्। ताः स्त्रियोऽनुनयामास सान्त्वयित्वा पुनः पुनः
गम्यतामिति ताः सर्वा विविशुर्नगरं ततः। प्रविष्टासु पुरीं स्त्रीषु राक्षसेन्द्रो विभीषणः। रामपार्श्वमुपागम्य समतिष्ठद् विनीतवत्
रामोऽपि सह सैन्येन ससुग्रीवः सलक्ष्मणः। हर्षं लेभे रिपुं हत्वा वृत्रं वज्रधरो यथा
ततो विमुक्त्वा सशरं शरासनं महेन्द्रदत्तं कवचं स तन्महत्। विमुच्य रोषं रिपुनिग्रहात् ततो रामः स सौम्यत्वमुपागतोऽरिहा
thumb|द्वादशाधिकशततमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे द्वादशाधिकशततमः सर्गः ॥६-