पतिव्रता धर्मरता गुरुशुश्रूषणे रताः। ताभिः शोकाभितप्ताभिः शप्तः परवशं गतः
त्वया विप्रकृताभिश्च तदा शप्तस्तदागतम्। प्रवादः सत्यमेवायं त्वां प्रति प्रायशो नृप
पतिव्रतानां नाकस्मात् पतन्त्यश्रूणि भूतले। कथं च नाम ते राजँल्लोकानाक्रम्य तेजसा
नारीचौर्यमिदं क्षुद्रं कृतं शौण्डीर्यमानिना। अपनीयाश्रमाद् रामं यन्मृगच्छद्मना त्वया
आनीता रामपत्नी सा अपनीय च लक्ष्मणम्। कातर्यं च न ते युद्धे कदाचित् संस्मराम्यहम्
तत् तु भाग्यविपर्यासान्नूनं ते पक्वलक्षणम्। अतीतानागतार्थज्ञो वर्तमानविचक्षणः
मैथिलीमाहृतां दृष्ट्वा ध्यात्वा निःश्वस्य चायतम्। सत्यवाक् स महाबाहो देवरो मे यदब्रवीत्
अयं राक्षसमुख्यानां विनाशः प्रत्युपस्थितः। कामक्रोधसमुत्थेन व्यसनेन प्रसङ्गिना
निवृत्तस्त्वत्कृतेनार्थः सोऽयं मूलहरो महान्। त्वया कृतमिदं सर्वमनाथं राक्षसं कुलम्
नहि त्वं शोचितव्यो मे प्रख्यातबलपौरुषः। स्त्रीस्वभावात् तु मे बुद्धिः कारुण्ये परिवर्तते
सुकृतं दुष्कृतं च त्वं गृहीत्वा स्वां गतिं गतः। आत्मानमनुशोचामि त्वद्विनाशेन दुःखिताम्
सुहृदां हितकामानां न श्रुतं वचनं त्वया। भ्रातॄणां चैव कात्स्र्न्येन हितमुक्तं दशानन
हेत्वर्थयुक्तं विधिवच्छ्रेयस्करमदारुणम्। विभीषणेनाभिहितं न कृतं हेतुमत् त्वया
मारीचकुम्भकर्णाभ्यां वाक्यं मम पितुस्तथा। न कृतं वीर्यमत्तेन तस्येदं फलमीदृशम्
नीलजीमूतसंकाश पीताम्बर शुभाङ्गद। स्वगात्राणि विनिक्षिप्य किं शेषे रुधिरावृतः
प्रसुप्त इव शोकार्तां किं मां न प्रतिभाषसे। महावीर्यस्य दक्षस्य संयुगेष्वपलायिनः
यातुधानस्य दौहित्रीं किं मां न प्रतिभाषसे। उत्तिष्ठोत्तिष्ठ किं शेषे नवे परिभवे कृते
अद्य वै निर्भया लङ्कां प्रविष्टाः सूर्यरश्मयः। येन सूदयसे शत्रून् समरे सूर्यवर्चसा
वज्रं वज्रधरस्येव सोऽयं ते सततार्चितः। रणे बहुप्रहरणो हेमजालपरिष्कृतः
परिघो व्यवकीर्णस्ते बाणैश्छिन्नः सहस्रधा। प्रियामिवोपसंगृह्य किं शेषे रणमेदिनीम्
अप्रियामिव कस्माच्च मां नेच्छस्यभिभाषितुम्। धिगस्तु हृदयं यस्या ममेदं न सहस्रधा
त्वयि पञ्चत्वमापन्ने फलते शोकपीडितम्। इत्येवं विलपन्ती सा बाष्पपर्याकुलेक्षणा
स्नेहोपस्कन्नहृदया तदा मोहमुपागमत्। कश्मलाभिहता सन्ना बभौ सा रावणोरसि
संध्यानुरक्ते जलदे दीप्ता विद्युदिवोज्ज्वला। तथागतां समुत्थाप्य सपत्न्यस्तां भृशातुराः
पर्यवस्थापयामासू रुदत्यो रुदतीं भृशम्। किं ते न विदिता देवि लोकानां स्थितिरध्रुवा
दशाविभागपर्याये राज्ञां वै चञ्चलाः श्रियः। इत्येवमुच्यमाना सा सशब्दं प्ररुरोद ह
स्नपयन्ती तदास्रेण स्तनौ वक्त्रं सुनिर्मलम्। एतस्मिन्नन्तरे रामो विभीषणमुवाच ह
संस्कारः क्रियतां भ्रातुः स्त्रीगणः परिसान्त्व्यताम्। तमुवाच ततो धीमान् विभीषण इदं वचः
विमृश्य बुद्ध्या प्रश्रितं धर्मार्थसहितं हितम्। त्यक्तधर्मव्रतं क्रूरं नृशंसमनृतं तथा
नाहमर्हामि संस्कर्तुं परदाराभिमर्शनम्। भ्रातृरूपो हि मे शत्रुरेष सर्वाहिते रतः