स त्वं मानुषमात्रेण रामेण युधि निर्जितः। न व्यपत्रपसे राजन् किमिदं राक्षसेश्वर
कथं त्रैलोक्यमाक्रम्य श्रिया वीर्येण चान्वितम्। अविषह्यं जघान त्वां मानुषो वनगोचरः
मानुषाणामविषये चरतः कामरूपिणः। विनाशस्तव रामेण संयुगे नोपपद्यते
न चैतत् कर्म रामस्य श्रद्दधामि चमूमुखे। सर्वतः समुपेतस्य तव तेनाभिमर्षणम्
अथवा रामरूपेण कृतान्तः स्वयमागतः। मायां तव विनाशाय विधायाप्रतितर्किताम्
अथवा वासवेन त्वं धर्षितोऽसि महाबल। वासवस्य तु का शक्तिस्त्वां द्रष्टुमपि संयुगे
महाबलं महावीर्यं देवशत्रुं महौजसम्। व्यक्तमेष महायोगी परमात्मा सनातनः
अनादिमध्यनिधनो महतः परमो महान्। तमसः परमो धाता शङ्खचक्रगदाधरः
श्रीवत्सवक्षा नित्यश्रीरजय्यः शाश्वतो ध्रुवः। मानुषं रूपमास्थाय विष्णुः सत्यपराक्रमः
सर्वैः परिवृतो देवैर्वानरत्वमुपागतैः। सर्वलोकेश्वरः श्रीमाँल्लोकानां हितकाम्यया
स राक्षसपरीवारं देवशत्रुं भयावहम्। इन्द्रियाणि पुरा जित्वा जितं त्रिभुवनं त्वया
स्मरद्भिरिव तद् वैरमिन्द्रियैरेव निर्जितः। यदैव हि जनस्थाने राक्षसैर्बहुभिर्वृतः
खरस्तु निहतो भ्राता तदा रामो न मानुषः। यदैव नगरीं लङ्कां दुष्प्रवेशां सुरैरपि
प्रविष्टो हनुमान् वीर्यात् तदैव व्यथिता वयम्। क्रियतामविरोधश्च राघवेणेति यन्मया
उच्यमानो न गृह्णासि तस्येयं व्युष्टिरागता। अकस्माच्चाभिकामोऽसि सीतां राक्षसपुङ्गव
ऐश्वर्यस्य विनाशाय देहस्य स्वजनस्य च। अरुन्धत्या विशिष्टां तां रोहिण्याश्चापि दुर्मते
सीतां धर्षयता मान्यां त्वया ह्यसदृशं कृतम्। वसुधाया हि वसुधां श्रियाः श्रीं भर्तृवत्सलाम्
सीतां सर्वानवद्याङ्गीमरण्ये विजने शुभाम्। आनयित्वा तु तां दीनां छद्मनाऽऽत्मस्वदूषणम्
अप्राप्य तं चैव कामं मैथिलीसंगमे कृतम्। पतिव्रतायास्तपसा नूनं दग्धोऽसि मे प्रभो
तदैव यन्न दग्धस्त्वं धर्षयंस्तनुमध्यमाम्। देवा बिभ्यति ते सर्वे सेन्द्राः साग्निपुरोगमाः
अवश्यमेव लभते फलं पापस्य कर्मणः। भर्तः पर्यागते काले कर्ता नास्त्यत्र संशयः
शुभकृच्छुभमाप्नोति पापकृत् पापमश्नुते। विभीषणः सुखं प्राप्तस्त्वं प्राप्तः पापमीदृशम्
सन्त्यन्याः प्रमदास्तुभ्यं रूपेणाभ्यधिकास्ततः। अनङ्गवशमापन्नस्त्वं तु मोहान्न बुद्ध्यसे
न कुलेन न रूपेण न दाक्षिण्येन मैथिली। मयाधिका वा तुल्या वा तत् तु मोहान्न बुद्ध्यसे
सर्वदा सर्वभूतानां नास्ति मृत्युरलक्षणः। तव तद्वदयं मृत्युर्मैथिलीकृतलक्षणः
सीतानिमित्तजो मृत्युस्त्वया दूरादुपाहृतः। मैथिली सह रामेण विशोका विहरिष्यति
अल्पपुण्या त्वहं घोरे पतिता शोकसागरे। कैलासे मन्दरे मेरौ तथा चैत्ररथे वने
देवोद्यानेषु सर्वेषु विहृत्य सहिता त्वया। विमानेनानुरूपेण या याम्यतुलया श्रिया
पश्यन्ती विविधान् देशांस्तांस्तांश्चित्रस्रगम्बरा। भ्रंशिता कामभोगेभ्यः सास्मि वीर वधात् तव
सैवान्येवास्मि संवृत्ता धिग्राज्ञां चञ्चलां श्रियम्। हा राजन् सुकुमारं ते सुभ्रु सुत्वक्समुन्नसम्