कान्तिश्रीद्युतिभिस्तुल्यमिन्दुपद्मदिवाकरैः। किरीटकूटोज्ज्वलितं ताम्रास्यं दीप्तकुण्डलम्
मदव्याकुललोलाक्षं भूत्वा यत्पानभूमिषु। विविधस्रग्धरं चारु वल्गुस्मितकथं शुभम्
तदेवाद्य तवैवं हि वक्त्रं न भ्राजते प्रभो। रामसायकनिर्भिन्नं रक्तं रुधिरविस्रवैः
विशीर्णमेदोमस्तिष्कं रूक्षं स्यन्दनरेणुभिः। हा पश्चिमा मे सम्प्राप्ता दशा वैधव्यदायिनी
या मयाऽऽसीन्न सम्बुद्धा कदाचिदपि मन्दया। पिता दानवराजो मे भर्ता मे राक्षसेश्वरः
पुत्रो मे शक्रनिर्जेता इत्यहं गर्विता भृशम्। दृप्तारिमथनाः क्रूराः प्रख्यातबलपौरुषाः
अकुतश्चिद्भया नाथा ममेत्यासीन्मतिर्ध्रुवा। तेषामेवंप्रभावाणां युष्माकं राक्षसर्षभाः
कथं भयमसम्बुद्धं मानुषादिदमागतम्। स्निग्धेन्द्रनीलनीलं तु प्रांशुशैलोपमं महत्
केयूराङ्गदवैदूर्यमुक्ताहारस्रगुज्ज्वलम्। कान्तं विहारेष्वधिकं दीप्तं संग्रामभूमिषु
भात्याभरणभाभिर्यद् विद्युद्भिरिव तोयदः। तदेवाद्य शरीरं ते तीक्ष्णैर्नैकशरैश्चितम्
पुनर्दुर्लभसंस्पर्शं परिष्वक्तुं न शक्यते। श्वाविधः शललैर्यद्वद् बाणैर्लग्नैर्निरन्तरम्
स्वर्पितैर्मर्मसु भृशं संछिन्नस्नायुबन्धनम्। क्षितौ निपतितं राजन् श्यामं वै रुधिरच्छवि
वज्रप्रहाराभिहतो विकीर्ण इव पर्वतः। हा स्वप्नः सत्यमेवेदं त्वं रामेण कथं हतः
त्वं मृत्योरपि मृत्युः स्याः कथं मृत्युवशं गतः। त्रैलोक्यवसुभोक्तारं त्रैलोक्योद्वेगदं महत्
जेतारं लोकपालानां क्षेप्तारं शंकरस्य च। दृप्तानां निग्रहीतारमाविष्कृतपराक्रमम्
लोकक्षोभयितारं च साधुभूतविदारणम्। ओजसा दृप्तवाक्यानां वक्तारं रिपुसंनिधौ
स्वयूथभृत्यगोप्तारं हन्तारं भीमकर्मणाम्। हन्तारं दानवेन्द्राणां यक्षाणां च सहस्रशः
निवातकवचानां तु निग्रहीतारमाहवे। नैकयज्ञविलोप्तारं त्रातारं स्वजनस्य च
धर्मव्यवस्थाभेत्तारं मायास्रष्टारमाहवे। देवासुरनृकन्यानामाहर्तारं ततस्ततः
शत्रुस्त्रीशोकदातारं नेतारं स्वजनस्य च। लङ्काद्वीपस्य गोप्तारं कर्तारं भीमकर्मणाम्
अस्माकं कामभोगानां दातारं रथिनां वरम्। एवंप्रभावं भर्तारं दृष्ट्वा रामेण पातितम्
स्थिरास्मि या देहमिमं धारयामि हतप्रिया। शयनेषु महार्हेषु शयित्वा राक्षसेश्वर
इह कस्मात् प्रसुप्तोऽसि धरण्यां रेणुगुण्ठितः। यदा मे तनयः शस्तो लक्ष्मणेनेन्द्रजिद् युधि
तदा त्वभिहता तीव्रमद्य त्वस्मिन् निपातिता। साहं बन्धुजनैर्हीना हीना नाथेन च त्वया
विहीना कामभोगैश्च शोचिष्ये शाश्वतीः समाः। प्रपन्नो दीर्घमध्वानं राजन्नद्य सुदुर्गमम्
नय मामपि दुःखार्तां न वर्तिष्ये त्वया विना। कस्मात् त्वं मां विहायेह कृपणां गन्तुमिच्छसि
दीनां विलपतीं मन्दां किं च मां नाभिभाषसे। दृष्ट्वा न खल्वभिक्रुद्धो मामिहानवगुण्ठिताम्
निर्गतां नगरद्वारात् पद्भ्यामेवागतां प्रभो। पश्येष्टदार दारांस्ते भ्रष्टलज्जावगुण्ठनान्
बहिर्निष्पतितान् सर्वान् कथं दृष्ट्वा न कुप्यसि। अयं क्रीडासहायस्तेऽनाथो लालप्यते जनः
न चैनमाश्वासयसि किं वा न बहुमन्यसे। यास्त्वया विधवा राजन् कृता नैकाः कुलस्त्रियः