अप्रियामिव कस्माच्च मां नेच्छस्यभिभाषितुम्। धिगस्तु हृदयं यस्या ममेदं न सहस्रधा
त्वयि पञ्चत्वमापन्ने फलते शोकपीडितम्। इत्येवं विलपन्ती सा बाष्पपर्याकुलेक्षणा
स्नेहोपस्कन्नहृदया तदा मोहमुपागमत्। कश्मलाभिहता सन्ना बभौ सा रावणोरसि
संध्यानुरक्ते जलदे दीप्ता विद्युदिवोज्ज्वला। तथागतां समुत्थाप्य सपत्न्यस्तां भृशातुराः
पर्यवस्थापयामासू रुदत्यो रुदतीं भृशम्। किं ते न विदिता देवि लोकानां स्थितिरध्रुवा
दशाविभागपर्याये राज्ञां वै चञ्चलाः श्रियः। इत्येवमुच्यमाना सा सशब्दं प्ररुरोद ह
स्नपयन्ती तदास्रेण स्तनौ वक्त्रं सुनिर्मलम्। एतस्मिन्नन्तरे रामो विभीषणमुवाच ह
संस्कारः क्रियतां भ्रातुः स्त्रीगणः परिसान्त्व्यताम्। तमुवाच ततो धीमान् विभीषण इदं वचः
विमृश्य बुद्ध्या प्रश्रितं धर्मार्थसहितं हितम्। त्यक्तधर्मव्रतं क्रूरं नृशंसमनृतं तथा
नाहमर्हामि संस्कर्तुं परदाराभिमर्शनम्। भ्रातृरूपो हि मे शत्रुरेष सर्वाहिते रतः
रावणो नार्हते पूजां पूज्योऽपि गुरुगौरवात्। नृशंस इति मां राम वक्ष्यन्ति मनुजा भुवि
श्रुत्वा तस्यागुणान् सर्वे वक्ष्यन्ति सुकृतं पुनः। तच्छ्रुत्वा परमप्रीतो रामो धर्मभृतां वरः
विभीषणमुवाचेदं वाक्यज्ञं वाक्यकोविदः। तवापि मे प्रियं कार्यं त्वत्प्रभावान्मया जितम्
अवश्यं तु क्षमं वाच्यो मया त्वं राक्षसेश्वर। अधर्मानृतसंयुक्तः कामं त्वेष निशाचरः
तेजस्वी बलवाञ्छूरः संग्रामेषु च नित्यशः। शतक्रतुमुखैर्देवैः श्रूयते न पराजितः
महात्मा बलसम्पन्नो रावणो लोकरावणः। मरणान्तानि वैराणि निर्वृत्तं नः प्रयोजनम्
क्रियतामस्य संस्कारो ममाप्येष यथा तव। त्वत्सकाशान्महाबाहो संस्कारं विधिपूर्वकम्
क्षिप्रमर्हति धर्मेण त्वं यशोभाग् भविष्यसि। राघवस्य वचः श्रुत्वा त्वरमाणो विभीषणः
संस्कारयितुमारेभे भ्रातरं रावणं हतम्। स प्रविश्य पुरीं लङ्कां राक्षसेन्द्रो विभीषणः
रावणस्याग्निहोत्रं तु निर्यापयति सत्वरम्। शकटान् दारुरूपाणि अग्नीन् वै याजकांस्तथा
तथा चन्दनकाष्ठानि काष्ठानि विविधानि च। अगरूणि सुगन्धीनि गन्धांश्च सुरभींस्तथा
मणिमुक्ताप्रवालानि निर्यापयति राक्षसः। आजगाम मुहूर्तेन राक्षसैः परिवारितः
ततो माल्यवता सार्धं क्रियामेव चकार सः। सौवर्णीं शिबिकां दिव्यामारोप्य क्षौमवाससम्
रावणं राक्षसाधीशमश्रुवर्णमुखा द्विजाः। तूर्यघोषैश्च विविधैः स्तुवद्भिश्चाभिनन्दितम्
पताकाभिश्च चित्राभिः सुमनोभिश्च चित्रिताम्। उत्क्षिप्य शिबिकां तां तु विभीषणपुरोगमाः
दक्षिणाभिमुखाः सर्वे गृह्य काष्ठानि भेजिरे। अग्नयो दीप्यमानास्ते तदाध्वर्युसमीरिताः
पृष्ठतोऽनुययुस्तानि प्लवमानानि सर्वतः। रावणं प्रयते देशे स्थाप्य ते भृशदुःखिताः
चितां चन्दनकाष्ठैश्च पद्मकोशीरचन्दनैः। ब्राह्म्या संवर्तयामासू राङ्कवास्तरणावृताम्
प्रचक्रू राक्षसेन्द्रस्य पितृमेधमनुत्तमम्। वेदिं च दक्षिणाप्राचीं यथास्थानं च पावकम्
पृषदाज्येन सम्पूर्णं स्रुवं स्कन्धे प्रचिक्षिपुः। पादयोः शकटं प्रापुरूर्वोश्चोलूखलं तदा