तमर्चयित्वा धर्मात्मा शास्त्रदृष्टेन कर्मणा। राघवौ च महात्मानौ तदा वाक्यमुवाच ह
भगवन् स्वागतं तेऽस्तु किं करोमि तवानघ। भवानाज्ञापयतु मामाज्ञाप्यो भवता ह्यहम्
एवमुक्तः स धर्मात्मा जनकेन महात्मना। प्रत्युवाच मुनिश्रेष्ठो वाक्यं वाक्यविशारदः
पुत्रौ दशरथस्येमौ क्षत्रियौ लोकविश्रुतौ। द्रष्टुकामौ धनुःश्रेष्ठं यदेतत्त्वयि तिष्ठति
एतद् दर्शय भद्रं ते कृतकामौ नृपात्मजौ। दर्शनादस्य धनुषो यथेष्टं प्रतियास्यतः
एवमुक्तस्तु जनकः प्रत्युवाच महामुनिम्। श्रूयतामस्य धनुषो यदर्थमिह तिष्ठति
देवरात इति ख्यातो निमेर्ज्येष्ठो महीपतिः। न्यासोऽयं तस्य भगवन् हस्ते दत्तो महात्मनः
दक्षयज्ञवधे पूर्वं धनुरायम्य वीर्यवान्। विध्वंस्य त्रिदशान् रोषात् सलीलमिदमब्रवीत्
यस्माद् भागार्थिनो भागं नाकल्पयत मे सुराः। वरांगानि महार्हाणि धनुषा शातयामि वः
ततो विमनसः सर्वे देवा वै मुनिपुंगव। प्रसादयन्त देवेशं तेषां प्रीतोऽभवद् भवः
प्रीतियुक्तस्तु सर्वेषां ददौ तेषां महात्मनाम्। तदेतद् देवदेवस्य धनूरत्नं महात्मनः
न्यासभूतं तदा न्यस्तमस्माकं पूर्वजे विभौ। अथ मे कृषतः क्षेत्रं लांगलादुत्थिता ततः
क्षेत्रं शोधयता लब्धा नाम्ना सीतेति विश्रुता। भूतलादुत्थिता सा तु व्यवर्धत ममात्मजा
वीर्यशुल्केति मे कन्या स्थापितेयमयोनिजा। भूतलादुत्थितां तां तु वर्धमानां ममात्मजाम्
वरयामासुरागत्य राजानो मुनिपुंगव। तेषां वरयतां कन्यां सर्वेषां पृथिवीक्षिताम्
वीर्यशुल्केति भगवन् न ददामि सुतामहम्। ततः सर्वे नृपतयः समेत्य मुनिपुंगव
मिथिलामप्युपागम्य वीर्यं जिज्ञासवस्तदा। तेषां जिज्ञासमानानां शैवं धनुरुपाहृतम्
न शेकुर्ग्रहणे तस्य धनुषस्तोलनेऽपि वा। तेषां वीर्यवतां वीर्यमल्पं ज्ञात्वा महामुने
प्रत्याख्याता नृपतयस्तन्निबोध तपोधन। ततः परमकोपेन राजानो मुनिपुंगव
अरुन्धन् मिथिलां सर्वे वीर्यसंदेहमागताः। आत्मानमवधूतं मे विज्ञाय नृपपुंगवाः
रोषेण महताविष्टाः पीडयन् मिथिलां पुरीम्। ततः संवत्सरे पूर्णे क्षयं यातानि सर्वशः
साधनानि मुनिश्रेष्ठ ततोऽहं भृशदुःखितः। ततो देवगणान् सर्वांस्तपसाहं प्रसादयम्
ददुश्च परमप्रीताश्चतुरंगबलं सुराः। ततो भग्ना नृपतयो हन्यमाना दिशो ययुः
अवीर्या वीर्यसंदिग्धाः सामात्याः पापकारिणः। तदेतन्मुनिशार्दूल धनुः परमभास्वरम्
रामलक्ष्मणयोश्चापि दर्शयिष्यामि सुव्रत। यद्यस्य धनुषो रामः कुर्यादारोपणं मुने। सुतामयोनिजां सीतां दद्यां दाशरथेरहम्
thumb|सप्तषष्ठितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे बालकाण्डे सप्तषष्ठितमः सर्गः ॥१-
जनकस्य वचः श्रुत्वा विश्वामित्रो महामुनिः। धनुर्दर्शय रामाय इति होवाच पार्थिवम्
ततः स राजा जनकः सचिवान् व्यादिदेश ह। धनुरानीयतां दिव्यं गन्धमाल्यानुलेपितम्
जनकेन समादिष्टाः सचिवाः प्राविशन् पुरम्। तद्धनुः पुरतः कृत्वा निर्जग्मुरमितौजसः
नृणां शतानि पञ्चाशद् व्यायतानां महात्मनाम्। मञ्जूषामष्टचक्रां तां समूहुस्ते कथंचन